शिवयात्रावर्णनम्
ब्रह्मोवाच
अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः ।
कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः
॥१॥ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः ।
पौरबन्धून्समाहूय जनवासं ययौ मुदा
॥२॥तत्र प्रभुम्प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा ।
कियद्दिनानि सन्तिष्ठ मद्गेहे सकलैस्सह
॥३॥विलोकनेन ते शम्भो कृतार्थोहं न संशयः ।
धन्यश्च यस्य मद्गेहे आयातोऽसि सुरैस्सह
॥४॥ब्रह्मोवाच
इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च ।
प्रभुन्निमन्त्रयामास सह विष्णुसुरादिभिः
॥५॥अथ ते मनसा गत्वा शिव संयुतमादरात् ।
प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः
॥६॥देवा ऊचुः
धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी ।
त्वत्समो न त्रिलोकेषु कोपि पुण्यतमो जनः
॥७॥यस्य द्वारि महेशानः परब्रह्म सतां गतिः ।
समागतस्सदासैश्च कृपया भक्तवत्सलः
॥८॥जनावासोतिरम्यश्च सम्मानो विविधः कृतः ।
भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर
॥९॥चित्रन्न खलु तत्रास्ति यत्र देवी शिवाम्बिका ।
परिपूर्णमशेषञ्च यवं धन्या यदागताः
॥१०॥ब्रह्मोवाच
इत्थम्परस्परन्तत्र प्रशंसाभवदुत्तमा ।
उत्सवो विविधो जातो वेदसाधुजयध्वनिः
॥११॥अभून्मङ्गलगानञ्च ननर्ताप्सरसांगणः ।
नुतिञ्चक्रुर्मागधाद्या द्रव्यदानमभूद्बहु
॥१२॥तत आमन्त्रय देवेशं स्वगेहमगमद्गिरिः ।
भोजनोत्सवमारेभे नानाविधिविधानतः
॥१३॥भोजनार्थं प्रभुम्प्रीत्यानयामास यथोचितम् ।
परिवारसमेतं च सकुतूहलमीश्वरम्
॥१४॥प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात् ।
सर्वेषाममराणाञ्च मुनीनाञ्च यथार्थतः
॥१५॥परेषाञ्च गतानाञ्च गिरीशो मण्डपान्तरे ।
आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः
॥१६॥सुरसैर्विविधान्नैश्च तर्पयामास तान्गिरिः ।
बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया
॥१७॥तदानीम्पुरनार्यश्च गालीदानम्व्यधुर्मुदा ।
मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान्
॥१८॥ते भुक्त्वाचम्य विधिवद्गिरिमामन्त्र्य नारद ।
स्वस्थानम्प्रययुस्सर्वे मुदितास्तृप्तिमागताः
॥१९॥इत्थन्तृतीये घस्रेऽपि मानितास्तेऽभवन्मुने ।
गिरीश्वरेण विधिवद्दानमानादरादिभिः
॥२०॥चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ।
बभूव विधिवद्येन विना खण्डित एव सः
॥२१॥उत्सवो विविधश्चासीत्साधुवादजयध्वनिः ।
बहुदानं सुगानञ्च नर्त्तनम्विविधन्तथा
॥२२॥पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः ।
विज्ञप्तिञ्चक्रिरे शैलं यात्रार्थमतिप्रेमतः
॥२३॥तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः ।
कियद्दिनानि तिष्ठन्तु कृपाङ्कुर्वन्तु मां सुराः
॥२४॥इत्युक्त्वा स्नेहतस्ताँश्च प्रभुम्विष्णुञ्च माम्परान् ।
वासयामास दिवसान् बहून्नित्यं समादरात्
॥२५॥इत्थम्व्यतीयुर्दिवसा बहवो वसतां च तत् ।
सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततस्सुराः
॥२६॥ते तं सम्बोधयामासुर्मेनाञ्च समयोचितम् ।
शिवतत्त्वम्परम्प्रोचुः प्रशंसन्विधिवन्मुदा
॥२७॥अङ्गीकृतं परेशेन तत्तद्बोधनतो मुने ।
यात्रार्थमगमच्छम्भुश्शैलेशं सामरादिकः
॥२८॥यात्राङ्कुर्वति देवेशे स्वशैलं सामरे शिवे ।
उच्चै रुरोद सा मेना तमुवाच कृपानिधिम्
॥२९॥मेनोवाच
कृपानिधे कृपाङ्कृत्वा शिवां सम्पालयिष्यसि ।
सहस्रदोषं पार्वत्या आशुतोषः क्षमिष्यसि
॥३०॥त्वत्पादाम्बुजभक्ता च मद्वत्सा जन्मजन्मनि ।
स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवं प्रभुम्बिना
॥३१॥त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ।
त्वन्निन्दया भवेन्मौना मृत्युंजय मृता इव
॥३२॥ब्रह्मोवाच
इत्युक्त्वा मेनका तस्मै समर्प्य स्वसुतान्तदा ।
अत्युच्चै रोदनङ्कृत्वा मूर्च्छामाप तयोः पुरः
॥३३॥अथ मेनाम्बोधयित्वा तामामन्त्र्य गिरिस्तथा ।
चकार यात्रान्देवैश्च महोत्सवपुरस्सरम्
॥३४॥अथ ते निर्जरास्सर्वे प्रभुणा स्वगणैस्सह ।
यात्राम्प्रचक्रिरे तूष्णीं गिरिम्प्रति शिवं दधुः
॥३५॥हिमाचलपुरीबाह्योपवने हर्षितास्सुराः ।
सेश्वरास्सोत्सवास्तस्थुः पर्यैषन्त शिवागमम्
॥३६॥इत्युक्ता शिवसद्यात्रा देवैस्सह मुनीश्वर ।
आकर्णय शिवयात्रां विरहोत्सवसंयुताम्
॥३७॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे शिवयात्रावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥