गिरिसांत्वनः
ऋषय ऊचुः
जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता ।
तस्माद्देया त्वया कन्या शंकराय महात्मने
॥१॥एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः ।
जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः
॥२॥ब्रह्मोवाच
एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर ।
प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम्
॥३॥हिमालय उवाच
सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम् ।
तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया
॥४॥इदानीमेक आगत्य विप्रो वैष्णवधर्मवान् ।
शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत्
॥५॥तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह ।
सुताविवाहं रुद्रेण योगिना तेन नेच्छति
॥६॥कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा ।
कृत्वा महाहठं विप्रा बोध्यमानापिऽनाबुधत्
॥७॥अहं च ज्ञानविभ्रष्टो जातोहं सत्यमीर्य्यते ।
दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ।
ब्रह्मोवाच ।
इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः ।
तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने
॥९॥सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै ।
प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ।
अथ पत्युस्समादाय निदेशं ज्ञानदा हि सा ।
जगामारुन्धती तूर्णं यत्र मेना च पार्वती
॥११॥गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम् ।
उवाच मधुरं साध्वी सावधाना हितं वचः
॥१२॥अरुन्धत्युवाच
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ।
आगता मुनयश्चापि सप्तायाताः कृपालवः
॥१३॥ब्रह्मोवाच
अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ।
उवाच शिरसा नत्वा तां पद्मामिव तेजसा
॥१४॥मेनोवाच
अहोद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ।
वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै
॥१५॥किमर्थमागता देवि तन्मे ब्रूहि विशेषतः ।
अहं दासीसमा ते हि ससुता करुणां कुरु
॥१६॥ब्रह्मोवाच
इत्युक्त्वा मेनकां साध्वी बोधयित्वा च तां बहु ।
तथागता च सुप्रीत्या सास्ते यत्रर्षयोऽपि ते
॥१७॥अथ शैलेश्वरं ते च बोधयामासुरादरात् ।
स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः
॥१८॥ऋषय ऊचुः
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् ।
शिवाय पार्वतीं देहि संहर्त्तुः श्वशुरो भव
॥१९॥अयाचितारं सर्वेशं प्रार्थयामास यत्नतः ।
तारकस्य विनाशाय ब्रह्मासम्बंधकर्म्मणि
॥२०॥नोत्सुको दारसंयोगे शंकरो योगिनां वरः ।
विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति
॥२१॥दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा ।
हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति
॥२२॥ब्रह्मोवाच
ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः ।
उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम्
॥२३॥हिमालय उवाच
शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन ।
कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम्
॥२४॥नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् ।
यूयं वेदविधातुश्च पुत्रा वदत निश्चितम्
॥२५॥वरायाननुरूपाय पिता कन्यां ददाति चेत् ।
कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं यजेत्
॥२६॥न हि दास्याम्यहं कन्यामिच्छया शूलपाणये ।
यद्विधानं भवेद्योग्यमृषयस्त द्विधीयताम्
॥२७॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्य हिमागस्य मुनीश्वर ।
प्रत्युवाच वसिष्ठस्तं तेषां वाक्यविशारद
॥२८॥वसिष्ठ उवाच
शृणु शैलेश मद्वाक्यं सर्वथा ते हितावहम् ।
धर्माविरुद्धं सत्यश्च परत्रेह मुदावहम्
॥२९॥वचनं त्रिविधं शैल लौकिके वैदिकेऽपि च ।
सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा
॥३०॥असत्यमहितं पश्चात्सांप्रतं श्रुतिसुन्दरम् ।
सुबुद्धिर्वक्ति शत्रुर्हि हितं नैव कदाचन
॥३१॥आदावप्रीतिजनकं परिणामे सुखावहम् ।
दयालुर्धमशीलो हि बोधयत्येव बांधवः
॥३२॥श्रुतिमात्रात्सुधातुल्यं सर्वकालसुखावहम् ।
सत्यसारं हितकरं वचनं श्रेष्ठमीप्सितम्
॥३३॥एवञ्च त्रिविधं शैल नीतिशास्त्रोदितं वचः ।
कथ्यतां त्रिषु मध्ये किं ब्रुवे वाक्यं त्वदीप्सितम्
॥३४॥ब्राह्मसम्पद्विहीनश्च शंकरस्त्रिदशेश्वरः तत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः
॥३५॥ज्ञानानन्दस्येश्वरस्य ब्राह्मवस्तुषु का स्पृहा ।
गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने
॥३६॥कन्यकां दुःखिने दत्त्वा कन्याघाती भवेत्पिता ।
को वेद शंकरो दुःखी कुबेरो यस्य किंकरः
॥३७॥भ्रूभङ्गलीलया सृष्टिं स्रष्टुं हर्त्तुं क्षमो हि सः ।
निर्गुणः परमात्मा च परेशः प्रकृतेः परः
॥३८॥यस्य च त्रिविधा मूर्त्तिर्विधा तुस्सृष्टिकर्मणि ।
सृष्टिस्थित्यन्तजननी ब्रह्मविष्णुहराभिधा
॥३९॥ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् ।
हरः कैलासनिलयः सर्वाः शिवविभूतयः
॥४०॥धत्ते च त्रिविधा मूर्ती प्रकृतिः शिवसम्भवा ।
अंशेन लीलया सृष्टौ कलया बहुधा अपि
॥४१॥मुखोद्भवा स्वयं वाणी वागधिष्ठातृदेवता ।
वक्षःस्थलोद्भवा लक्ष्मीस्सर्वसम्पत्स्वरूपिणी
॥४२॥शिवा तेजस्सु देवानामाविर्भावं चकार सा ।
निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ
॥४३॥प्राप कल्पान्तरे जन्म जठरे दक्ष योषितः ।
नाम्ना सती हरं प्राप दक्षस्तस्मै ददौ च ताम्
॥४४॥देहं तत्याज योगेन श्रुत्वा सा भर्तृनिन्दनम् ।
साद्य त्वत्तस्तु मेनायां जज्ञे जठरतश्शिवा
॥४५॥शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि ।
कल्पेकल्पे बुद्धिरूपा ज्ञानिनां जननी परा
॥४६॥जायते स्म सदा सिद्धा सिद्धिदा सिद्धिरूपिणी ।
सत्या अस्थि चिताभस्म भक्त्या धत्ते हरस्स्वयम्
॥४७॥अतस्त्वं स्वेच्छया कन्यां देहि भद्रां हराय च ।
अथवा सा स्वयं कान्तस्थाने यास्यत्यदास्यसि
॥४८॥कृत्वा प्रतिज्ञां देवेशो दृष्ट्वा क्लेशमसंख्यकम् ।
दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः
॥४९॥तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् ।
तत्प्रार्थनावशाच्छम्भुर्ययाचे त्वां शिवां गिरे
॥५०॥अंगीकृतं युवाभ्यां तच्छिवभक्तिरतात्मना ।
विपरीतमतिर्जाता वद कस्माद्गिरीश्वर
॥५१॥तद्गत्वा प्रभुणा देव प्रार्थितेन त्वदन्तिकम् ।
प्रस्थापिता वयं शीघ्रं ह्यृषयस्साप्यरुन्धती
॥५२॥शिक्षयामो वयं त्वा हि दत्त्वा रुद्राय पार्वतीम् ।
एवंकृते महानन्दो भविष्यति गिरे तव
॥५३॥शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि ।
भविता तद्विवाहोऽत्र भवितव्यबलेन हि
॥५४॥वरं ददौ शिवायै स तपन्त्यै तात शंकरः ।
नहीश्वरप्रतिज्ञातं विपरीताय कल्पते
॥५५॥अहो प्रतिज्ञा दुर्लंघ्या साधूनामीशवर्तिनाम् ।
सर्वेषां जगतां मध्ये किमीशस्य पुनर्गिरे
॥५६॥एको महेन्द्रश्शैलानां पक्षांश्चिच्छेद लीलया ।
पार्वती लीलया मेरोश्शृङ्गभङ्गं चकार च ।
एकार्थे नहि शैलेश नाश्यास्सर्वा हि सम्पदः ।
एकं त्यजेत्कुलस्यार्थे श्रुतिरेषा सनातनी
॥५८॥दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर ।
ब्राह्मणाद्भयमापन्नो ररक्ष निजसम्पदम्
॥५९॥तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः ।
ब्रह्मशापाद्विभीताश्च गुरवो ज्ञातिसत्तमाः
॥६०॥शैलराज त्वमप्येव सुतां दत्त्वा शिवाय च ।
रक्ष सर्वान्बंधुवर्गान्वशं कुरु सुरानपि
॥६१॥ब्रह्मोवाच
इत्याकर्ण्य वसिष्ठस्य वचनं स प्रह स्य च ।
पप्रच्छ नृपवार्त्ताश्च हृदयेन विदूयता
॥६२॥हिमालय उवाच
कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपश्चसः ।
सुतां दत्त्वा स च कथं ररक्षाखिलसम्पदः
॥६३॥ब्रह्मोवाच
इति श्रुत्वा वसिष्ठस्तु शैलवाक्यं प्रसन्नधीः ।
प्रोवाच गिरये तस्मै नृपवार्त्ता सुखावहाम्
॥६४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसांत्वनोनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥