वडवानलचरितम्
नारद उवाच
विधे नेत्रसमुद्भूतवह्निज्वाला हरस्य सा ।
गता कुत्र वद त्वं तच्चरित्रं शशिमौलिनः
॥१॥ब्रह्मोवाच
यदा भस्म चकाराशु तृतीयनयनानलः ।
शम्भोः कामं प्रजज्वाल सर्वतो विफलस्तदा
॥२॥हाहाकारो महानासीत्त्रैलोक्ये सचराचरे।
सर्वदेवर्षयस्तात शरणं मां ययुर्द्रुतम्
॥३॥सर्वे निवेदयामासुस्तद्दुखं मह्यमाकुलाः ।
सुप्रणम्य सुसंस्तुत्य करौ बद्ध्वा नतानना
॥४॥तच्छ्रुत्वाहं शिवं स्मृत्वा तद्धेतुं सुविमृश्य च ।
गतस्तत्र विनीतात्मा त्रिलोकावनहेतवे
॥५॥संदग्धुकामः स शुचिज्वालामालातिदीपितः ।
स्तंभितोऽरं मया शंभुप्रसादाप्तसुतेजसा
॥६॥अथ क्रोधमयं वह्निं दग्धुकाम जगत्त्रयम् ।
वाडवांतकमार्षं च सौम्यज्वालामुखं मुने
॥७॥तं वाडवतनुमहं समादाय शिवेच्छया ।
सागरं समगां लोकहिताय जगतां पतिः
॥८॥आगतं मां समालोक्य सागरस्सांजलिर्मुने ।
धृत्वा च पौरुषं रूपमागतस्संनिधिं मम
॥९॥सुप्रणम्याथ मां सिंधुस्संस्तूय च यथा विधि ।
स मामुवाच सुप्रीत्या सर्वलोकपितामहम्
॥१०॥सागर उवाच
किमर्थमागतोऽसि त्वं ब्रह्मन्नत्राखिलाधिप ।
तन्निदेशय सुप्रीत्या मत्वा मां च स्वसेवकम्
॥११॥अथाहं सागरवचश्श्रुत्वा प्रीतिपुरस्सरम् ।
प्रावोचं शंकरं स्मृत्वा लौकिकं हितमावहन्
॥१२॥ब्रह्मोवाच
शृणु तात महाधीमन्सर्वलोकहितावह ।
वच्म्यहं प्रीतितस्सिंधो शिवेच्छाप्रेरितो हृदा
॥१३॥अयं क्रोधो महेशस्य वाडवात्मा महाप्रभुः ।
दग्ध्वा कामं द्रुतं सर्वं दग्धुकामोऽभवत्ततः
॥१४॥प्रार्थितोऽहं सुरैश्शीघ्रं पीडितैश्शंकरेच्छया ।
तत्रागत्य द्रुतं तं वै तात स्तंभितवाञ्शुचिम्
॥१५॥वाडवं रूपमाधत्त तमादायाग तोत्र ह ।
निर्दिशामि जलाधार त्वामहं करुणाकरः
॥१६॥अयं क्रोधी महेशस्य वाडवं रूपमाश्रितः ।
ज्वालामुखस्त्वया धार्य्यो यावदाभूतसंप्लवम्
॥१७॥यदात्राहं समागम्य वत्स्यामि सरितां पते ।
तदा त्वया परित्याज्यः क्रोधोऽयं शांकरोऽद्भुतः
॥१८॥भोजनं तोयमेतस्य तव नित्यं भविष्यति ।
यत्नादेवावधार्य्योऽयं यथा नोपैति चांतरम्
॥१९॥ब्रह्मोवाच
इत्युक्तो हि मया सिंधुरंगीचक्रे तदा धुवम् ।
ग्रहीतुं वाडवं वह्निं रौद्रं चाशक्यमन्यतः
॥२०॥ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ।
वार्योघान्सुदहंस्तस्य ज्वालामालाभिदीपितः
॥२१॥ततस्संतुष्टचेतस्कस्स्वं धामाहं गतो मुने ।
अंतर्धानमगात्सिंधुर्दिव्यरूपः प्रणम्य माम्
॥२२॥स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं तद्भवाद्भयात् ।
देवा बभूवुः सुखिनो मुनयश्च महामुने २३
॥२३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे वडवानलचरितं नाम विंशोऽध्यायः ॥ २० ॥