मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — पार्वतीखण्डः, अध्याय ४

3
रुद्रसंहिता · पार्वतीखण्डः · 4

देवसान्त्वनम्

ब्रह्मोवाच

इत्थं देवैः स्तुता देवी दुर्गा दुर्गार्तिनाशिनी ।

आविर्बभूव देवानां पुरतो जगदंबिका

॥१॥

रथे रत्नमये दिव्ये संस्थिता परमाद्भुते ।

किंकिणीजालसंयुक्ते मृदुसंस्तरणे वरे

॥२॥

कोटिसूर्याधिकाभास रम्यावयवभासिनी ।

स्वतेजोराशिमध्यस्था वररूपा समच्छवि

॥३॥

अनूपमा महामाया सदाशिवविलासिनी ।

त्रिगुणा निर्गुणा नित्या शिवलोकनिवासिनी

॥४॥

त्रिदेवजननी चण्डी शिवा सर्वार्तिनाशिनी ।

सर्वमाता महानिद्रा सर्वस्वजनतारिणी

॥५॥

तेजोराशेः प्रभावात्तु सा तु दृष्ट्वा सुरैश्शिवा ।

तुष्टुवुस्तां पुनस्ते वै सुरा दर्शनकांक्षिणः

॥६॥

अथ देवगणास्सर्वे विष्ण्वाद्या दर्शनेप्सवः ।

ददृशुर्जगदम्बां तां तत्कृपां प्राप्य तत्र हि

॥७॥

बभूवानन्दसन्दोहस्सर्वेषां त्रिदिवौकसाम् ।

पुनः पुनः प्रणेमुस्तां तुष्टुवुश्च विशेषतः

॥८॥

देवा ऊचुः

शिवे शर्वाणि कल्याणि जगदम्ब महेश्वरि ।

त्वां नतास्सर्वथा देवा वयं सर्वार्तिनाशिनीम्

॥९॥

न हि जानन्ति देवेशि वेदश्शास्त्राणि कृत्स्नशः ।

अतीतो महिमा ध्यानं तव वाङ्मनसोश्शिवे

॥१०॥

अतद्व्यावृत्तितस्तां वै चकितं चकितं सदा ।

अभिधत्ते श्रुतिरपि परेषां का कथा मता

॥११॥

जानन्ति बहवो भक्तास्त्वत्कृपां प्राप्य भक्तितः ।

शरणागतभक्तानां न कुत्रापि भयादिकम्

॥१२॥

विज्ञप्तिं शृणु सुप्रीता यस्या दासास्सदाम्बिके ।

तव देवि महादेवि हीनतो वर्णयामहे

॥१३॥

पुरा दक्षसुता भूत्वा संजाता हरवल्लभा ।

ब्रह्मणश्च परेषां वा नाशयत्वमकंमहत्

॥१४॥

पितृतोऽनादरं प्राप्यात्यजः पणवशात्तनुम् ।

स्वलोकमगमस्त्वं वालभद्दुःखं हरोऽपि हि

॥१५॥

न हि जातम्प्रपूर्णं तद्देवकार्यं महेश्वरि ।

व्याकुला मुनयो देवाश्शरणन्त्वां गता वयम्

॥१६॥

पूर्णं कुरु महेशानि निर्जराणां मनोरथम् ।

सनत्कुमारवचनं सफलं स्याद्यथा शिवे

॥१७॥

अवतीर्य क्षितौ देवि रुद्रपत्नी पुनर्भव ।

लीलां कुरु यथायोग्यं प्राप्नुयुर्निर्जरास्सुखम्

॥१८॥

सुखी स्याद्देवि रुद्रोऽपि कैलासाचलसंस्थितः ।

सर्वे भवन्तु सुखिनो दुःखं नश्यतु कृत्स्नशः

॥१९॥

ब्रह्मोवाच

इति प्रोच्यामरास्सर्वे विष्ण्वाद्याः प्रेमसंकुलाः ।

मौनमास्थाय संतस्थुर्भक्तिनम्रा त्ममूर्तयः

॥२०॥

शिवापि सुप्रसन्नाभूदाकर्ण्यामरसंस्तुतिम् ।

आकलय्याथ तद्धेतुं संस्मृत्य स्वप्रभुं शिवम्

॥२१॥

उवाचोमा तदा देवी सम्बोध्य विबुधांश्च तान् ।

विहस्य मापतिमुखान्सदया भक्तवत्सला

॥२२॥

उमोवाच

हे हरे हे विधे देवा मुनयश्च गतव्यथाः ।

सर्वे शृणुत मद्वाक्यं प्रसन्नाहं न संशयः

॥२३॥

चरितं मम सर्वत्र त्रैलोक्यस्य सुखावहम् ।

कृतं मयैवं सकलं दक्षमोहादिकं च तत्

॥२४॥

अवतारं करिष्यामि क्षितौ पूर्णं न संशयः ।

बहवो हेतवोऽप्यत्र तद्वदामि महादरात्

॥२५॥

पुरा हिमाचलो देवा मेना चातिसुभक्तितः ।

सेवां मे चक्रतुस्तात जननीवत्सतीतनोः

॥२६॥

इदानीं कुरुतस्सेवां सुभक्त्या मम नित्यशः ।

मेना विशेषतस्तत्र सुतात्वेनात्र संशयः

॥२७॥

रुद्रो गच्छतु यूयं चावतारं हिमवद्गृहे ।

अतश्चावतरिष्यामि दुःखनाशो भविष्यति

॥२८॥

सर्वे गच्छत धाम स्वं स्वं सुखं लभतां चिरम् ।

अवतीर्य सुता भूत्वा मेनाया दास्य उत्सुखम्

॥२९॥

हरपत्नी भविष्यामि सुगुप्तं मतमात्मनः ।

अद्भुता शिवलीला हि ज्ञानिनामपि मोहिनी

॥३०॥

यावत्प्रभृति मे त्यक्ता स्वतनुर्दक्षजा सुराः ।

पितृतोऽनादरं दृष्ट्वा स्वामिनस्तत्क्रतौ गता

॥३१॥

तदाप्रभृति स स्वामी रुद्रः कालाग्निसंज्ञकः ।

दिगम्बरो बभूवाशु मच्चिन्तनपरायणः

॥३२॥

मम रोषं क्रतौ दृष्ट्वा पितुस्तत्र गता सती ।

अत्यजत्स्वतनुं प्रीत्या धर्मज्ञेति विचारतः

॥३३॥

योग्यभूत्सदनं त्यक्त्वा कृत्वा वेषमलौकिकम् ।

न सेहे विरहं सत्या मद्रूपाया महेश्वरः

॥३४॥

मम हेतोर्महादुःखी स बभूव कुवेषभृत् ।

अत्यजत्स तदारभ्य कामजं सुखमुत्तमम्

॥३५॥

अन्यच्छृणुत हे विष्णो हे विधे मुनयः सुराः ।

महाप्रभोर्महेशस्य लीलां भुवनपालिनीम्

॥३६॥

विधाय मालां सुप्रीत्या ममास्थ्नां विरहाकुलः ।

न शान्तिं प्राप कुत्रापि प्रबुद्धो ऽप्येक एव सः

॥३७॥

इतस्ततो रुरोदोच्चैरनीश इव स प्रभुः ।

योग्यायोग्यं न बुबुधे भ्रमन्सर्वत्र सर्वदा

॥३८॥

इत्थं लीलां हरोऽकार्षीद्दर्शयन्कामिनां प्रभुः ।

ऊचे कामुकवद्वाणीं विरहव्याकुलामिव

॥३९॥

वस्तुतोऽविकृतोऽदीनोऽस्त्यजितः परमेश्वरः ।

परिपूर्णः शिवः स्वामी मायाधीशोऽखिलेश्वरः

॥४०॥

अन्यथा मोहतस्तस्य किं कामाच्च प्रयोजनम् ।

विकारेणापि केनाशु मायालिप्तो न स प्रभुः

॥४१॥

रुद्रोऽतीवेच्छति विभुस्स मे कर्तुं करग्रहम् ।

अवतारं क्षितौ मेनाहिमाचलगृहे सुराः

॥४२॥

अतश्चावतरिष्यामि रुद्रसन्तोषहेतवे ।

हिमागपत्न्यां मेनाया लौकिकीं गतिमाश्रिता

॥४३॥

भक्ता रुद्रप्रिया भूत्वा तपः कृत्वा सुदुस्सहम् ।

देवकार्यं करिष्यामि सत्यं सत्यं न संशयः

॥४४॥

गच्छत स्वगृहं सर्वे भव भजत नित्यशः ।

तत्कृपातोऽखिलं दुःखं विनश्यति न संशयः

॥४५॥

भविष्यति कृपालोस्तु कृपया मंगलं सदा ।

वन्द्या पूज्या त्रिलोकेऽहं तज्जायेति च हेतुतः

॥४६॥

ब्रह्मोवाच

इत्युक्त्वा जगदम्बा सा देवानां पश्यतान्तदा ।

अन्तर्दधे शिवा तात स्वं लोकम्प्राप वै द्रुतम्

॥४७॥

विष्ण्वादयस्सुरास्सर्वे मुनयश्च मुदान्विताः ।

कृत्वा तद्दिशि संनामं स्वस्वधामानि संययुः

॥४८॥

इत्थं दुर्गासुचरितं वर्णितं ते मुनीश्वर ।

सर्वदा सुखदं नॄणां भुक्तिमुक्तिप्रदायकम्

॥४९॥

य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।

पठेद्वा पाठयेद्वापि सर्वान्कामान वाप्नुयात्

॥५०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे देवसान्त्वनं नाम चतुर्थोऽध्यायः ॥ ४ ॥