ज्ञानुसंधानवर्णनम्
ब्रह्मोवाच
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः ।
तथान्यैश्च महादेवः प्रसन्नस्संबभूव ह
॥१॥अथ शंभुः कृपा दृष्ट्या सर्वान् ऋषिसुरादिकान् ।
ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह
॥२॥महादेव उवाच
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोस्मि प्रजापते ।
भक्ताधीनः सदाहं वै स्वतंत्रोप्यखिलेश्वरः
॥३॥चतुर्विधा भजंते मां जनाः सुकृतिनस्सदा ।
उत्तरोत्तरतः श्रेष्ठास्तेषां दक्षप्रजापते
॥४॥आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ।
पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते
॥५॥तत्र ज्ञानी प्रियतर ममरूपञ्च स स्मृतः ।
तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम्
॥६॥ज्ञानगम्योहमात्मज्ञो वेदांतश्रुतिपारगैः ।
विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः
॥७॥न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ।
न शक्नुवंति मां प्राप्तुं मूढाः कर्मवशा नरा
॥८॥केवलं कर्म्मणा त्वं स्म संसारं तर्तुमिच्छसि ।
अत एवाभवं रुष्टो यज्ञविध्वंसकारकः
॥९॥इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ।
बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः
॥१०॥अन्यच्च शृणु सद्बुद्ध्या वचनं मे प्रजापते ।
वच्मि गुह्यं धर्महेतोः सगुणत्वेप्यहं तव
॥११॥अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् ।
आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः
॥१२॥आत्ममायां समाविश्य सोहं गुणमयीं मुने ।
सृजन्रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः
॥१३॥अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ।
अज्ञः पश्यति भेदेन भूतानि ब्रह्मचेश्वरम्
॥१४॥शिरः करादिस्वांगेषु कुरुते न यथा पुमान् ।
पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः
॥१५॥सर्वभूतात्मनामेकभावनां यो न पश्यति ।
त्रिसुराणां भिदां दक्ष स शांतिमधिगच्छति
॥१६॥यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः ।
नरके स वसेन्नूनं यावदाचन्द्रतारकम्
॥१७॥मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः ।
स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती
॥१८॥विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी ।
विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते
॥१९॥इत्युक्त्वा शंकरस्स्वामी सर्वेषां परमेश्वरः ।
सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः
॥२०॥हरिभक्तो हि मां निन्देत्तथा शैवोभवे द्यदि ।
तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि
॥२१॥ब्रह्मोवाच
इत्याकर्ण्य महेशस्य वचनं सुखकारकम् ।
जहृषुस्सकलास्तत्र सुरमुन्यादयो मुने
॥२२॥दक्षोभवन्महाप्रीत्या शिवभक्तिरतस्तदा ।
सकुटुम्बस्सुराद्यास्ते शिवं मत्वाखिलेश्वरम्
॥२३॥यथा येन कृता शंभोः संस्तुतिः परमात्मनः ।
तथा तस्मै वरो दत्तश्शंभुना तुष्टचेतसा
॥२४॥ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः ।
यज्ञं चकार संपूर्णं शिवानुग्रहतो मुने
॥२५॥ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः ।
दानं ददौ द्विजेभ्यश्च प्राप्तः शंभोरनुग्रहः
॥२६॥अथो देवस्य सुमहत्तत्कर्म विधिपूर्वकम् ।
दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः
॥२७॥एवं दक्षमखः पूर्णोभवत्तत्र मुनीश्वरः ।
शंकरस्य प्रसादेन परब्रह्मस्वरूपिणः
॥२८॥अथ देवर्षयस्सर्वे शंसंतश्शांकरं यशः ।
स्वधामानि ययुस्तु ष्टाः परेपि सुखतस्तदा
॥२९॥अहं विष्णुश्च सुप्रीतावपि स्वंस्वं परं मुदा ।
गायन्तौ सुयशश्शंभोः सर्वमंगलदं सदा
॥३०॥दक्ष संमानितः प्रीत्या महादेवोपि सद्गतिः ।
कैलासं स ययौ शैलं सुप्रीतस्सगणो निजम्
॥३१॥आगत्य स्वगिरिं शंभुस्सस्मार स्वप्रियां सतीम् ।
गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम्
॥३२॥कालं निनाय विज्ञानी बहु तच्चरितं वदन् ।
लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः
॥३३॥नानीतिकारकः स्वामी परब्रह्म सतां गतिः ।
तस्य मोहः क्व वा शोकः क्व विकारः परो मुने
॥३४॥अहं विष्णुश्च जानीवस्तद्भेदं न कदाचन ।
केपरे मुनयो देवा मनुषाद्याश्च योगिनः
॥३५॥महिमा शांकरोनंतो दुर्विज्ञेयो मनीषिभिः ।
भक्तज्ञातश्च सद्भक्त्या तत्प्रसादाद्विना श्रमम्
॥३६॥एकोपि न विकारो हि शिवस्य परमात्मनः ।
संदर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम्
॥३७॥यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने ।
लभते सद्गतिं दिब्यामिहापि सुखमुत्तमम्
॥३८॥इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः ।
जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम्
॥३९॥पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा ।
गौरी भूत्वार्द्धवामांगी लीलाश्चक्रेद्भुताश्शिवा
॥४०॥इत्थं सतीचरित्रं ते वर्णितं परमाद्भुतम् ।
भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम्
॥४१॥इदमाख्यानमनघं पवित्रं परपावनम् ।
स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम्
॥४२॥य इदं शृणुयाद्भक्त्या श्रावयेद्भक्तिमान्नरान् ।
सर्वकर्मा लभेत्तात परत्र परमां गतिम्
॥४३॥यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम् ।
सोपि भुक्त्वाखिलान् भोगानंते मोक्षमवाप्नुयात्
॥४४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षय ज्ञानुसंधानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
श्रीः ।
समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः
॥२॥श्रीसांबसदाशिवार्पणमस्तु