मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ३५

3
रुद्रसंहिता · सतीखण्डः · 35

विष्णुवाक्यवर्णनम्

दक्ष उवाच

देवदेव हरे विष्णो दीनबंधो कृपानिधे ।

मम रक्षा विधातव्या भवता साध्वरस्य च

॥१॥

रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः ।

कृपा विधेया यज्ञस्य भंगो भवतु न प्रभो

॥२॥

ब्रह्मोवाच

इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् ।

पपात पादयोस्तस्य भयव्याकुलमानसः

॥३॥

उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् ।

श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम्

॥४॥

स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् ।

अवदच्छिवतत्त्वज्ञो दक्षं सबोधयन्हरिः

॥५॥

हरिरुवाच

शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ।

सर्वथा ते हितकरं महामंत्रसुखप्रदम्

॥६॥

अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ।

सकलाधीश्वरस्यैव शंकरस्य परात्मनः

॥७॥

ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ।

विफलं केवलं नैव विपत्तिश्च पदेपदे

॥८॥

अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ।

त्रीणि तत्र भविष्यंति दारिद्र्यं मरणं भयम्

॥९॥

तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ।

अमानितान्महेशाच्च महद्भयमुपस्थितम्

॥१०॥

अद्यापि न वयं सर्वे प्रभवः प्रभवामहे ।

भवतो दुर्नयेनैव मया सत्यमुदीर्य्यते

॥११॥

ब्रह्मोवाच

विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ।

विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः

॥१२॥

एतस्मिन्नंतरे वीरभद्रः सैन्यसमन्वितः ।

अगच्छदध्वरं रुद्रप्रेरितो गणनायकः

॥१३॥

पृष्ठे केचित्समायाता गगने केचिदागताः ।

दिशश्च विदिशः सर्वे समावृत्य तथापरे

॥१४॥

शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः ।

असंख्याः सिंहनादान्वै कुर्वंतो वीरसत्तमाः

॥१५॥

तेन नादेन महता नादितं भुवनत्रयम् ।

रजसा चावृतं व्योम तमसा चावृता दिशः

॥१६॥

सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला ।

सशैलकानना तत्र चुक्षुभुस्सकलाब्धयः

॥१७॥

एवंभूतं च तत्सैन्यं लोकक्षयकरं महत् ।

दृष्ट्वा च विस्मितास्सर्वे बभूवुरमरादयः

॥१८॥

सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः ।

दंडवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत

॥१९॥

दक्ष उवाच

भवद्बलेनैव मया यज्ञः प्रारंभितो महान् ।

सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो

॥२०॥

विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ।

धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो

॥२१॥

तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ।

त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः

॥२२॥

ब्रह्मोवाच

दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ।

अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम्

॥२३॥

विष्णुरुवाच

मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ।

ख्यातो मम पणः सत्यो धर्मस्य परिपालनम्

॥२४॥

तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ।

शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना

॥२५॥

नैमिषे निमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् ।

तत्किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना

॥२६॥

रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ।

न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः

॥२७॥

किं कर्म किमकर्मेति तत्र पश्यसि दुर्मते ।

समर्थं केवलं कर्म न भविष्यति सर्वदा

॥२८॥

स्वकर्मविद्धि तद्येन समर्थत्वेन जायते ।

न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना

॥२९॥

ईश्वरस्य च यो भक्त्या शांतस्तद्गतमानसः ।

कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः

॥३०॥

केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः ।

निरयं ते च गच्छंति कल्पकोटिशतानि च

॥३१॥

पुनः कर्ममयैः पाशैर्वद्धा जन्मनि जन्मनि ।

निरयेषु प्रपच्यंते केवलं कर्मरूपिणः

॥३२॥

अयं रुद्रगणाधीशो वीरभद्रोऽरि मर्दनः ।

रुद्रकोपाग्निसंभूतः समायातोध्वरांगणे

॥३३॥

अयमस्मद्विनाशार्थमागतोस्ति न संशयः ।

अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः

॥३४॥

प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः ।

ततः प्रशांतहृदयो भविष्यति न संशयः

॥३५॥

श्रीमहादेवशपथं समुल्लंघ्य भ्रमान्मया ।

यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह

॥३६॥

शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे ।

शपथोल्लंघनादेव शिवद्रोही यतोस्म्यहम्

॥३७॥

कालत्रयेपि न यतो महेशद्रोहिणां सुखम् ।

ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह

॥३८॥

सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति ।

शैवचक्रमिदं यस्मादशैवलयकारणम्

॥३९॥

विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् ।

हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ

॥४०॥

शैवं शपथमुल्लंघ्य स्थितं मां चक्रमीदृशम् ।

असंहत्यैव सहसा कृपयैव स्थिरं परम्

॥४१॥

अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम् गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम्

॥४२॥

वीरभद्रः पूजितोपि शीघ्रमस्माभिरादरात् ।

महाक्रोधसमाक्रांतो नास्मान्संरक्षयिष्यति

॥४३॥

अकांडप्रलयोऽस्माकमागतोद्य हि हा हहा ।

हा हा बत तवेदानीं नाशोस्माकमुपस्थितः

॥४४॥

शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये ।

शंकरद्रोहिणो लोके कश्शरण्यो भविष्यति

॥४५॥

तनुनाशेपि संप्राप्यास्तैश्चापि यमयातनाः ।

तानैव शक्यते सोढुं बहुदुःखप्रदायिनीः

॥४६॥

शिवद्रोहिणमालोक्य दष्टदंतो यमः स्वयम् ।

तप्ततैलकटाहेषु पातयत्येव नान्यथा

॥४७॥

गन्तुमेवाहमुद्युक्तं सर्वथा शपथोत्तरम् ।

तथापि न गतश्शीघ्रं दुष्टसंसर्गपापतः

॥४८॥

यदद्य क्रियतेस्माभिः पलायनमितस्तदा ।

शार्वो ना कर्षकश्शस्त्रैरस्मानाकर्षयिष्यति

॥४९॥

स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः ।

श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्ल भम्

॥५०॥

यावतश्च गणास्संति श्रीरुद्रस्य त्रिशूलिनः ।

तावतामपि सर्वेषां शक्तिरेतादृशी धुवम्

॥५१॥

श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया ।

पुरा शिरश्च चिच्छेद पंचमं ब्रह्मणो ध्रुवम्

॥५२॥

एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः ।

वीरभद्रोपि संप्राप तदैवाऽध्वरमंडपम्

॥५३॥

एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् ।

वीरभद्रेण सहितं ददृशुश्च सुरादया

॥५४॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥