नंदाव्रतविधानशिवस्तुतिवर्णनम्
ब्रह्मोवाच
अथैकदा पितुः पार्श्वे तिष्ठंतीं तां सतीमहम् ।
त्वया सह मुनेद्राक्षं सारभूतां त्रिलोकके
॥१॥पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती ।
प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी
॥२॥प्रणामांते सतीं वीक्ष्य दक्षदत्तशुभासने ।
स्थितोहं नारद त्वं च विनतामहमागदम्
॥३॥त्वामेव यः कामयते यन्तु कामयसे सति ।
तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम्
॥४॥यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।
जायां स ते पतिर्भूयादनन्यसदृशश्शुभे
॥५॥इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः ।
विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद
॥६॥दक्षोभवच्च सुप्रीतः तदाकर्ण्य गतज्वरः ।
आददे तनयां स्वां तां मत्वा हि परमेश्वरीम्
॥७॥इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला ।
जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः
॥८॥बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती ।
अतीव तपसांगेन सर्वांगेषु मनोहरा
॥९॥दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नांतर्वयस्थिताम् ।
चिंतयामास भर्गाय कथं दास्य इमां सुताम् ।
अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ।
पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागमत्
॥११॥पप्रच्छाज्ञां तपोहेतोश्शंकरस्य विनीतधीः ।
मातुश्शिवाथ वैरिण्यास्सा सखी परमेश्वरी
॥१२॥ततस्सती महेशानं पतिं प्राप्तुं दृढव्रता ।
सा तमाराधयामास गृहे मातुरनुज्ञया ।
आश्विने मासि नन्दायां तिथावानर्च भक्तितः ।
गुडौदनैस्सलवणैर्हरं नत्वा निनाय तम्
॥१४॥कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ।
समाकीर्णैस्समाराध्य सस्मार परमेश्वरम्
॥१५॥मार्गशीर्षेऽसिताष्टम्यां सतिलैस्सयवौदनैः ।
पूजयित्वा हरं कीलैर्निनाय दिवसान् सती
॥१६॥पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ।
अपूजयच्छिवं प्रातः कृशरान्नेन सा सती
॥१७॥माघे तु पौर्णमास्यां स कृत्वा जागरणं निशि ।
आर्द्रवस्त्रा नदीतीरेऽकरोच्छंकरपूजनम्
॥१८॥तपस्यसितभूतायां कृत्वा जागरणं निशि ।
विशेषतस्समानर्च शैलूषैस्सर्वयामसु
॥१९॥चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैश्शिवम् ।
अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम्
॥२०॥राधशुक्लतृतीयायां तिलाहारयवौदनैः ।
पूजयित्वा सती रुद्रं नव्यैर्मासं निनाय तम्
॥२१॥ज्येष्ठस्य पूर्णिमायां वै रात्रै संपूज्य शंकरम् ।
वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम्
॥२२॥आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा।
बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तया
॥२३॥श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम् ।
यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत्
॥२४॥भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ।
संपूज्य च चतुर्दश्यां चकार जलभो जनम्
॥२५॥नानाविधैः फलैः पुष्पैस्सस्यैस्तत्कालसंभवैः ।
चक्रे सुनियताहारा जपन्मासे शिवार्चनम्
॥२६॥सर्वमासे सर्वदिने शिवार्चनरता सती ।
दृढव्रताभवद्देवी स्वेच्छाधृतनराकृतिः
॥२७॥इत्थं नंदाव्रतं कृत्स्नं समाप्य सुसमाहिता ।
दध्यौ शिवं सती प्रेम्णा निश्चलाभूदनन्यधीः
॥२८॥एतस्मिन्नंतरे देवा मुनयश्चाखिला मुने ।
विष्णुं मां च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः
॥२९॥दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा ।
शिवध्यानमहामग्ना सिद्धावस्थां गता तदा
॥३०॥चक्रुः सर्वे सुरास्सत्ये मुदा सांजलयो नतिम् ।
मुनयश्च नतस्कंधा विष्ण्वाद्याः प्रीतमानसाः
॥३१॥अथ सर्वे सुप्रसन्ना विष्ण्वाद्याश्च सुरर्षयः ।
प्रशशंसुस्तपस्तस्यास्सत्यास्तस्मात्सविस्मयाः
॥३२॥ततः प्रणम्य तां देवीं पुनस्ते मुनयस्सुराः ।
जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम्
॥३३॥सावित्रीसहितश्चाहं सह लक्ष्म्या मुदान्वितः ।
वासुदेवोपि भगवाञ्जगामाथ हरांतिकम्
॥३४॥गत्वा तत्र प्रभुं दृष्ट्वा सुप्रणम्य सुसंभ्रमाः ।
तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः
॥३५॥देवा ऊचुः
नमो भगवते तुभ्यं यत एतच्चराचरम् ।
पुरुषाय महेशाय परेशाय महात्मने
॥३६॥आदिबीजाय सर्वेषां चिद्रूपाय पराय च ।
ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च
॥३७॥य इदं प्रतिपंच्येदं येनेदं विचकास्ति हि ।
यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः
॥३८॥योस्मात्परस्माच्च परो निर्विकारी महाप्रभुः ।
ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयंभुवम्
॥३९॥अविद्धदृक् परः साक्षी सर्वात्मा ऽनेकरूपधृक् ।
आत्मभूतः परब्रह्म तपंतं शरणं गताः
॥४०॥न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् ।
कः पुनर्जंतुरपरो ज्ञातुमर्हति वेदितुम्
॥४१॥दिदृक्षवो यस्य पदं मुक्तसंगास्सुसाधवः ।
चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम्
॥४२॥त्वज्जन्मादिविकारा नो विद्यंते केपि दुःखदा ।
तथापि मायया त्वं हि गृह्णासि कृपया च तान्
॥४३॥तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे ।
नमो गिरां विदूराय ब्रह्मणे परमात्मने
॥४४॥अरूपायोरुरूपाय परायानंतशक्तये ।
त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च
॥४५॥नम आत्मप्रदीपाय निर्वाणसुखसंपदे ।
ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च
॥४६॥नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः ।
पुरुषाय परेशाय नमस्ते सर्वदाय च
॥४७॥क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे
॥४८॥सर्वाध्यक्षाय महते मूलप्रकृतये नमः ।
पुरुषाय परेशाय नमस्ते सर्वदाय च
॥४९॥त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः ।
सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोस्तु ते
॥५०॥त्रिलोककारणायाथापवर्गाय नमोनमः ।
अपवर्गप्रदायाशु शरणागततारिणे
॥५१॥सर्वाम्नायागमानां चोदधये परमेष्ठिने ।
परायणाय भक्तानां गुणानां च नमोस्तु ते
॥५२॥नमो गुणारणिच्छन्न चिदूष्माय महेश्वर ।
मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा
॥५३॥पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च ।
स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे
॥५४॥प्रत्यग्द्रष्ट्रैऽविकाराय परमैश्वर्य धारिणे ।
यं भजन्ति चतुर्वर्गे कामयंतीष्टसद्गतिम् ।
सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः
॥५५॥एकांतिनः कंचनार्थं भक्ता वांछंति यस्य न ।
केवलं चरितं ते ते गायंति परमंगलम्
॥५६॥अक्षरं परमं ब्रह्मतमव्यक्ताकृतिं विभुम् ।
अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम्
॥५७॥अतींद्रियमनाधारं सर्वाधारमहेतुकम् ।
अनंतमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम्
॥५८॥हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः ।
नामरूपविभेदेन फल्ग्व्या च कलया कृताः
॥५९॥यथार्चिषोग्नेस्सवितुर्यांति निर्यांति वासकृत् ।
गभस्तयस्तथायं वै प्रवाहो गौण उच्यते
॥६०॥न त्वं देवो ऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो ।
न स्त्री न षंढो न पुमान्सदसन्न च किंचन
॥६१॥निषेधशेषस्सर्वं त्वं विश्वकृद्विश्व पालकः ।
विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम्
॥६२॥योगरंधितकर्माणो यं प्रपश्यन्ति योगिनः ।
योगसंभाविते चित्ते योगेशं त्वां नता वयम्
॥६३॥नमोस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय ।
नमः प्रसन्नपालाय नमस्ते भूरिशक्तये
॥६४॥कदिंद्रियाणां दुर्गेशानवाप्य परवर्त्मने ।
भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे
॥६५॥यच्छक्त्याहं धियात्मानं हंत वेद न मूढधी ।
तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम्
॥६६॥ब्रह्मोवाच
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः ।
तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकंधराः
॥६७॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे नंदाव्रतविधानशिवस्तुति वर्णनं नाम पंचदशोऽध्यायः ॥ १५ ॥