मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय २९

3
रुद्रसंहिता · सतीखण्डः · 29

दाक्षायणी गता तत्र तत्र यज्ञो महाप्रभः

ब्रह्मोवाच

दाक्षायणी गता तत्र तत्र यज्ञो महाप्रभः ।

सुरासुरमुनीन्द्रादिकुतूहलसमन्वितः

॥१॥

स्वपितुर्भवनं तत्र नानाश्चर्यसमन्वितम् ।

ददर्श सुप्रभं चारु सुरर्षिगण संयुतम्

॥२॥

द्वारि स्थिता तदा देवी ह्यवरुह्य निजासनात् ।

नन्दिनोऽभ्यंतरं शीघ्रमेकैवागच्छदध्वरम्

॥३॥

आगतां च सतीं दृष्ट्वाऽसिक्नी माता यशस्विनी ।

अकरोदादरं तस्या भगिन्यश्च यथोचितम्

॥४॥

नाकरोदादरं दक्षो दृष्ट्वा तामपि किंचन ।

नान्योपि तद्भयात्तत्र शिवमायाविमोहितः

॥५॥

अथ सा मातरं देवी पितरं च सती मुने ।

अनमद्विस्मितात्यंतं सर्वलोक पराभवात्

॥६॥

भागानपश्यद्देवानां हर्यादीनां तदध्वरे ।

न शंभुभागमकरोत् क्रोधं दुर्विषहं सती

॥७॥

सत्युवाच

तदा दक्षं दहन्तीव रुषा पूर्णा सती भृशम् ।

क्रूरदृष्ट्या विलोक्यैव सर्वानप्यपमानिता

॥८॥

सत्युवाच

अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः ।

येन पूतमिदं विश्वं समग्रं सचराचरम्

॥९॥

यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः ।

यज्ञकर्ता च यश्शंभुस्तं विना च कथं मखः

॥१०॥

यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ।

विना तेन कृतं सर्वमपवित्रं भविष्यति

॥११॥

द्रव्यमंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ।

शंभुना हि विना तेन कथं यज्ञः प्रवर्तितः

॥१२॥

किं शिवं सुरसामान्यं मत्याकार्षीरनादरम् ।

भ्रष्टबुद्धिर्भवानद्य जातोसि जनकाधम

॥१३॥

विष्णुब्रह्मादयो देवा यं संसेव्य महेश्वरम् ।

प्राप्ताः स्वपदवीं सर्वे तं न जानासि रे हरम्

॥१४॥

एते कथं समायाता विष्णुब्रह्मादयस्सुराः ।

तव यज्ञे विना शंभुं स्वप्रभुं मुनयस्तथा

॥१५॥

ब्रह्मोवाच

इत्युक्त्वा परमेशानी विष्ण्वादीन्सकलान् प्रति ।

पृथक्पृथगवोचत्सा भर्त्सयंती भवात्मिका

॥१६॥

सत्युवाच

हे विष्णो त्वं महादेवं किं न जानासि तत्त्वतः ।

सगुणं निर्गुणं चापि श्रुतयो यं वदंति ह

॥१७॥

यद्यपि त्वां करं दत्त्वा बहुवारं महेश्वरः ।

अशिक्षयत्पुरा शाल्वप्रमुखाकृतिभिर्हरे

॥१८॥

तदपि ज्ञानमायातं न ते चेतसि दुर्मते ।

भागार्थी दक्षयज्ञेस्मिन् शिवं स्वस्वामिनं विना

॥१९॥

पुरा पंचमुखो भूत्वा गर्वितोऽसि सदाशिवम् ।

कृतश्चतुर्मुखस्तेन विस्मृतोसि तदद्भुतम्

॥२०॥

इन्द्र त्वं किं न जानासि महादेवस्य विक्रमम् ।

भस्मी कृतः पविस्ते हि हरेण क्रूरकर्मणा

॥२१॥

हे सुराः किन्न जानीथ महादेवस्य विक्रमम् ।

अत्रे वसिष्ठ मुनयो युष्माभिः किं कृतं त्विह

॥२२॥

भिक्षाटनं च कृतवान् पुरा दारुवने विभुः ।

शप्तो यद्भिक्षुको रुद्रो भवद्भिर्मुनिभिस्तदा

॥२३॥

शप्तेनापि च रुद्रेण यत्कृतं विस्मृतं कथम् ।

तल्लिंगेनाखिलं दग्धं भुवनं सचराचरम्

॥२४॥

सर्वे मूढाश्च संजाता विष्णुब्रह्मादयस्सुराः ।

मुनयोऽन्ये विना शंभुमागता यदिहाध्वरे

॥२५॥

सर्वे वेदाश्च संभूताः सांगाश्शास्त्राणि वाग्यतः ।

योसौ वेदांतगश्शम्भुः कैश्चिज्ज्ञातुं न पार्यते

॥२६॥

ब्रह्मोवाच

इत्यनेकविधा वाणीरगदज्जगदम्बिका ।

कोपान्विता सती तत्र हृदयेन विदूयता

॥२७॥

विष्ण्वादयोखिला देवा मुनयो ये च तद्वचः ।

मौनीभूतास्तदाकर्ण्य भयव्याकुलमानसाः

॥२८॥

अथ दक्षस्समाकर्ण्य स्वपुत्र्यास्तादृशं वचः ।

विलोक्य क्रूरदृष्ट्या तां सतीं कुद्धोऽब्रवीद्वचः

॥२९॥

दक्ष उवाच

तव किं बहुनोक्तेन कार्यं नास्तीह सांप्रतम् ।

गच्छ वा तिष्ठ वा भद्रे कस्मात्त्वं हि समागता

॥३०॥

अमंगलस्तु ते भर्ता शिवोसौ गम्यते बुधैः ।

अकुलीको वेदबाह्यो भूतप्रेतपिशाचराट्

॥३१॥

तस्मान्नाह्वारितो रुद्रो यज्ञार्थं सुकुवेषभृत् ।

देवर्षिसंसदि मया ज्ञात्वा पुत्रि विपश्चिता

॥३२॥

विधिना प्रेरितेन त्वं दत्ता मंदेन पापिना ।

रुद्रायाविदितार्थाय चोद्धताय दुरात्मने

॥३३॥

तस्मात्कोपं परित्यज्य स्वस्था भव शुचिस्मिते ।

यद्यागतासि यज्ञेस्मिन् दायं गृह्णीष्व चात्मना

॥३४॥

ब्रह्मोवाच

दक्षेणोक्तेति सा पुत्री सती त्रैलोक्यपू जिता ।

निंदायुक्तं स्वपितरं दृष्ट्वासीद्रुषिता भृशम्

॥३५॥

अर्चितयत्तदा सेति कथं यास्यामि शंकरम् ।

शंकरं द्रष्टुकामाहं पृष्टा वक्ष्ये किमुत्तरम्

॥३६॥

अथ प्रोवाच पितरं दक्षं तं दुष्टमानसम् ।

निश्श्वसंती रुषाविष्टा सा सती त्रिजगत्प्रसूः

॥३७॥

सत्युवाच

यो निंदति महादेवं निंद्यमानं शृणोति वा ।

तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ

॥३८॥

तस्मात्त्यक्ष्याम्यहं देवं प्रवेक्ष्यामि हुताशनम् ।

किं जीवितेन मे तात शृण्वंत्यानादरं प्रभोः

॥३९॥

यदि शक्तस्स्वयं शंभोर्निंदकस्य विशेषतः ।

छिंद्यात् प्रसह्य रसनां तदा शुद्ध्येन्न संशयः

॥४०॥

यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै ।

कर्णौ धीमान् ततश्शुद्ध्येद्वदंतीदं बुधान्वरान्

॥४१॥

ब्रह्मोवाच

इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा ।

अस्मरच्छांकरं वाक्यं दूयमानेन चेतसा

॥४२॥

ततस्संकुद्ध्य सा दक्षं निश्शंकं प्राह तानपि ।

सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम्

॥४३॥

सत्युवाच

तात त्वं निंदकश्शंभोः पश्चात्तापं गमिष्यसि ।

इह भुक्त्वा महादुःखमंते यास्यसि यातनाम्

॥४४॥

यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः ।

तस्मिन्नवैरे शर्वेस्मिन् त्वां विना कः प्रतीपकः

॥४५॥

महद्विनिंदा नाश्चर्यं सर्वदाऽसत्सु सेर्ष्यकम् ।

महदंघ्रिरजो ध्वस्ततमस्सु सैव शोभना

॥४६॥

शिवेति द्व्यक्षरं यस्य नृणां नाम गिरेरितम् ।

सकृत्प्रसंगात्सकलमघमाशु विहंति तत्

॥४७॥

पवित्रकीर्तितमलं भवान् द्वेष्टि शिवेतरः ।

अलंघ्यशासनं शंभुमहो सर्वेश्वरं खलः

॥४८॥

यत्पादपद्मं महतां मनोऽलिसुनिषेवितम् ।

सर्वार्थदं ब्रह्मरसैः सर्वार्थिभिरथादरात्

॥४९॥

यद्वर्षत्यर्थिनश्शीघ्रं लोकस्य शिवआदरात् ।

भवान् द्रुह्यति मूर्खत्वात्तस्मै चाशेषबंधवे

॥५०॥

किंवा शिवाख्यमशिवं त्वदन्ये न विदुर्बुधाः ।

ब्रह्मादयस्तं मुनयस्सनकाद्यास्तथापरे

॥५१॥

अवकीर्य जटाभूतैश्श्मशाने स कपालधृक् ।

तन्माल्यभस्म वा ज्ञात्वा प्रीत्यावसदुदारधीः

॥५२॥

ये मूर्द्धभिर्दधति तच्चरणोत्सृष्टमाराद् ।

निर्माल्यं मुनयो देवास्स शिवः परमेश्वरः

॥५३॥

प्रवृत्तं च निवृत्तं च द्विविधं कर्मचोदि तम् ।

वेदे विविच्य वृत्तं च तद्विचार्यं मनीषिभिः

॥५४॥

विरोधियौगपद्यैककर्तृके च तथा द्वयम् ।

परब्रह्मणि शंभो तु कर्मर्च्छंति न किंचन

॥५५॥

मा वः पदव्यस्स्म पितर्या अस्मदास्थितास्सदा ।

यज्ञशालासु वो धूम्रवर्त्मभुक्तोज्झिताः परम्

॥५६॥

नोऽव्यक्तलिंगस्सततमवधूतसुसेवितः ।

अभिमानमतो न त्वं कुरु तात कुबुद्धिधृक्

॥५७॥

किंबहूक्तेन वचसा दुष्टस्त्वं सर्वथा कुधीः।

त्वदुद्भवेन देहेन न मे किंचित्प्रयोजनम्

॥५८॥

तज्जन्म धिग्यो महतां सर्वथावद्यकृत्खलः ।

परित्याज्यो विशेषेण तत्संबंधो विपश्चिता

॥५९॥

गोत्रं त्वदीयं भगवान् यदाह वृषभध्वजः ।

दाक्षायणीति सहसाहं भवामि सुदुर्मनाः

॥६०॥

तस्मात्त्वदंगजं देहं कुणपं गर्हितं सदा ।

व्युत्सृज्य नूनमधुना भविष्यामि सुखावहा

॥६१॥

हे सुरा मुनयस्सर्वे यूयं शृणुत मद्वचः ।

सर्वथानुचितं कर्म युष्माकं दुष्टचेतसाम्

॥६२॥

सर्वे यूयं विमूढा हि शिवनिंदाः कलिप्रियाः ।

प्राप्स्यंति दण्डं नियतमखिलं च हराद्ध्रुवम्

॥६३॥

ब्रह्मोवाच

दक्षमुक्त्वाध्वरे तांश्च व्यरमत्सा सती तदा ।

अनूद्य चेतसा शम्भुमस्मरत्प्राणवल्लभम्

॥६४॥

इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवाक्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥