मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ४०

3
रुद्रसंहिता · सतीखण्डः · 40

विधे विधे महाप्राज्ञा शैवतत्त्वप्रदर्शक

नारद उचाच ।

विधे विधे महाप्राज्ञा शैवतत्त्वप्रदर्शक ।

श्राविता रमणीप्राया शिवलीला महाद्भुता

॥१॥

वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै ।

कैलासाद्रौ गते तात किमभूत्तद्वदाधुना

॥२॥

ब्रह्मोवाच

अथ देवगणास्सर्वे मुनयश्च पराजिताः ।

रुद्रानीकैर्विभिन्नांगा मम लोकं ययुस्तदा

॥३॥

स्वयंभुवे नमस्कृत्य मह्यं संस्तूय भूरिशः ।

तत्स्वक्लेशं विशेषेण कार्त्स्येनैव न्यवेदयन्

॥४॥

तदाकर्ण्य ततोहं वै पुत्रशोकेन पीडितः ।

अचिन्तयमतिव्यग्रो दूयमानेन चेतसा

॥५॥

किं कार्य्यं कार्यमद्याशु मया देवसुखावहम् ।

येन जीवतु दक्षासौ मखः पूर्णो भवेत्सुरः

॥६॥

एवं विचार्य बहुधा नालभं शमहं मुने ।

विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप्तं तदोचितम्

॥७॥

अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ।

नत्वा नुत्वा च विविधैस्स्तवैर्दुःखं न्यवेदयम्

॥८॥

यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः ।

सुखिनस्स्युस्सुरास्सर्वे मुनयश्च तथा कुरु

॥९॥

देव देव रमानाथ विष्णो देवसुखावह ।

वयं त्वच्छरणं प्राप्तास्सदेवमुनयो ध्रुवम्

॥१०॥

ब्रह्मोवाच

इत्याकर्ण्य वचो मे हि ब्रह्मणस्स रमेश्वरः ।

प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः

॥११॥

विष्णुरुवाच

तेजीयसि न सा भूता कृतागसि बुभूषताम् ।

तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम्

॥१२॥

कृतपापास्सुरा सर्वे शिवे हि परमेश्वरे ।

पराददुर्यज्ञभागं तस्य शंभोर्विधे यतः

॥१३॥

प्रसादयध्यं सर्वे हि यूयं शुद्धेन चेतसा ।

अथापरप्रसादं तं गृहीतांघ्रियुगं शिवम्

॥१४॥

यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् ।

सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम्

॥१५॥

तमाशु देवं प्रियया विहीनं च दुरुक्तिभिः ।

क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना

॥१६॥

अयमेव महोपायस्तच्छांत्यै केवलं विधे ।

शंभोस्संतुष्टये मन्ये सत्यमेवोदितं मया

॥१७॥

नाहं न त्वं सुराश्चान्ये मुनयोपि तनूभृतः ।

यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः

॥१८॥

आत्मतंत्रस्य तस्यापि परस्य परमात्मनः ।

क उपायं विधित्सेद्वै परं मूढं विरोधिनम्

॥१९॥

चलिष्येहमपि ब्रह्मन् सर्वैः सार्द्ध शिवालयम् ।

क्षमापयामि गिरिशं कृतागाश्च शिवे धुवम्

॥२०॥

ब्रह्मोवाच

इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् ।

सार्द्धं देवेर्मतिं चक्रे तद्गिरौ गमनाय सः

॥२१॥

ययौ स्वधिष्ण्य निलयं शिवस्याद्रिवरं शुभम् ।

कैलासं सामरमुनिप्रजेशादिमयो हरिः

॥२२॥

अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः ।

नरेतरैरप्सरोभिर्योगसिद्धैमहोन्नतम्

॥२३॥

नानामणिमयैश्शृंगैः शोभमानं समंततः ।

नानाधातुविचित्रं वै नानाद्रुमलताकुलम्

॥२४॥

नानामृगगणाकीर्णं नानापक्षिसमन्वितम् ।

नानाजलप्रस्रवणैरमरैस्सिद्धयोषिताम्

॥२५॥

रमणैवाहरंतीनां नानाकंदर सानुभिः ।

द्रुमजातिभिरन्याभी राजितं राजतप्रभम्

॥२६॥

व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् ।

सर्वशोभान्वितं दिव्यं महाविस्मयकारकम्

॥२७॥

पर्यस्तं गंगया सत्या स्थानपुण्यतरोदया ।

सर्वपावनसंकर्त्र्या विष्णुपद्या सुनिर्मलम्

॥२८॥

एवंविधं गिरिं दृष्ट्वा कैलासाख्यं शिवप्रियम् ।

ययुस्ते विस्मयं देवा विष्ण्वाद्यास्समुनीश्वराः

॥२९॥

तस्समीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् ।

कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः

॥३०॥

वनं सौगंधिकं चापि ददृशुस्तत्समीपतः ।

सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्रुतम्

॥३१॥

तद्बाह्यतस्तस्य दिव्ये सरितावतिपावने ।

नंदा चालकनंदा च दर्शनात्पापहारिके

॥३२॥

पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः ।

विगाह्य पुंभिस्तास्तत्र क्रीडंति रतिकर्शिताः

॥३३॥

हित्वा यक्षेश्वरपुरीं वनं सौगंधिकं च यत् ।

गच्छंतस्ते सुरा आराद्ददृशुश्शांकरं वटम्

॥३४॥

पर्यक् कृताचलच्छायं पादोन विटपाय तम् ।

शतयोजन कोत्सेधं निर्नीडं तापवर्ज्जितम्

॥३५॥

महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् ।

शंभुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम्

॥३६॥

मुमुक्षुशरणे तस्मिन् महायोगमये वटे ।

आसीनं ददृशुस्सर्वे शिवं विष्ण्वादयस्सुराः

॥३७॥

विधिपुत्रैर्महासिद्धैश्शिव भक्तिरतैस्सदा ।

उपास्यमानं सुमुदा शांतैस्संशांतविग्रहैः

॥३८॥

तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् ।

सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिस्सदा

॥३९॥

तापसाभीष्टसद्रूपं बिभ्रतं परमेश्वरम् ।

वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम्

॥४०॥

मुने तुभ्यं प्रवोचंतं पृच्छते ज्ञानमुत्तमम् ।

कुशासने सूपविष्टं सर्वेषां शृण्वतां सताम्

॥४१॥

कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि ।

बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया

॥४२॥

एवंविधं शिवं दृष्ट्वा तदा विष्ण्वादयस्सुराः ।

प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः

॥४३॥

उपलभ्यागतं रुद्रो मया विष्णुं सतां गतिः ।

उत्थाय चक्रे शिरसाभिवंदनमपि प्रभुः

॥४४॥

वंदितांघ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिश्शिवः ।

ननामाथ यथा विष्णुं कश्यपं लोकसद्गतिः

॥४५॥

सुरसिद्धगणाधीशमहर्षिसु नमस्कृतम् ।

समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात्

॥४६॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवदर्शनवर्णनं नाम चत्वारिंशोध्यायः ॥ ४० ॥