मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय २०

3
रुद्रसंहिता · सतीखण्डः · 20

विवाहवर्णनम्

नारद उवाच

ब्रह्मन् विधे महाभाग शिवभक्तवर प्रभो ।

श्रावितं चरितं शंभोरद्भुतं मंगलायनम्

॥१॥

ततः किमभवत्तात कथ्यतां शशिमौलिनः सत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम्

॥२॥

ब्रह्मोवाच

निवृत्ते शंकरे चास्मद्वधाद्भक्तानुकंपिनि ।

अभवन्निर्भयास्सर्वे सुखिनस्तु प्रसन्नकाः

॥३॥

नतस्कंधास्सांजलयः प्रणेमुर्निखिलाश्च ते ।

तुष्टुवुश्शंकरं भक्त्या चक्रुर्जयरवं मुदा

॥४॥

तस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने ।

अस्तवं शंकरं भक्त्या विविधैश्च शुभस्तवैः

॥५॥

ततस्तुष्टमनाश्शंभुर्बहुलीलाकरः प्रभुः ।

मुने मां समुवाचेदं सर्वेषां शृण्वतां तदा

॥६॥

रुद्र उवाच

ब्रह्मन् तात प्रसन्नोहं निर्भयस्त्वं भवाधुना ।

स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम्

॥७॥

ब्रह्मोवाच

इत्याकर्ण्य वचश्शम्भोर्बहुलीलाकृतः प्रभोः ।

स्पृशन् स्वं कं तथा भूत्वा प्राणमं वृषभध्वजम्

॥८॥

यावदेवमहं स्वं कं स्पृशामि निजपाणिना ।

तावत्तत्र स्थितं सद्यस्तद्रूपवृषवाहनम्

॥९॥

ततो लज्जापरीतांगस्स्थितश्चाहमधोमुखः ।

इन्द्राद्यैरमरैस्सर्वैस्सुदृष्टस्सर्वतस्स्थितैः

॥१०॥

अथाहं लज्जयाविष्टः प्रणिपत्य महेश्वरम् ।

प्रवोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति

॥११॥

अस्य पापस्य शुध्यर्थं प्रायश्चित्तं वद प्रभो ।

निग्रहं च तथान्यायं येन पापं प्रयातु मे

॥१२॥

इत्युक्तस्तु मया शंभुरुवाच प्रणतं हि तम् ।

सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः

॥१३॥

शंभुरुवाच

अनेनैव स्वरूपेण मदधिष्ठितकेन हि ।

तपः कुरु प्रसन्नात्मा मदाराधनतत्परः

॥१४॥

ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ ।

साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम्

॥१५॥

मनुष्याणामिदं कृत्यं यस्माद्वीर्य्यं त्वयाऽधुना ।

तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले

॥१६॥

यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति ।

किमेतद्ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः

॥१७॥

ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः ।

परदारकृतात्त्यागान्मुक्तिं सद्यस्स यास्यति

॥१८॥

यथा यथा जनश्चैतत्कृत्यन्ते कीर्तयिष्यति ।

तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति

॥१९॥

एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम् ।

जनहास्यकरं लोके तव गर्हाकरं परम्

॥२०॥

एतच्च तव वीर्य्यं हि पतितं वेदिमध्यगम् ।

कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति

॥२१॥

चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव ।

तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयंकराः

॥२२॥

एतस्मिन्नंतरे तत्र देवर्षीणां पुरो द्रुतम् ।

तद्रेतसस्समभवंस्तन्मिताश्च बलाहका

॥२३॥

संवर्तकस्तथावर्त्तः पुष्करो द्रोण एव च ।

एते चतुर्विधास्तात महामेघा लयंकराः

॥२४॥

गर्जंतश्चाथ मुचंतस्तोयानीषच्छिवेच्छया ।

फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः

॥२५॥

तैस्तु संछादिते व्योम्नि सुगर्जद्भिश्च शंकरः ।

प्रशान्दाक्षायणी देवी भृशं शांतोऽभवद्द्रुतम्

॥२६॥

अथ चाहं वीतभयश्शंकरस्या ज्ञया तदा ।

शेषं वैवाहिकं कर्म समाप्तिमनयं मुने

॥२७॥

पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः ।

सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता

॥२८॥

वाद्यमानेषु वाद्येषु गायमानेषु तेषु च ।

पठत्सु विप्रवर्येषु वादान् भक्त्यान्वितेषु च

॥२९॥

रंभादिषु पुरंध्रीषु नृत्यमानासु सादरम् ।

महोत्सवो महानासीद्देवपत्नीषु नारद

॥३०॥

अथ कर्मवितानेशः प्रसन्नः परमेश्वरः ।

प्राह मां प्रांजलिं प्रीत्या लौकिकीं गतिमाश्रितः

॥३१॥

ईश्वर उवाच

हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत् ।

प्रसन्नोस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम्

॥३२॥

याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा ।

ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम

॥३३॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्सोहं शंकरस्य कृतांजलिः ।

मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः

॥३४॥

ब्रह्मोवाच

यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ।

तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम्

॥३५॥

अनेनैव तु रूपेण वेद्यामस्यां महेश्वर ।

त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये

॥३६॥

येनास्य संनिधौ कृत्वा स्वाश्रमं शशि शेखर ।

तपः कुर्या विनाशाय स्वपापस्यास्य शंकर

॥३७॥

चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ।

सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः

॥३८॥

तदैव तस्य पापानि प्रयांतु हर संक्षयम् ।

वर्द्धते विपुलं पुण्यं रोगा नश्यंतु सर्वशः

॥३९॥

या नारी दुर्भगा वंध्या काणा रूपविवर्जिता ।

सापि त्वद्दर्शनादेव निर्दोषा संभवेद्ध्रुवम्

॥४०॥

ब्रह्मोवाच

इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम् ।

तथाऽस्त्विति शिवः प्राह सुप्रसन्नेन चेतसा

॥४१॥

शिव उवाच

हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः ।

स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे

॥४२॥

ब्रह्मोवाच

इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः ।

उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम्

॥४३॥

ततो दक्षं समामंत्र्य शंकरः परमेश्वरः ।

पत्न्या सत्या गंतुमना अभूत्स्वजनवत्सलः

॥४४॥

एतस्मिन्नंतरे दक्षो विनयावनतस्सुधीः ।

सांजलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम्

॥४५॥

विष्ण्वादयस्सुरास्सर्वे मुनयश्च गणास्तदा ।

नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा

॥४६॥

आरोप्य वृषभे शंभुस्सतीं दक्षाज्ञया मुदा ।

जगाम हिमवत्प्रस्थं वृषभस्थस्स्वयं प्रभुः

॥४७॥

अथ सा शंकराभ्यासे सुदती चारुहासिनी ।

विरेजे वृषभस्था वै चन्द्रांते कालिका यथा

॥४८॥

विष्ण्वादयस्सुरास्सर्वे मरीच्याद्यास्तथर्षयः ।

दक्षोपि मोहितश्चासीत्तथान्ये निश्चला जनाः

॥४९॥

केचिद्वाद्यान्वादयन्तो गायंतस्सुस्वरं परे ।

शिवं शिवयशश्शुद्धमनुजग्मुः शिवं मुदा

॥५०॥

मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना ।

वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः

॥५१॥

विसृष्टा अपि विष्ण्वाद्याश्शम्भुना पुनरेव ते ।

अनुजग्मुश्शिवं भक्त्या सुराः परमया मुदा

॥५२॥

तैस्सर्वैस्सगणैश्शंभुस्सत्यः च स्वस्त्रिया युतः ।

प्राप स्वं धाम संहृष्टो हिमवद्गिरि शोभितम्

॥५३॥

तत्र गत्वाखिलान्देवान्मुनीनपि परांस्तथा ।

मुदा विसर्जयामास बहु सम्मान्य सादरम्

॥५४॥

शंभुमाभाष्य ते सर्वे विष्ण्वाद्या मुदितानना ।

स्वंस्वं धाम ययुर्नत्वा स्तुत्वा च मुनयस्सुराः

॥५५॥

शिवोपि मुदितोत्यर्थं स्वपत्न्या दक्षकन्यया ।

हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः

॥५६॥

ततस्स शंकरस्सत्या सगणस्सूतिकृन्मुने ।

प्राप स्वं धाम संहृष्टः कैलाशं पर्वतोत्तमम्

॥५७॥

एतद्वस्सर्वमाख्यातं यथा तस्य पुराऽभवत् ।

विवाहो वृषयानस्य मनुस्वायंभुवान्तक

॥५८॥

विवाहसमये यज्ञे प्रारंभे वा शृणोति यः ।

एतदाख्यानमव्यग्रस्संपूज्य वृषभध्वजम्

॥५९॥

तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् ।

शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत्

॥६०॥

कन्या च सुखसौभण्यशीलाचारगुणान्विता ।

साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम्

॥६१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सती विवाहवर्णनं नाम विंशोऽध्यायः ॥ २० ॥