मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ३२

3
रुद्रसंहिता · सतीखण्डः · 32

वीरभद्रोत्पत्तिशिवोपदेशवर्णनम्

नारद उवाच

श्रुत्वा व्योमगिरं दक्षः किमकार्षीत्तदाऽबुधः ।

अन्ये च कृतवंतः किं ततश्च किमभूद्वद

॥१॥

पराजिताः शिवगणा भृगुमंत्रबलेन वै ।

किमकार्षुः कुत्र गतास्तत्त्वं वद महामते

॥२॥

ब्रह्मोवाच

श्रुत्वा व्योमगिरं सर्वे विस्मिताश्च सुरादयः ।

नावोचत्किंचिदपि ते तिष्ठन्तस्तु विमोहिताः

॥३॥

पलायमाना ये वीरा भृगुमंत्रबलेन ते ।

अवशिष्टा श्शिवगणाश्शिवं शरणमाययुः

॥४॥

सर्वं निवेदयामासू रुद्रायामिततेजसे ।

चरित्रं च तथाभूतं सुप्रणम्यादराच्च ते

॥५॥

गणा ऊचुः

देवदेव महादेव पाहि नश्शरणागतान् ।

संशृण्वादरतो नाथ सती वार्तां च विस्तरात्

॥६॥

गर्वितेन महेशानदक्षेन सुदुरात्मना ।

अवमानः कृतस्सत्याऽनादरो निर्जरैस्तथा

॥७॥

तुभ्यं भागमदात्रो स देवेभ्यश्च प्रदत्तवान् ।

दुर्वचांस्यवदत्प्रोच्चैर्दुष्टो दक्षस्सुगर्वितः

॥८॥

ततो दृष्ट्वा न ते भागं यज्ञेऽकुप्यत्सती प्रभो ।

विनिंद्य बहुशस्तातमधाक्षीत्स्वतनुं तदा

॥९॥

गणास्त्वयुतसंख्याका मृतास्तत्र विलज्जया ।

स्वांगान्याछिद्य शस्त्रैश्च क्रुध्याम ह्यपरे वयम्

॥१०॥

तद्यज्ञे ध्वंसितुं वेगात्सन्नद्धास्तु भयावहाः ।

तिरस्कृता हि भृगुणा स्वप्रभावाद्विरोधिना

॥११॥

ते वयं शरणं प्राप्तास्तव विश्वंभर प्रभो ।

निर्भयान् कुरु नस्तस्माद्दयमानभवाद्भयात्

॥१२॥

अपमानं विशेषेण तस्मिन् यज्ञे महाप्रभो ।

दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति

॥१३॥

इत्युक्तं निखिलं वृत्तं स्वेषां सत्याश्च नारद ।

तेषां च मूढबुद्धीनां यथेच्छसि तथा कुरु

॥१४॥

ब्रह्मोवाच

इत्याकर्ण्यवचस्तस्य स्वगणानां वचः प्रभुः ।

सस्मार नारदं सर्वं ज्ञातुं तच्चरितं लघु

॥१५॥

आगतस्त्वं द्रुतं तत्र देवर्षे दिव्यदर्शन ।

प्रणम्य शंकरं भक्त्या सांजलिस्तत्र तस्थिवान्

॥१६॥

त्वां प्रशस्याथ स स्वामी सत्या वार्त्तां च पृष्टवान् ।

दक्षयज्ञगताया वै परं च चरितं तथा

॥१७॥

पृष्टेन शंभुना तात त्वयाश्वेव शिवात्मना ।

तत्सर्वं कथितं वृतं जातं दक्षाध्वरे हि यत्

॥१८॥

तदाकर्ण्येश्वरो वाक्यं मुने तत्त्वन्मुखोदितम् ।

चुकोपातिद्रुतं रुद्रो महारौद्रपराक्रमः

॥१९॥

उत्पाट्यैकां जटां रुद्रो लोकसंहारकारकः ।

आस्फालयामास रुषा पर्वतस्य तदोपरि

॥२०॥

तोदनाच्च द्विधा भूता सा जटा च मुने प्रभोः ।

संबभूव महारावो महाप्रलयभीषणः

॥२१॥

तज्जटायास्समुद्भूतो वीरभद्रो महाबलः ।

पूर्वभागेन देवर्षे महाभीमो गणाग्रणीः

॥२२॥

स भूमिं विश्वतो वृत्त्वात्यतिष्ठद्दशांगुलम् ।

प्रलयानलसंकाशः प्रोन्नतो दोस्सहस्रवान्

॥२३॥

कोपनिश्वासतस्तत्र महारुद्रस्य चेशितुः ।

जातं ज्वराणां शतकं संनिपातास्त्रयोदश

॥२४॥

महाकाली समुत्पन्ना तज्जटापरभा गतः ।

महाभयंकरा तात भूतकोटिभिरावृता

॥२५॥

सर्वे मूर्त्तिधराः क्रूराः स्वर लोकभयंकराः ।

स्वतेजसा प्रज्वलंतो दहंत इव सर्वतः

॥२६॥

अथ वीरो वीरभद्रः प्रणम्य परमेश्वरम् ।

कृतांजलिपुटः प्राह वाक्यं वाक्यविशारदः

॥२७॥

वीरभद्र उवाच

महारुद्र महारौद्र सोमसूर्याग्निलोचन ।

किं कर्तव्यं मया कार्यं शीघ्रमाज्ञापय प्रभो

॥२८॥

शोषणीयाः किमीशान क्षणार्द्धेनैव सिंधवः ।

पेषणीयाः किमीशान क्षणार्द्धेनैव पर्वताः

॥२९॥

क्षणेन भस्मसात्कुर्यां ब्रह्मांडमुत किं हर ।

क्षणेन भस्मसात्कुर्याम्सुरान्वा किं मुनीश्वरान्

॥३०॥

व्याश्वासः सर्वलोकानां किमु चार्यो हि शंकर ।

कर्तव्य किमुतेशान सर्वप्राणिविहिंसनम्

॥३१॥

ममाशक्यं न कुत्रापि त्वत्प्रसादान्महेश्वर ।

पराक्रमेण मत्तुल्यो न भूतो न भविष्यति

॥३२॥

यत्र यत्कार्यमुद्दिश्य प्रेषयिष्यसि मां प्रभो ।

तत्कार्यं साधयाम्येव सत्वरं त्वत्प्रसादतः

॥३३॥

क्षुद्रास्तरंति लोकाब्धिं शासनाच्छंकरस्य ते ।

हरातोहं न किं तर्तुं महापत्सागरं क्षमः

॥३४॥

त्वत्प्रेषिततृणेनापि महत्कार्यं मयत्नतः ।

क्षणेन शक्यते कर्तुं शंकरात्र न संशयः

॥३५॥

लीलामात्रेण ते शंभो कार्यं यद्यपि सिद्ध्यति ।

तथाप्यहं प्रेषणीयो तवैवानुग्रहो ह्ययम्

॥३६॥

शक्तिरेतादृशी शंभो ममापि त्वदनुग्रहात् ।

विना शक्तिर्न कस्यापि शंकर त्वदनुग्रहात्

॥३७॥

त्वदाज्ञया विना कोपि तृणादीनपि वस्तुतः ।

नैव चालयितुं शक्तस्सत्यमेतन्न संशयः

॥३८॥

शंभो नियम्यास्सर्वेपि देवाद्यास्ते महेश्वर ।

तथैवाहं नियम्यस्ते नियंतुस्सर्वदेहिनाम्

॥३९॥

प्रणतोस्मि महादेव भूयोपि प्रणतोस्म्यहम् ।

प्रेषय स्वेष्ट सिद्ध्यर्थं मामद्य हर सत्वरम्

॥४०॥

स्पंदोपि जायते शंभो सख्यांगानां मुहुर्मुहुः ।

भविष्यत्यद्य विजयो मामतः प्रेषय प्रभो

॥४१॥

हर्षोत्साहविशेषोपि जायते मम कश्चन ।

शंभो त्वत्पादकमले संसक्तश्च मनो मम

॥४२॥

भविष्यति प्रतिपदं शुभसंतानसंततिः

॥४३॥

तस्यैव विजयो नित्यं तस्यैव शुभमन्वहम् ।

यस्य शंभौ दृढा भक्तिस्त्वयि शोभनसंश्रये

॥४४॥

ब्रह्मोवाच

इत्युक्तं तद्वचः श्रुत्वा संतुष्टो मंगलापतिः ।

वीरभद्र जयेति त्वं प्रोक्ताशीः प्राह तं पुनः

॥४५॥

महेश्वर उवाच

शृणु मद्वचनं तात वीरभद्र सुचेतसा ।

करणीयं प्रयत्नेन तद्द्रुतं मे प्रतोषकम्

॥४६॥

यागं कर्तुं समुद्युक्तो दक्षो विधिसुतः खलः ।

मद्विरोधी विशेषेण महागर्वोऽबुधोऽधुना

॥४७॥

तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् ।

पुनरायाहि मत्स्थानं सत्वरं गणसत्तम

॥४८॥

सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ।

तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम्

॥४९॥

तत्रास्तु विष्णुर्ब्रह्मा वा शचीशो वा यमोपि वा ।

अपि चाद्यैव तान्सर्वान्पातयस्व प्रयत्नतः

॥५०॥

सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ।

तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम्

॥५१॥

दधीचिकृतमुल्लंघ्य शपथं मयि तत्र ये ।

तिष्ठंति ते प्रयत्नेन ज्वालनीयास्त्वया ध्रुवम्

॥५२॥

प्रमथाश्चागमिष्यंति यदि विष्ण्वादयो भ्रमात् ।

नानाकर्षणमंत्रेण ज्वालयानीय सत्वरम्

॥५३॥

ये तत्रोल्लंघ्य शपथं मदीयं गर्विताः स्थिताः ।

ते हि मद्द्रोहिणोऽतस्तान् ज्वालयानलमालया

॥५४॥

सपत्नीकान्ससारांश्च दक्षयागस्थलस्थितान् ।

प्रज्वाल्य भस्मसात्कृत्वा पुनरायाहि सत्वरम्

॥५५॥

तत्र त्वयि गते देवा विश्वाद्य अपि सादरम् ।

स्तोष्यंति त्वां तदाप्याशु ज्वालया ज्वालयैव तान्

॥५६॥

देवानपि कृतद्रोहान् ज्वालामालासमाकुलः ।

ज्वालय ज्वलनैश्शीघ्रं माध्यायाध्यायपालकम्

॥५७॥

दक्षादीन्सकलांस्तत्र सपत्नीकान्सबांधवान् ।

प्रज्वाल्य वीर दक्षं नु सलीलं सलिलं पिब

॥५८॥

ब्रह्मोवाच

इत्युक्तो रोषताम्राक्षो वेदमर्यादपालकः ।

विरराम महावीरं कालारिस्सकलेश्वरः

॥५९॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे वीरभद्रोत्पत्तिशिवोपदेशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥