सतीवरलाभः
ब्रह्मोवाच
इत्युक्त्वा सर्वदेवैश्च कृता शंभोर्नुतिः परा ।
शिवाच्च सा वरं प्राप्ता शृणु ह्यादरतो मुने
॥१॥अथो सती पुनः शुक्लपक्षेऽष्टम्यामुपोषिता ।
आश्विने मासि सर्वेशं पूजयामास भक्तितः
॥२॥इति नंदाव्रते पूर्णे नवम्यां दिनभागतः ।
तस्यास्तु ध्यानमग्नायाः प्रत्यक्षमभवद्धरः
॥३॥सर्वाङ्गसुन्दरो गौरः पंचवक्त्रस्त्रिलोचनः ।
चंद्रभालः प्रसन्नात्मा शितिकंठश्चतुर्भुज
॥४॥त्रिशूलब्रह्मकवराभयधृग्भस्मभास्वरः ।
स्वर्धुन्या विलसच्छीर्षस्सकलाङ्गमनोहरः
॥५॥महालावण्यधामा च कोटिचन्द्रसमाननः ।
कोटिस्मरसमाकांतिस्सर्वथा स्त्रीप्रियाकृतिः
॥६॥प्रत्यक्षतो हरं वीक्ष्य सती सेदृविधं प्रभुम् ।
ववन्दे चरणौ तस्य सुलज्जावनतानना
॥७॥अथ प्राह महादेवस्सतीं सद्व्रतधारिणीम् ।
तामिच्छन्नपि भार्यार्थं तपश्चर्याफलप्रदः
॥८॥महादेव उवाच
दक्षनंदिनि प्रीतोस्मि व्रतेनानेन सुव्रते ।
वरं वरय संदास्ये यत्तवाभिमतं भवेत्
॥९॥ब्रह्मोवाच
जानन्नपीह तद्भावं महादेवो जगत्पतिः ।
जगौ वरं वृणीष्वेति तद्वाक्यश्रवणेच्छया
॥१०॥सापि त्रपावशा युक्ता वक्तुं नो हृदि यत्स्थितम् ।
शशाक सा त्वभीष्टं यत्तल्लज्जाच्छादितं पुनः
॥११॥प्रेममग्नाऽभवत्साति श्रुत्वा शिववचः प्रियम् ।
तज्ज्ञात्वा सुप्रसन्नोभूच्छंकरो भक्तवत्सलः
॥१२॥वरं ब्रूहि वरं ब्रूहि प्राहेति स पुनर्द्रुतम् ।
सतीभक्तिवशश्शंभुरंतर्यामी सतां गतिः
॥१३॥अथ त्रपां स्वां संधाय यदा प्राह हरं सती ।
यथेष्टं देहि वरद वरमित्यनिवारकम्
॥१४॥तदा वाक्यस्यावसानमनवेक्ष्य वृषध्वजः ।
भव त्वं मम भार्येति प्राह तां भक्तवत्सलः
॥१५॥एतच्छ्रुत्वा वचस्तस्य साभीष्टफल भावनम् ।
तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम्
॥१६॥सकामस्य हरस्याग्रे स्थिता सा चारुहासिनी ।
अकरोन्निजभावांश्च हावान्कामविवर्द्धनान्
॥१७॥ततो भावान्समादाय शृंगाराख्यो रसस्तदा ।
तयोश्चित्ते विवेशाशु कला हावा यथोदितम्
॥१८॥तत्प्रवेशात्तु देवर्षे लोकलीलानुसारिणोः ।
काप्यभिख्या तयोरासीच्चित्रा चन्द्रमसोर्यथा
॥१९॥रेजे सती हरं प्राप्य स्निग्धभिन्नांजनप्रभा ।
चन्द्राभ्याशेऽभ्रलेखेव स्फटिकोज्ज्वलवर्ष्मणः
॥२०॥अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः ।
सुप्रसन्ना करौ बद्ध्वा नतका भक्तवत्सलम्
॥२१॥सत्युवाच
देवदेव महादेव विवाह विधिना प्रभौ ।
पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते
॥२२॥ब्रह्मोवाच
एवं सतीवचः श्रुत्वा महेशो भक्तवत्सलः ।
तथास्त्विति वचः प्राह निरीक्ष्य प्रेमतश्च ताम्
॥२३॥दाक्षायण्यपि तं नत्वा शंभुं विज्ञाप्य भक्तितः ।
प्राप्ताज्ञा मातुरभ्याशमगान्मोहमुदान्विता
॥२४॥हरोपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् ।
दाक्षायणीवियोगाद्वै कृच्छ्रध्यानपरोऽभवत्
॥२५॥समाधाय मनः शंभुर्लौकिकीं गतिमाश्रितः ।
चिंतयामास देवर्षे मनसा मां वृषध्वजः
॥२६॥ततस्संचिंत्यमानोहं महेशेन त्रिशूल्रिना ।
पुरस्तात्प्राविशं तूर्णं हरसिद्धिप्रचोदितः
॥२७॥यत्रासौ हिमवत्प्रस्थे तद्वियोगी हरः स्थितः ।
सरस्वतीयुतस्तात तत्रैव समुपस्थितः
॥२८॥सरस्वतीयुतं मां च देवर्षे वीक्ष्य स प्रभुः ।
उत्सुकः प्रेमबद्धश्च सत्या शंभुरुवाच ह
॥२९॥शंभुरुवाच
अहं ब्रह्मन्स्वार्थपरः परिग्रहकृतौ च यत् ।
तदा स्वत्वमिवस्वार्थे प्रतिभाति ममाधुना
॥३०॥अहमाराधितस्सत्याद्दाक्षायण्याथ भक्तितः ।
तस्यै वरो मया दत्तो नंदाव्रतप्रभावतः
॥३१॥भर्ता भवेति च तया मत्तो ब्रह्मन् वरो वृतः ।
मम भार्या भवेत्युक्तं मया तुष्टेन सर्वथा
॥३२॥अथावदत्तदा मां सा सती दाक्षायणी त्विति ।
पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते
॥३३॥तदप्यंगीकृतं ब्रह्मन्मया तद्भक्ति तुष्टितः ।
सा गता भवनं मातुरहमत्रागतो विधे
॥३४॥तस्मात्त्वं गच्छ भवनं दक्षस्य मम शासनात् ।
तां दक्षोपि यथा कन्यां दद्यान्मेऽरं तथा वद
॥३५॥सतीवियोगभंगस्स्याद्यथा मे त्वं तथा कुरु ।
समाश्वासय तं दक्षं सर्वविद्याविशारदः
॥३६॥ब्रह्मोवाच
इत्युदीर्य महादेवस्सकाशे मे प्रजापतेः ।
सरस्वतीं विलोक्याशु वियोगवशगोभवत्
॥३७॥तेनाहमपि चाज्ञप्तः कृतकृत्यो मुदान्वितः ।
प्रावोचं चेति जगतां नाथं तं भक्तवत्सलम्
॥३८॥ब्रह्मोवाच
यदात्थ भगवञ्शम्भो तद्विचार्य सुनिश्चितम् ।
देवानां मुख्यस्स्वार्थो हि ममापि वृषभध्वज
॥३९॥दक्षस्तुभ्यं सुतां स्वां च स्वयमेव प्रदास्यति ।
अहं चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः
॥४०॥ब्रह्मोवाच
इत्युदीर्य्य महादेवमहं सर्वेश्वरं प्रभुम् ।
अगमं दक्षनिलयं स्यंदनेनातिवेगिना
॥४१॥नारद उवाच
विधे प्राज्ञ महाभाग वद नो वदतां वर ।
सत्यै गृहागतायै स दक्षः किमकरोत्ततः
॥४२॥ब्रह्मोवाच
तपस्तप्त्वा वरं प्राप्य मनोभिलषितं सती ।
गृहं गत्वा पितुर्मातुः प्रणाममकरोत्तदा
॥४३॥मात्रे पित्रेऽथ तत्सर्वं समाचख्यौ महेश्वरात् ।
वरप्राप्तिः स्वसख्या वै सत्यास्तुष्टस्तु भक्तितः
॥४४॥माता पिता च वृत्तांतं सर्वं श्रुत्वा सखीमुखात् ।
आनन्दं परमं लेभे चक्रे च परमोत्सवम्
॥४५॥द्रव्यं ददौ द्विजातिभ्यो यथाभीष्टमुदारधीः ।
अन्येभ्यश्चांधदीनेभ्यो वीरिणी च महामनाः
॥४६॥वीरिणी तां समालिंग्य स्वसुतां प्रीतिवर्द्धिनीम् ।
मूर्ध्न्युपाघ्राय मुदिता प्रशशंस मुहुर्मुहुः
॥४७॥अथ दक्षः कियत्काले व्यतीते धर्मवित्तमः ।
चिंतयामास देयेयं स्वसुता शम्भवे कथम्
॥४८॥आगतोपि महादेवः प्रसन्नस्स जगाम ह ।
पुनरेव कथं सोपि सुतार्थेऽत्रागमिष्यति
॥४९॥प्रास्थाप्योथ मया कश्चिच्छंभोर्निकटमंजसा ।
नैतद्योग्यं निगृह्णीयाद्यद्येवं विफलार्दना
॥५०॥अथवा पूजयिष्यामि तमेव वृषभध्वजम् ।
मदीयतनया भक्त्या स्वयमेव यथा भवेत्
॥५१॥तथैव पूजितस्सोपि वांछत्यार्यप्रयत्नतः ।
शंभुर्भवतु मद्भर्त्तेत्येवं दत्तवरेणतत्
॥५२॥इति चिंतयतस्तस्य दक्षस्य पुरतोऽन्वहम् ।
उपस्थितोहं सहसा सरस्वत्यन्वितस्तदा
॥५३॥मां दृष्ट्वा पितरं दक्षः प्रणम्यावनतः स्थितः ।
आसनं च ददौ मह्यं स्वभवाय यथोचितम्
॥५४॥ततो मां सर्वलोकेशं तत्रागमन कारणम् ।
दक्षः पप्रच्छ स क्षिप्रं चिंताविष्टोपि हर्षितः
॥५५॥दक्ष उवाच
तवात्रागमने हेतुः कः प्रवेशे स सृष्टिकृत् ।
ममोपरि सुप्रसादं कृत्वाचक्ष्व जगद्गुरो
॥५६॥पुत्रस्नेहात्कार्यवशादथ वा लोककारक ।
ममाश्रमं समायातो हृष्टस्य तव दर्शनात्
॥५७॥ब्रह्मोवाच
इति पृष्टस्स्वपुत्रेण दक्षेण मुनिसत्तम ।
विहसन्नब्रुवं वाक्यं मोदयंस्तं प्रजापतिम्
॥५८॥ब्रह्मोवाच
शृणु दक्ष यदर्थं त्वत्समीपमहमागतः ।
त्वत्तोकस्य हितं मेपि भवतोपि तदीप्सितम्
॥५९॥तव पुत्री समाराध्य महादेवं जगत्पतिम् ।
यो वरः प्रार्थितस्तस्य समयोयमुपागतः
॥६०॥शंभुना तव पुत्र्यर्थं त्वत्सकाशमहं धुवम् ।
प्रस्थापितोस्मि यत्कृत्यं श्रेय स्तदवधारय
॥६१॥वरं दत्त्वा गतो रुद्रस्तावत्प्रभृति शंकरः ।
त्वत्सुताया वियोगेन न शर्म लभतेंजसा
॥६२॥अलब्धच्छिद्रमदनो जिगाय गिरिशं न यम् ।
सर्वैः पुष्पमयैर्बाणैर्यत्नं कृत्वापि भूरिशः
॥६३॥स कामबाणविद्धोपि परित्यज्यात्म चिंतनम् ।
सतीं विचिंतयन्नास्ते व्याकुलः प्राकृतो यथा
॥६४॥विस्मृत्य प्रश्रुतां वाणीं गणाग्रे विप्रयोगतः ।
क्व सतीत्येवमभितो भाषते निकृतावपि
॥६५॥मया यद्वांछितं पूर्वं त्वया च मदनेन च ।
मरीच्याद्यैमुनिवरैस्तत्सिद्धमधुना सुत
॥६६॥त्वत्पुत्र्याराधितश्शंभुस्सोपि तस्या विचिंतनात् ।
अनुशोधयितुं प्रेप्सुर्वर्त्तते हिमवद्गिरौ
॥६७॥यथा नानाविधैर्भावैस्सत्त्वात्तेन व्रतेन च ।
शंभुराराधितस्तेन तथैवाराध्यते सती
॥६८॥तस्मात्तु दक्षतनयां शंभ्वर्थं परिकल्पिताम् ।
तस्मै देह्यविलंबेन कृता ते कृतकृत्यता
॥६९॥अहं तमानयिष्यामि नारदेन त्वदालयम् ।
तस्मै त्वमेनां संयच्छ तदर्थे परिकल्पिताम्
॥७०॥ब्रह्मोवाच
श्रुत्वा मम वचश्चेति स मे पुत्रोतिहर्षितः ।
एवमेवेतिमां दक्ष उवाच परिहर्षितः
॥७१॥ततस्सोहं मुने तत्रागममत्यंतहर्षितः ।
उत्सुको लोकनिरतो गिरिशो यत्र संस्थितः
॥७२॥गते नारद दक्षोपि सदार तनयो ह्यपि ।
अभवत्पूर्णकामस्तु पीयूषैरिव पूरितः
॥७३॥इति श्रीशैवे महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवरलाभो नाम सप्तदशोऽध्यायः ॥ १७ ॥