सतीसंक्षेपचरित्रवर्णनम्
अथ सतीखंडो द्वितीयः प्रारभ्यते
नारद उवाच
विधे सर्वं विजानासि कृपया शंकरस्य च ।
त्वयाद्भुता हि कथिताः कथा मे शिवयोश्शुभाः
॥१॥त्वन्मुखांभोजसंवृत्तां श्रुत्वा शिवकथां पराम् ।
अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो
॥२॥पूर्णांशश्शंकरस्यैव यो रुद्रो वर्णितः पुरा ।
विधे त्वया महेशानः कैलासनिलयो वशी
॥३॥स योगी सर्वविष्ण्वादिसुरसे व्यस्सतां गतिः ।
निर्द्वंद्वः क्रीडति सदा निर्विकारी महाप्रभुः
॥४॥सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ।
हरिप्रार्थनया प्रीत्या मंगलां स्वतपस्विनीम्
॥५॥प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ।
कथमेकशरीरेण द्वयोरप्यात्मजा मता
॥६॥कथं सती पार्वती सा पुनश्शिवमुपागता ।
एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि
॥७॥सूत उवाच
इति तस्य वचः श्रुत्वा सुरर्षेः शंकरात्मनः ।
प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत्
॥८॥ब्रह्मोवाच
शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ।
यां श्रुत्वा सफलं जन्म भविष्यति न संशयः
॥९॥पुराहं स्वसुतां दृष्ट्वा संध्याह्वां तनयैस्सह ।
अभवं विकृतस्तात कामबाणप्रपीडितः
॥१०॥धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः ।
धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम्
॥११॥यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ।
तेनाकार्षं सहाकार्य परमेशेन शंभुना
॥१२॥तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह ।
कर्तुं तन्मोहनं मूढः शिवमाया विमोहितः
॥१३॥अभवंस्तेऽथ वै सर्वे तस्मिञ् शंभो परप्रभो ।
उपाया निष्फलास्तेषां मम चापि मुनीश्वर
॥१४॥तदाऽस्मरं रमेशानं व्यथोपायस्तुतैस्सह ।
अबोधयत्स आगत्य शिवभक्तिरतस्सुधीः
॥१५॥प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ।
तदीर्षामत्यजं सोहं तं हठं न विमोहितः
॥१६॥शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ।
दक्षादशिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने
॥१७॥सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुस्सहम् ।
रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी
॥१८॥सोमो रुद्रो गृही भूत्वाऽकार्षील्लीलां परां प्रभुः ।
मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः
॥१९॥विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ।
रेमे बहुविमोहो हि स्वतंत्रस्स्वात्तविग्रहः
॥२०॥तया विहरतस्तस्य व्यातीयाय महान् मुने ।
कालस्सुखकरश्शभोर्निर्विकारस्य सद्रतेः
॥२१॥ततो रुद्रस्य दक्षेण स्पर्द्धा जाता निजेच्छया ।
महामूढस्य तन्मायामोहितस्य सुगर्विणः
॥२२॥तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ।
महाशांतं निर्विकारं निनिxद बहुमोहितः
॥२३॥ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ।
सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः
॥२४॥नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ।
तथा तत्र सतीं नाम्ना स्वपुत्रीं विधिमोहितः
॥२५॥यदा नाकारिता पित्रा मायामोहित चेतसा ।
लीलां चकार सुज्ञाना महासाध्वी शिवा तदा
॥२६॥अथागता सती तत्र शिवाज्ञामधिगम्य सा ।
अनाहूतापि दक्षेण गर्विणा स्वपितुर्गृहम्
॥२७॥विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः ।
विनिंद्य तत्र तान्सर्वान्देहत्यागमथाकरोत्
॥२८॥तच्छुत्वा देव देवेशः क्रोधं कृत्वा तु दुस्सहम् ।
जटामुत्कृत्य महतीं वीरभद्रमजीजनत्
॥२९॥सगणं तं समुत्पाद्य किं कुर्य्या मिति वादिनम् ।
सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह
॥३०॥तदाज्ञां प्राप्य स गणाधीशो बहुबलान्वितः ।
गतोऽरं तत्र सहसा महाबलपराक्रमः
॥३१॥महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया ।
सर्वान्स दंडयामास न कश्चिदवशेषितः
॥३२॥विष्णुं संजित्य यत्नेन सामरं गणसत्तमः ।
चक्रे दक्षशिरश्छेदं तच्छिरोग्नौ जुहाव च
॥३३॥यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् ।
ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम्
॥३४॥यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति ।
रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः
॥३५॥मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु संमता ।
रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभो
॥३६॥ततो रुद्रः प्रसन्नोभूत्स्तुतिमाकर्ण्य तां पराम् ।
विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः
॥३७॥पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना ।
शंकरेण महेशेन नानालीलावि हारिणा
॥३८॥जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः ।
पुनस्स कारितो यज्ञः शंकरेण कृपालुना
॥३९॥रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः ।
यज्ञे विश्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्वने
॥४०॥सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा ।
पतिता पर्वते तत्र पूजिता सुखदायिनी
॥४१॥ज्वालामुखीति विख्याता सर्वकामफलप्रदा ।
बभूव परमा देवी दर्शनात्पापहारिणी
॥४२॥इदानीं पूज्यते लोके सर्वकामफलाप्तये ।
संविधाभिरनेकाभिर्महोत्सवपरस्परम्
॥४३॥ततश्च सा सती देवी हिमालयसुता ऽभवत् ।
तस्याश्च पार्वतीनाम प्रसिद्धमभवत्तदा
॥४४॥सा पुनश्च समाराध्य तपसा कठिनेन वै ।
तमेव परमेशानं भर्त्तारं समुपाश्रिता
॥४५॥एतत्सर्वं समाख्यातं यत्पृष्टोहं मुनीश्वर ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
॥४६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीसंक्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥