भक्तिप्रभाववर्णनम्
ब्रह्मोवाच
एवं कृत्वा विहारं वै शंकरेण च सा सती ।
संतुष्टा साभवच्चाति विरागा समजायत
॥१॥एकस्मिन्दिवसे देवी सती रहसि संगता ।
शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृतांजलिः
॥२॥सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती ।
उवाच सांजलिर्भक्त्या विनयावनता ततः
॥३॥सत्युवाच
देवदेव महादेव करुणा सागर प्रभो ।
दीनोद्धर महायोगिन् कृपां कुरु ममोपरि
॥४॥त्वं परः पुरुषस्स्वामी रजस्सत्त्वतमः परः ।
निर्गुणस्सगुणस्साक्षी निर्विकारी महाप्रभुः
॥५॥धन्याहं ते प्रिया जाता कामिनी सुविहारिणी ।
जातस्त्वं मे पतिस्स्वामिन्भक्तिवात्सल्यतो हर
॥६॥कृतो बहुसमा नाथ विहारः परमस्त्वया ।
संतुष्टाहं महेशान निवृत्तं मे मनस्ततः
॥७॥ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् ।
यं न संसारदुःखाद्वै तरेज्जीवोंजसा हर
॥८॥यत्कृत्वा विषयी जीवस्स लभेत्परमं पदम् ।
संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु
॥९॥ब्रह्मोवाच
इत्यपृच्छत्स्म सद्भक्त्या शंकरं सा सती मुने ।
आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ।
आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः ।
अवोचत्परमप्रीतस्सतीं योगविरक्तधीः
॥११॥शिव उवाच
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि ।
परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ।
परतत्त्वं विजानीहि विज्ञानं परमेश्वरी ।
द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः
॥१३॥तद्दुर्लभं त्रिलोकेस्मिंस्तज्ज्ञाता विरलः प्रिये ।
यादृशो यस्सदासोहं ब्रह्मसाक्षात्परात्परः
॥१४॥तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा ।
सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता
॥१५॥भक्तौ ज्ञाने न भेदो हि तत्कर्तुस्सर्वदा सुखम् ।
विज्ञानं न भवत्येव सति भक्तिविरोधिनः
॥१६॥भक्त्या हीनस्सदाहं वै तत्प्रभावाद्गृहेष्वपि ।
नीचानां जातिहीनानां यामि देवि न संशयः
॥१७॥सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता ।
वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता
॥१८॥नैष्ठिक्या नैष्ठिकी भेदाद्द्विविधे द्विविधे हि ते ।
षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता
॥१९॥विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ।
तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम्
॥२०॥ते नवांगे उभे ज्ञेये वर्णिते मुनिभिः प्रिये ।
वर्णयामि नवांगानि प्रेमतः शृणु दक्षजे
॥२१॥श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा ।
दास्यं तथार्चनं देवि वंदनं मम सर्वदा
॥२२॥सख्यमात्मार्पणं चेति नवांगानि विदुर्बुधाः ।
उपांगानि शिवे तस्या बहूनि कथितानि वै
॥२३॥शृणु देवि नवांगानां लक्षणानि पृथक्पृथक् ।
मम भक्तेर्मनो दत्त्वा भक्ति मुक्तिप्रदानि हि
॥२४॥कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा ।
स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते
॥२५॥हृदाकाशेन संपश्यञ् जन्मकर्माणि वै मम ।
प्रीत्याचोच्चारणं तेषामेतत्कीर्तनमुच्यते
॥२६॥व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा ।
निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम्
॥२७॥अरुणोदयमारभ्य सेवाकालेंचिता हृदा ।
निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम्
॥२८॥सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः ।
हृदयामृतभोगेन प्रियं दास्यमुदाहृतम्
॥२९॥सदा भृत्यानुकूल्येन विधिना मे परात्मने ।
अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम्
॥३०॥मंत्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् ।
यदष्टांगेन भूस्पर्शं तद्वै वंदनमुच्यते
॥३१॥मंगलामंगलं यद्यत्करोतीतीश्वरो हि मे ।
सर्वं तन्मंगलायेति विश्वासः सख्यलक्षणम्
॥३२॥कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम् ।
निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम्
॥३३॥नवांगानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च ।
मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च
॥३४॥उपांगानि च मद्भक्तेर्बहूनि कथितानि वै ।
बिल्वादिसेवनादीनि समू ह्यानि विचारतः
॥३५॥इत्थं सांगोपांगभक्तिर्मम सर्वोत्तमा प्रिये ।
ज्ञानवैराग्यजननी मुक्तिदासी विराजते
॥३६॥सर्वकर्मफलोत्पत्तिस्सर्वदा त्वत्समप्रिया ।
यच्चित्ते सा स्थिता नित्यं सर्वदा सोति मत्प्रियः
॥३७॥त्रैलोक्ये भक्तिसदृशः पंथा नास्ति सुखावहः ।
चतुर्युगेषु देवेशि कलौ तु सुविशेषतः
॥३८॥कलौ तु ज्ञानवैरागो वृद्धरूपौ निरुत्सवौ ।
ग्राहकाभावतो देवि जातौ जर्जर तामति
॥३९॥कलौ प्रत्यक्षफलदा भक्तिस्सर्वयुगेष्वपि ।
तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः
॥४०॥यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् ।
विघ्नहर्ता रिपुस्तस्य दंड्यो नात्र च संशयः
॥४१॥भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतः अदहं वह्निना नेत्रभवेन निजरक्षकः
॥४२॥भक्तहेतोरहं देवि रव्युपर्यभवं किल।
अतिक्रोधान्वितः शूलं गृहीत्वाऽन्वजयं पुरा
॥४३॥भक्तहेतोरहं देवि रावणं सगणं क्रुधा ।
त्यजति स्म कृतो नैव पक्षपातो हि तस्य वै
॥४४॥भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् ।
काश्या न्यसारयत् क्रोधाद्दण्डयित्वा च नंदिना
॥४५॥किं बहूक्तेन देवेशि भक्त्याधीनस्सदा ह्यहम् ।
तत्कर्तुं पुरुषस्यातिवशगो नात्र संशयः
॥४६॥ब्रह्मोवाच
इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती ।
जहर्षातीव मनसि प्रणनाम शिवं मुदा
॥४७॥पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने ।
शास्त्रं सुखकरं लोके जीवोद्धारपरायणम्
॥४८॥सयंत्रमंत्रशास्त्रं च तन्माहात्म्यं विशेषतः ।
अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि
॥४९॥शंकरोपि तदाकर्ण्य सतीं प्रश्नं प्रहृष्टधीः ।
वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः
॥५०॥तत्र शास्त्रं सयंत्रं हि सपंचाङ्गं महेश्वरः ।
बभाषे महिमानं च तत्तद्दैववरस्य वै
॥५१॥सेतिहासकथं तेषां भक्तमाहात्म्यमेव च ।
सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर
॥५२॥सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् ।
वैद्यशास्त्रं तथा ज्योतिश्शास्त्रं जीवसुखावहम्
॥५३॥सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः ।
कृपां कृत्वा महे शानो वर्णयामास तत्त्वतः
॥५४॥इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ ।
लोकोपकारकरणधृतसद्गुणविग्रहौ
॥५५॥चिक्रीडाते बहुविधे कैलासे हिमवद्गिरौ ।
अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ
॥५६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥