कामप्रादुर्भावः
सूत उवाच
इत्याकर्ण्य वचस्तस्य नेमिषारण्यवासिनः ।
पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम्
॥१॥नारद उवाच
विधेविधे महा भाग कथां शंभोश्शुभावहाम् ।
शृण्वन् भवन्मुखांभोजान्न तृप्तोस्मि महाप्रभो
॥२॥अतः कथय तत्सर्वं शिवस्य चरितं शुभम् ।
सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत्
॥३॥सती हि कथमुत्पन्ना दक्षदारेषु शोभना ।
कथं हरो मनश्चक्रे दाराहरणकर्मणि
॥४॥कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ।
हिमवत्तनया जाता भूयो वाकाशमागता
॥५॥पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथं त्वभूत् ।
कथमर्द्धशरीरस्था बभूव स्मरनाशिनः
॥६॥एतत्सर्वं समाचक्ष्व विस्तरेण महामते ।
नान्योस्ति संशयच्छेत्ता त्वत्समो न भविष्यति
॥७॥ब्रह्मोवाच
शृणु त्वं च मुने सर्वं सतीशिवयशश्शुभम् ।
पावनं परमं दिव्यं गुह्याद्गुह्यतमं परम्
॥८॥एतच्छंभुः पुरोवाच भक्तवर्याय विष्णवे ।
पृष्टस्तेन महाभक्त्या परोपकृतये मुने
॥९॥ततस्सोपि मया पृष्टो विष्णुश्शैववरस्सुधीः ।
प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम
॥१०॥अहं तत्कथयिष्यामि कथामेतां पुरातनीम् ।
शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम्
॥११॥पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः ।
अरूपश्शक्तिरहितश्चिन्मात्रस्सदसत्परः
॥१२॥अभवत्सगुणस्सोपि द्विरूपश्शक्तिमान्प्रभुः ।
सोमो दिव्याकृतिर्विप्र निर्वि कारी परात्परः
॥१३॥तस्य वामांगजो विष्णुर्ब्रह्माहं दक्षिणांगजः ।
रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम
॥१४॥सृष्टिकर्ताभवं ब्रह्मा विष्णुः पालनकारकः ।
लयकर्ता स्वयं रुद्रस्त्रिधाभूतस्सदाशिवः
॥१५॥तमेवाहं समाराध्य ब्रह्मा लोकपितामहः ।
प्रजा ससर्ज सर्वास्तास्सुरासुरनरादिकाः
॥१६॥सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् ।
अमन्यं सुप्रसन्नोहं निजं सर्वमहोन्नतम्
॥१७॥मरीचिमत्रिं पुलहं पुलस्त्यांगिरसौ क्रतुम् ।
वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून्
॥१८॥ब्रह्माहं मानसान्पुत्रानसर्जं च यदा मुने ।
तदा मन्मनसो जाता चारुरूपा वरांगना
॥१९॥नाम्ना संध्या दिवक्षांता सायं संध्या जपंतिका ।
अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी
॥२०॥न तादृशी देवलोके न मर्त्ये न रसातले ।
कालत्रयेपि वै नारी सम्पूर्णगुणशालिनी
॥२१॥दृष्ट्वाहं तां समुत्थाय चिन्तयन्हृदि हृद्गतम् ।
दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः
॥२२॥एवं चिंतयतो मे हि ब्रह्मणो मुनिसत्तम ।
मानसः पुरुषो मंजुराविर्भूतो महाद्भुतः
॥२३॥कांचनीकृतजाताभः पीनोरस्कस्सुनासिकः ।
सुवृत्तोरुकटीजंघो नीलवेलितकेसरः
॥२४॥लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ।
कपाटायतसद्वक्षो रोमराजीवराजितः
॥२५॥अभ्रमातंगकाकारः पीनो नीलसुवासकः ।
आरक्तपाणिनयनमुखपादकरोद्भवः
॥२६॥क्षीणमध्यश्चारुदन्तः प्रमत्तगजगंधनः ।
प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः
॥२७॥कंबुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ।
पंचपुष्पायुधो वेगी पुष्पकोदंडमंडितः
॥२८॥कांतः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।
सुगंधिमारुतो तात शृंगाररससेवितः
॥२९॥तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते ।
औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः
॥३०॥अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् ।
धैर्यं नैवालभत्तात कामाकुलितचेतसाम्
॥३१॥मां सोपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ।
प्रणम्य पुरुषः प्राह विनयानतकंधरः
॥३२॥पुरुष उवाच
किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय ।
मान्योद्य पुरुषो यस्मादुचितः शोभितो विधे
॥३३॥अभिमानं च योग्यं च स्थानं पत्नी च या मम ।
तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः
॥३४॥ब्रह्मोवाच
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ।
क्षणं न किंचित्प्रावोचत्स स्रष्टा चातिविस्मितः
॥३५॥अतो मनस्सुसंयम्य सम्यगुत्सृज्य विस्मयम् ।
अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन्
॥३६॥ब्रह्मोवाच
अनेन त्वं स्वरूपेण पुष्पबाणैश्च पंचभिः ।
मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम्
॥३७॥अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे ।
एते सर्वे भविष्यन्ति न क्षमास्त्यवलंबने
॥३८॥अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ।
भविष्यामस्तव वशे किमन्ये प्राणधारकाः
॥३९॥प्रच्छन्नरूपो जंतूनां प्रविशन्हृदयं सदा ।
सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम्
॥४०॥त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोद्भुतम् ।
सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान्
॥४१॥इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ।
नामान्येते वदिष्यंति सुता मे तव तत्त्वतः
॥४२॥ब्रह्मोवाच
इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च ।
आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम्
॥४३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ॥ २ ॥