रामपरीक्षावर्णनम्
नारद उवाच
ब्रह्मन् विधे प्रजानाथ महाप्राज्ञ कृपाकर ।
श्रावितं शंकरयशस्सतीशंकरयोः शुभम्
॥१॥इदानीं ब्रूहि सत्प्रीत्या परं तद्यश उत्तमम् ।
किमकार्ष्टां हि तत्स्थौ वै चरितं दंपती शिवौ
॥२॥ब्रह्मोवाच
सतीशिवचरित्रं च शृणु मे प्रेमतो मुने ।
लौकिकीं गतिमाश्रित्य चिक्रीडाते सदान्वहम्
॥३॥ततस्सती महादेवी वियोगमलभन्मुने ।
स्वपतश्शंकरस्येति वदंत्येके सुबुद्धयः
॥४॥वागर्थाविव संपृक्तौ शक्तोशौ सर्वदा चितौ ।
कथं घटेत च तयोर्वियोगस्तत्त्वतो मुने
॥५॥लीलारुचित्वादथ वा संघटेताऽखिलं च तत् ।
कुरुते यद्यदीशश्च सती च भवरीतिगौ
॥६॥सा त्यक्ता दक्षजा दृष्ट्वा पतिना जनकाध्वरे ।
शंभोरनादरात्तत्र देहं तत्याज संगता
॥७॥पुनर्हिमालये सैवाविर्भूता नामतस्सती ।
पार्वतीति शिवं प्राप तप्त्वा भूरि विवाहतः
॥८॥सूत उवाच
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ।
पप्रच्छ च विधातारं शिवाशिवमहद्यशः
॥९॥नारद उवाच
विष्णुशिष्य महाभाग विधे मे वद विस्तरात् ।
शिवाशिवचरित्रं तद्भवाचारपरानुगम्
॥१०॥किमर्थं शंकरो जायां तत्याज प्राणतः प्रियाम् ।
तस्मादाचक्ष्व मे तात विचित्रमिति मन्महे
॥११॥कुतोऽह्यध्वरजः पुत्रां नादरोभूच्छिवस्य ते ।
कथं तत्याज सा देहं गत्वा तत्र पितृक्रतौ
॥१२॥ततः किमभवत्तत्र किमकार्षीन्महेश्वरः ।
तत्सर्वं मे समाचक्ष्व श्रद्धायुक् तच्छुतावहम्
॥१३॥ब्रह्मोवाच
शृणु तात परप्रीत्या मुनिभिस्सह नारद ।
सुतवर्य महाप्राज्ञ चरितं शशिमौलिनः
॥१४॥नमस्कृत्य महेशानं हर्यादिसुरसेवितम् ।
परब्रह्म प्रवक्ष्यामि तच्चरित्रं महाद्भुतम्
॥१५॥सर्वेयं शिवलीला हि बहुलीलाकरः प्रभुः ।
स्वतंत्रो निर्विकारी च सती सापि हि तद्विधा
॥१६॥अन्यथा कस्समर्थो हि तत्कर्मकरणे मुने ।
परमात्मा परब्रह्म स एव परमेश्वरः
॥१७॥यं सदा भजते श्रीशोऽहं चापि सकलाः सुराः ।
मुनयश्च महात्मानः सिद्धाश्च सनकादयः
॥१८॥शेषस्सदा यशो यस्य मुदा गायति नित्यशः ।
पारं न लभते तात स प्रभुश्शंकरः शिवः
॥१९॥तस्यैव लीलया सर्वोयमिति तत्त्वविभ्रमः ।
तत्र दोषो न कस्यापि सर्वव्यापी स प्रेरकः
॥२०॥एकस्मिन्समये रुद्रस्सत्या त्रिभुवने भवः ।
वृषमारुह्य पर्याटद्रसां लीलाविशारदः
॥२१॥आगत्य दण्डकारण्यं पर्यटन् सागरांबराम् ।
दर्शयन् तत्र गां शोभां सत्यै सत्यपणः प्रभुः
॥२२॥तत्र रामं ददर्शासौ लक्ष्मणेनान्वितं हरः ।
अन्विष्यंतं प्रियां सीतां रावणेन हृता छलात्
॥२३॥हा सीतेति प्रोच्चरंतं विरहाविष्टमानसम् ।
यतस्ततश्च पश्यंतं रुदंतं हि मुहुर्मुहुः
॥२४॥समिच्छंतं च तत्प्राप्तिं पृच्छंतं तद्गतिं हृदा ।
कुजादिभ्यो नष्टधियमत्रपं शोकविह्वलम्
॥२५॥सूर्यवंशोद्भवं वीरं भूपं दशरथात्मजम् ।
भरताग्रजमानंदरहितं विगतप्रभम्
॥२६॥पूर्णकामो वराधीनं प्राणमत्स्म मुदा हरः ।
रामं भ्रमन्तं विपिने सलक्ष्मणमुदारधीः
॥२७॥जयेत्युक्त्वाऽन्यतो गच्छन्नदात्तस्मै स्वदर्शनम् ।
रामाय विपिने तस्मिच्छंकरो भक्तवत्सलः
॥२८॥इतीदृशीं सतीं दृष्ट्वा शिवलीलां विमोहनीम् ।
सुविस्मिता शिवं प्राह शिवमायाविमोहिता
॥२९॥सत्युवाच
देव देव परब्रह्म सर्वेश परमेश्वर ।
सेवंते त्वां सदा सर्वे हरिब्रह्मादयस्सुराः
॥३०॥त्वं प्रणम्यो हि सर्वेषां सेव्यो ध्येयश्च सर्वदा ।
वेदांतवेद्यो यत्नेन निर्विकारी परप्रभुः
॥३१॥काविमौ पुरुषौ नाथ विरहव्याकुलाकृती ।
विचरंतौ वने क्लिष्टौ दीनौ वीरौ धनुर्धरौ
॥३२॥तयोर्ज्येष्ठं कंजश्यामं दृष्ट्वा वै केन हेतुना ।
सुदितस्सुप्रसन्नात्माऽभवो भक्त इवाऽधुना
॥३३॥इति मे संशयं स्वामिञ्शंकर छेत्तुमर्हसि ।
सेव्यस्य सेवकेनैव घटते प्रणतिः प्रभो
॥३४॥ब्रह्मोवाच
आदिशक्तिस्सती देवी शिवा सा परमेश्वरी ।
शिवमायावशीभूत्वा पप्रच्छेत्थं शिवं प्रभुम्
॥३५॥तदाकर्ण्य वचस्सत्याश्शंकरः परमेश्वरः ।
तदा विहस्य स प्राह सतीं लीलाविशारदः ।
३६ परमेश्वर उवाच ।
शृणु देवि सति प्रीत्या यथार्थं वच्मि नच्छलम् ।
वरदानप्रभावात्तु प्रणामं चैवमादरात्
॥३७॥रामलक्ष्मणनामानौ भ्रातरौ वीरसम्मतौ ।
सूर्यवंशोद्भवौ देवि प्राज्ञौ दशरथात्मजौ
॥३८॥गौरवर्णौ लघुर्बंधुश्शेषेशो लक्ष्मणाभिधः ।
ज्येष्ठो रामाभिधो विष्णुः पूर्णांशो निरुपद्रवः
॥३९॥अवतीर्णं क्षितौ साधुरक्षणाय भवाय नः ।
इत्युक्त्वा विररामाऽसौ शंभुस्मृतिकरः प्रभुः
॥४०॥श्रुत्वापीत्थं वचश्शम्भोर्न विशश्वास तन्मनः ।
शिवमाया बलवती सैव त्रैलोक्यमोहिनी
॥४१॥अविश्वस्तं मनो ज्ञात्वा तस्याश्शंभुस्सनातनः ।
अवोचद्वचनं चेति प्रभुलीलाविशारदः
॥४२॥शिव उवाच
शृणु मद्वचनं देवि न विश्वसिति चेन्मनः ।
तव रामपरिक्षां हि कुरु तत्र स्वया धिया
॥४३॥विनश्यति यथा मोहस्तत्कुरु त्वं सति प्रिये ।
गत्वा तत्र स्थितस्तावद्वटे भव परीक्षिका
॥४४॥ब्रह्मोवाच
शिवाज्ञया सती तत्र गत्वाचिंतयदीश्वरी ।
कुर्यां परीक्षां च कथं रामस्य वनचारिणः
॥४५॥सीतारूपमहं धृत्वा गच्छेयं रामसन्निधौ ।
यदि रामो हरिस्सर्वं विज्ञास्यति न चान्यथा
॥४६॥इत्थं विचार्य सीता सा भूत्वा रामसमीपतः ।
आगमत्तत्परीक्षार्थं सती मोहपरायणा
॥४७॥सीतारूपां सतीं दृष्ट्वा जपन्नाम शिवेति च ।
विहस्य तत्प्रविज्ञाय नत्वावोचद्रघूद्वहः
॥४८॥राम उवाच
प्रेमतस्त्वं सति ब्रूहि क्व शंभुस्ते नमोगतः ।
एका हि विपिने कस्मादागता पतिना विना
॥४९॥त्यक्त्वा स्वरूपं कस्मात्ते धृतं रूपमिदं सति ।
ब्रूहि तत्कारणं देवि कृपां कृत्वा ममोपरि
॥५०॥ब्रह्मोवाच
इति रामवचः श्रुत्वा चकितासीत्सती तदा ।
स्मृत्वा शिवोक्तं मत्वा चावितथं लज्जिता भृशम्
॥५१॥रामं विज्ञाय विष्णुं तं स्वरूपं संविधाय च ।
स्मृत्वा शिवपदं चित्ते सत्युवाच प्रसन्नधीः
॥५२॥शिवो मया गणैश्चैव पर्यटन् वसुधां प्रभुः ।
इहागच्छच्च विपिने स्वतंत्रः परमेश्वरः
॥५३॥अपश्यदत्र स त्वां हि सीतान्वेषणतत्परम् ।
सलक्ष्मणं विरहिणं सीतया श्लिष्टमानसम्
॥५४॥नत्वा त्वां स गतो मूले वटस्य स्थित एव हि ।
प्रशंसन् महिमानं ते वैष्णवं परमं मुदा
॥५५॥चतुर्भुजं हरिं त्वां नो दृष्ट्वेव मुदितोऽभवत् ।
यथेदं रूपममलं पश्यन्नानंदमाप्तवान्
॥५६॥तच्छ्रुत्वा वचनं शंभौर्भ्रममानीय चेतसि ।
तदाज्ञया परीक्षां ते कृतवत्य स्मि राघव
॥५७॥ज्ञातं मे राम विष्णुस्त्वं दृष्टा ते प्रभुताऽखिला ।
निःसशंया तदापि तच्छृणु त्वं च महामते
॥५८॥कथं प्रणम्यस्त्वं तस्य सत्यं ब्रूहि ममाग्रतः ।
कुरु निस्संशयां त्वं मां शमलं प्राप्नुहि द्रुतम्
॥५९॥ब्रह्मोवाच
इत्याकर्ण्य वचस्तस्या रामश्चोत्फुल्ललोचनः ।
अस्मरत्स्वं प्रभुं शंभुं प्रेमाभूद्धृदि चाधिकम्
॥६०॥सत्या विनाज्ञया शंभुसमीपं नागमन्मुने ।
संवर्ण्य महिमानं च प्रावोचद्राघवस्सतीम्
॥६१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे रामपरीक्षावर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥