मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ६

3
रुद्रसंहिता · सतीखण्डः · 6

संध्याचरित्रवर्णनम्

ब्रह्मोवाच

सुतवर्य महाप्राज्ञ शृणु संध्यातपो महत् ।

यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद्ध्रुवम्

॥१॥

उपविश्य तपोभावं वसिष्ठे स्वगृहं गते ।

संध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह

॥२॥

ततस्सानंदमनसो वेषं कृत्वा तु यादृशम् ।

तपश्चर्तुं समारेभे बृहल्लोहिततीरगा

॥३॥

यथोक्तं तु वशिष्ठेन मंत्रं तपसि साधनम् ।

मंत्रेण तेन सद्भक्त्या पूजयामास शंकरम्

॥४॥

एकान्तमनसस्तस्याः कुर्वंत्या सुमहत्तपः ।

शंभौ विन्यस्तचित्ताया गतमेकं चतुर्युगम्

॥५॥

प्रसन्नोभूत्तदा शंभुस्तपसा तेन तोषितः ।

अंतर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः

॥६॥

यद्रूपं चिंतयंती सा तेन प्रत्यक्षतां गतः

॥७॥

अथ सा पुरतो दृष्ट्वा मनसा चिंतितं प्रभुम् ।

प्रसन्नवदनं शांतं मुमोदातीव शंकरम्

॥८॥

ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् ।

इति चिंतापरा भूत्वा न्यमीलयत चक्षुषी

॥९॥

निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः ।

दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी

॥१०॥

दिव्यज्ञानं दिव्यचक्षुर्दिव्या वाचमवाप सा ।

प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम्

॥११॥

संध्योवाच

निराकारं ज्ञानगम्यं परं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् ।

अंतश्चिंत्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोस्तु

॥१२॥

सर्वं शांतं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् ।

खाध्वप्रख्यं ध्वांतमार्गात्परस्तद्रूपं यस्य त्वां नमामि प्रसन्नम्

॥१३॥

एकं शुद्धं दीप्यमानं तथाजं चिदानंदं सहजं चाविकारि ।

नित्यानंदं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते

॥१४॥

विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छंदं ध्येयमात्मस्वरूपम् ।

सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते

॥१५॥

यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् ।

इष्टाभीती शूलमुंडे दधानं हस्तैर्नमो योगयुक्ताय तुभ्यम्

॥१६॥

गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।

पुनः कालश्च रूपाणि यस्य तुभ्यं नमोस्तु ते

॥१७॥

प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ ।

तस्मादव्यक्तरूपाय शंकराय नमोनमः

॥१८॥

यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ।

संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमोनमः

॥१९॥

नमोनमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय ।

समस्तलोकांतरभूतिदाय प्रकाशरूपाय परात्पराय

॥२०॥

यस्याऽपरं नो जगदुच्यते पदात् क्षितिर्दिशस्सूर्य इंदुर्मनौजः ।

बर्हिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शंभवे मे नमोस्तु

॥२१॥

त्वं परः परमात्मा च त्वं विद्या विविधा हरः ।

सद्ब्रह्म च परं ब्रह्म विचारणपरायणः

॥२२॥

यस्य नादिर्न मध्यं च नांतमस्ति जगद्यतः ।

कथं स्तोष्यामि तं देवं वाङ्मनोगोचरं हरम्

॥२३॥

यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः ।

न विप्रण्वंति रूपाणि वर्णनीयः कथं स मे

॥२४॥

स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ।

नैव जानंति यद्रूपं सेन्द्रा अपि सुरासुराः

॥२५॥

नमस्तुभ्यं महेशान नमस्तुभ्यं तमोमय ।

प्रसीद शंभो देवेश भूयोभूयो नमोस्तु ते

॥२६॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्यास्संस्तुतः परमेश्वरः ।

सुप्रसन्नतरश्चाभूच्छंकरो भक्तवत्सलः

॥२७॥

अथ तस्याश्शरीरं तु वल्कलाजिनसंयुतम् ।

परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः

॥२८॥

हिमानीतर्जितांभोजसदृशं वदनं तदा ।

निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम्

॥२९॥

महेश्वर उवाच

प्रीतोस्मि तपसा भद्रे भवत्याः परमेण वै ।

स्तवेन च शुभप्राज्ञे वरं वरय सांप्रतम्

॥३०॥

येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् ।

तत्करिष्ये च भद्रं ते प्रसन्नोहं तव व्रतैः

॥३१॥

ब्रह्मोवाच

इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा ।

संध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः

॥३२॥

संध्योवाच

यदि देयो वरः प्रीत्या वरयोग्यास्म्यहं यदि ।

यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर

॥३३॥

यदि देव प्रसव्रोऽसि तपसा मम सांप्रतम् ।

वृतस्तदायं प्रथमो वरो मम विधीयताम्

॥३४॥

उत्पन्नमात्रा देवेश प्राणिनोस्मिन्नभः स्थले ।

न भवंतु समेनैव सकामास्संभवंतु वै

॥३५॥

यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा ।

भविष्यामि तथा नान्या वर एको वृतो मया

॥३६॥

सकामा मम सृष्टिस्तु कुत्रचिन्न पतिष्यति ।

यो मे पतिर्भवेन्नाथ सोपि मेऽतिसुहृच्च वै

॥३७॥

यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ।

नाशं गमिष्यति तदा स च क्लीबो भविष्यति

॥३८॥

ब्रह्मोवाच

इति श्रुत्वा वचस्तस्यश्शंकरो भक्तवत्सलः ।

उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते

॥३९॥

महेश्वर उवाच

शृणु देवि च संध्ये त्वं त्वत्पापं भस्मतां गतम् ।

त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात्

॥४०॥

यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया ।

सुप्रसन्नेन तपसा तव संध्ये वरेण हि

॥४१॥

प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ।

तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा

॥४२॥

तृतीये त्वथ संप्राप्ते वयोभागे शरीरिणः ।

सकामास्स्युर्द्वितीयांतो भविष्यति क्वचित् क्वचित्

॥४३॥

तपसा तव मर्यादा जगति स्थापिता मया ।

उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः

॥४४॥

त्वं च लोके सतीभावं तादृशं समवाप्नुहि ।

त्रिषु लोकेषु नान्यस्या यादृशं संभविष्यति

॥४५॥

यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ।

स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति

॥४६॥

पतिस्तव महाभागस्तपोरूपसमन्वितः ।

सप्तकल्पांतजीवी च भविष्यति सह त्वया

॥४७॥

इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया ।

अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम्

॥४८॥

अग्नौ शरीत्यागस्ते पूर्वमेव प्रतिश्रुतः ।

तदुपायं वदामि त्वां तत्कुरुष्व न संशयः

॥४९॥

स च मेधातिथिर्यज्ञे मुने द्वादशवार्षिके ।

कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया

॥५०॥

एतच्छैलोपत्यकायां चंद्रभागानदीतटे ।

मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे

॥५१॥

तत्र गत्वा स्वयं छंदं मुनिभिर्न्नोपलक्षिता ।

मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि

॥५२॥

यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन ।

तं निधाय निजस्वांते त्यज वह्नौ वपुः स्वकम्

॥५३॥

यदा त्वं दारुणं संध्ये तपश्चरसि पर्वते ।

यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे

॥५४॥

त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यका ।

वाक्पाश्शीलसमापन्ना यथा योग्यं विवाहिताः

॥५५॥

तन्मध्ये स ददौ कन्या विधवे सप्तविंशतिः ।

चन्द्रोऽन्यास्संपरित्यज्य रोहिण्यां प्रीतिमानभूत्।

तद्धेतोर्हि यदा चन्द्रश्शप्तो दक्षेण कोपिना ।

तदा भवत्या निकटे सर्वे देवास्समागताः

॥५७॥

न दृष्टाश्च त्वया संध्ये ते देवा ब्रह्मणा सह ।

मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः

॥५८॥

चंद्रस्य शापमोक्षार्थं जाता चंद्रनदी तदा ।

सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः

॥५९॥

तपसा सत्समो नास्ति न भूतो न भविष्यति ।

येन यज्ञस्समारब्धो ज्योतिष्टोमो महाविधिः

॥६०॥

तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् ।

सुपवित्रा त्वमिदानीं संपूर्णोस्तु पणस्तव

॥६१॥

एतन्मया स्थापितन्ते कार्यार्थं भो तपस्विनि ।

तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः ।

तस्याहितं च देवेशस्तत्रैवांतरधीयत

॥६२॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे संध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥