शिवाशिवविहारवर्णनम्
ब्रह्मोवाच
कदाचिदथ दक्षस्य तनया जलदागमे ।
कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम्
॥१॥सत्युवाच
देव देव महादेव शंभो मत्प्राणवल्लभ ।
शृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद
॥२॥घनागमोयं संप्राप्तः कालः परमदुस्सहः ।
अनेकवर्णमेघौघास्संगीतांबरदिक्चयाः
॥३॥विवांति वाता हृदयं हारयंतीत वेगिनः ।
कदंबरजसा धौताः पाथोबिन्दुविकर्षणाः
॥४॥मेघानां गर्जितैरुच्चैर्धारासारं विमुंचताम् ।
विद्युत्पताकिनां तीव्रः क्षुब्धं स्यात्कस्य नो मनः
॥५॥न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः ।
दिवापि रात्रिवद्भाति विरहि व्यसनाकरः
॥६॥मेघानैकत्र तिष्ठंतो ध्वनन्त पवनेरिताः ।
पतंत इव लोकानां दृश्यंते मूर्ध्नि शंकर
॥७॥वाताहता महावृक्षा नर्तंत इव चांबरे ।
दृश्यंते हर भीरूणां त्रासदाः कामुकेप्सिता
॥८॥स्निग्धनीलांजनस्याशु सदिवौघस्य पृष्ठतः ।
बलाकराजी वात्युच्चैर्यमुनापृष्ठफेनवत्
॥९॥क्षपाक्षयेषवलयं दृश्यते कालिकागता ।
अंबुधाविव संदीप्तपावको वडवामुखः
॥१०॥प्रारोहंतीह सस्यानि मंदिरं प्राङ्गणेष्वपि ।
किमन्यत्र विरूपाक्ष सस्यौद्भूतिं वदाम्यहम्
॥११॥श्यामलै राजतैरक्तैर्विशदोयं हिमाचलः ।
मंदराश्रयमेघौघः पत्रैर्दुग्धांबुधिर्यथा
॥१२॥असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान् ।
उच्चावचान् कलौ लक्ष्मीर्गन्ता संत्यज्य सज्जनान्
॥१३॥मंदारस्तन पीलूनां शब्देन हृषिता मुहुः ।
केकायंते प्रतिवने सततं पृष्ठसूचकम्
॥१४॥मेघोत्सुकानां मधुरश्चातकानां मनोहरः ।
धारासारशरैस्तापं पेतुः प्रतिपथोद्गतम्
॥१५॥मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः ।
ये छादयंत्यनुगते मयूरांश्चातकांस्तथा
॥१६॥शिखसारंगयोर्दृष्ट्वा मित्रादपि पराभवम् ।
हर्षं गच्छंति गिरिशं विदूरमपि मानसम्
॥१७॥एतस्मिन्विषमे काले नीलं काकाश्चकोरकाः ।
कुर्वंति त्वां विना गेहान् कथं शांतिमवाप्स्यसि
॥१८॥महतीवाद्य नो भीतिर्मा मेघोत्था पिनाकधृक् ।
यतस्व यस्माद्वासाय माचिरं वचनान्मम
॥१९॥कैलासे वा हिमाद्रौ वा महाकाश्यामथ क्षितौ ।
तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज
॥२०॥ब्रह्मोवाच
एवमुक्तस्तया शंभुर्दाक्षायण्या तथाऽसकृत ।
संजहास च शीर्षस्थचन्द्ररश्मिस्मितालयम्
॥२१॥अथोवाच सतीं देवीं स्मितभिन्नौष्ठसंपुटः ।
महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः
॥२२॥ईश्वरः उवाच
यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ।
मेघास्तत्र न गंतारः कदाचिदपि मत्प्रिये
॥२३॥मेघा नितंबपर्यंतं संचरंति महीभृतः ।
सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे
॥२४॥कैलासस्य तथा देवि पादगाः प्रायशो घनाः ।
संचरंति न गच्छंति तत ऊर्द्ध्वं कदाचन
॥२५॥सुमेरोर्वा गिरेरूर्द्ध्वं न गच्छंति बलाहकाः ।
जम्बूमूलं समासाद्य पुष्करावर्तकादयः
॥२६॥इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते ।
मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे
॥२७॥स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः ।
शब्दोत्तरंगैर्मधुरस्वनैस्तैर्मुदोपगेयानि गिरौ हिमोत्थे
॥२८॥सिद्धाङ्गनास्ते रचितासना भुवमिच्छंति चैवोपहृतं सकौतुकम् ।
स्वेच्छाविहारे मणिकुट्टिमे गिरौ कुर्वन्ति चेष्यंति फलादिदानकैः
॥२९॥फणीन्द्रकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरंगमुख्याः ।
सर्वास्तु तास्ते सततं सहायतां समाचरिष्यंत्यनुमोदविभ्रमैः
॥३०॥रूपं तदेवमतुलं वदनं सुचारु दृष्ट्वांगना निजवपुर्निजकांतिसह्यम् ।
हेला निजे वपुषि रूपगणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः
॥३१॥या मेनका पर्वतराज जाया रूपैर्गुणैः ख्यातवती त्रिलोके ।
सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यनुनाथनाद्यैः
॥३२॥पुरं हि वर्गैर्गिंरिराजवंद्यैः प्रीतिं विचिन्वद्भिरुदाररूपा ।
शिक्षा सदा ते खलु शोचितापि कार्याऽन्वहं प्रीतियुता गुणाद्यैः
॥३३॥विचित्रैः कोकिलालापमोदैः कुंजगणावृतम् ।
सदा वसंतप्रभवं गंतुमिच्छसि किं प्रिये
॥३४॥नानाबहुजलापूर्णसरश्शीत समावृतम् ।
पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम्
॥३५॥सर्वकामप्रदैर्वृक्षैश्शाद्वलैः कल्पसंज्ञकैः ।
सक्षणं पश्य कुसुमान्यथाश्वकरि गोव्रजे
॥३६॥प्रशांतश्वापदगणं मुनिभिर्यतिभिर्वृतम् ।
देवालयं महामाये नानामृगगणैर्युतम्
॥३७॥स्फटिक स्वर्णवप्राद्यै राजतैश्च विराजितम् ।
मानसादिसरोरंगैरभितः परिशोभितम्
॥३८॥हिरण्मयै रत्ननालैः पंकजैर्मुकुलैर्वृतम् ।
शिशुमारैस्तथासंख्यैः कच्छपैर्मकरैः करैः
॥३९॥निषेवितं मंजुलैश्च तथा नीलोत्पलादिभिः ।
देवेशि तस्मान्मुक्तैश्च सर्वगंधैश्च कुंकुमैः
॥४०॥लसद्गंधजलैः शुभ्रैरापूर्णैः स्वच्छकांतिभिः ।
शाद्वलैस्तरुणैस्तुंगैस्तीरस्थैरुपशोभितम्
॥४१॥नृत्यद्भिरिव शाखोटैर्वर्जयंतं स्वसंभवम् ।
कामदेवैस्सारसैश्च मत्तचक्रांगशोभितैः
॥४२॥मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ।
शब्दायमानं च मुदा कामोद्दीपनकारकम्
॥४३॥वासवस्य कुबेरस्य यमस्य वरुणस्य च ।
अग्नेः कोणपराजस्य मारुतस्य परस्य च
॥४४॥पुरीभिश्शोभिशिखरं मेरोरुच्चैस्सुरालयम् ।
रंभाशचीमेनकादिरंभोरुगणसेवितम्
॥४५॥किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम् ।
सारभूते महारम्ये संविहर्तुं महागिरौ
॥४६॥तत्र देवी सखियुता साप्सरोगणमंडिता ।
नित्यं करिष्यति शची तव योग्यां सहायताम्
॥४७॥अथवा मम कैलासे पर्वतेंद्रे सदाश्रये ।
स्थानमिच्छसि वित्तेशपुरीपरिविराजिते
॥४८॥गंगाजलौघप्रयते पूर्णचन्द्रसमप्रभे ।
दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते
॥४९॥नानामृगगणैर्युक्ते पद्माकरशतावृते ।
सर्वैर्गुणैश्च सद्वस्तुसुमेरोरपि सुंदरि
॥५०॥स्थानेष्वेतेषु यत्रापि तवांतःकरणे स्पृहा ।
तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते
॥५१॥ब्रह्मोवाच
इतीरिते शंकरेण तदा दाक्षायणी शनैः ।
इदमाह महादेवं लक्षणं स्वप्रकाशनम्
॥५२॥सत्युवाच
हिमाद्रावेव वसितुमहमिच्छे त्वया सह ।
न चिरात्कुरु संवासं तस्मिन्नेव महागिरौ
॥५३॥ब्रह्मोवाच
अथ तद्वाक्यमाकर्ण्य हरः परममोहितः ।
हिमाद्रिशिखरं तुंगं दाक्षायण्या समं ययौ
॥५४॥सिद्धांगनागणयुतमगम्यं चैव पक्षिभिः ।
अगमच्छिखरं रम्यं सरसीवनराजितम्
॥५५॥विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम् ।
बालार्कसदृशं शंभुराससाद सतीसखः
॥५६॥स्फटिकाभ्रमये तस्मिन् शादवलद्रुमराजिते विचित्रपुष्पावलिभिस्सरसोभिश्च संयुते
॥५७॥प्रफुल्लतरुशाखाग्रं गुंजद्भ्रमरसेवितम्।
पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा
॥५८॥शोभितं चक्रवाकाद्यैः कादंबैर्हंसशंकुभिः ।
प्रमत्तसारसैः क्रौंचैर्नीलस्कंधैश्च शब्दितैः
॥५९॥पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः ।
तुरंगवदनैस्सिद्धैरप्सरोभिश्च गुह्यकैः
॥६०॥विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम् ।
पुरंध्रीभिः पार्वतीभिः कन्याभिरभिसंगतम्
॥६१॥विपंचीतांत्रिकामत्तमृदंगपटहस्वनैः।
नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम्
॥६२॥देविकाभिर्दीर्घिकाभिर्गंधिभिस्सुसमावृतम् ।
प्रफुल्लकुसुमैर्नित्यं सकुंजैरुपशोभितम्
॥६३॥शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः ।
सह सत्या चिरं रेमे एवंभूतेषु शोभनम्
॥६४॥तस्मिन्स्वर्गसमे स्थाने दिव्यमानेन शंकरः ।
दशवर्षसहस्राणि रेमे सत्या समं मुदा
॥६५॥स कदाचित्ततस्स्थानादन्यद्याति स्थलं हरः ।
कदाचिन्मेरुशिखरं देवी देववृतं सदा
॥६६॥द्वीपान्नाना तथोद्यानवनानि वसुधातलम् ।
गत्वागत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम्
॥६७॥न जज्ञे स दिवा रात्रौ न ब्रह्मणि तपस्समम् ।
सत्यां हि मनसा शंभुः प्रीतिमेव चकार ह
॥६८॥एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा ।
महादेवोऽपि सर्वत्र सदाद्राक्षीत्सतीमुखम्
॥६९॥एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।
वर्द्धयामासतुः कालीशिवौ भावांबुसेचनैः
॥७०॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवाशिवविहारवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥