मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय २५

3
रुद्रसंहिता · सतीखण्डः · 25

सतीवियोगः

राम उवाच

एकदा हि पुरा देवि शंभुः परमसूतिकृत् ।

विश्वकर्माणमाहूय स्वलोके परतः परे

॥१॥

स्वधेनुशालायां रम्यं कारयामास तेन च ।

भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम्

॥२॥

तत्रच्छत्रं महादिव्यं सर्वदाद्भुत मुत्तमम् ।

कारयामास विघ्नार्थं शंकरो विश्वकर्मणा

॥३॥

शक्रादीनां जुहावाशु समस्तान्देवतागणान् ।

सिद्धगंधर्वनागानुपदे शांश्च कृत्स्नशः

॥४॥

देवान् सर्वानागमांश्च विधिं पुत्रैर्मुनीनपि ।

देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः

॥५॥

देवानां च तथर्षीणां सिद्धानां फणिनामपि ।

आनयन्मंगलकराः कन्याः षोडशषोडश

॥६॥

वीणामृदंगप्रमुखवाद्यान्नानाविधान्मुने ।

उत्सवं कारयामास वादयित्वा सुगायनैः

॥७॥

राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैः प्रत्यक्षतीर्थपाथोभिः पंचकुभांश्च पूरितान्

॥८॥

तथान्यास्संविधा दिव्या आनयत्स्वगणैस्तदा ।

ब्रह्मघोषं महारावं कारयामास शंकरः

॥९॥

अथो हरिं समाहूय वैकुंठात्प्रीतमानसः ।

तद्भक्त्या पूर्णया देवि मोदतिस्म महेश्वरः

॥१०॥

सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ।

उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः

॥११॥

आबद्धरम्यमुकुटं कृतकौतुकमंगलम् ।

अभ्यषिंचन्महेशस्तु स्वयं ब्रह्मांडमंडपे

॥१२॥

दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ।

ततस्तुष्टाव तं शंभुस्स्वतंत्रो भक्तवत्सलः

॥१३॥

ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ।

व्यापयन्स्वं वराधीनं स्वतंत्रं भक्तवत्सलः

॥१४॥

महेश उवाच

अतः प्रभृति लोकेश मन्निदेशादयं हरिः ।

मम वंद्य स्वयं विष्णुर्जातस्सर्वश्शृणोति हि

॥१५॥

सर्वैर्देवादिभिस्तात प्रणमत्वममुं हरिम् ।

वर्णयंतु हरिं वेदा ममैते मामिवाज्ञया ।

राम उवाच ।

इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ।

विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः

॥१७॥

ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ।

मुनिसिद्धादिभिश्चैवं वंदितोभूद्धरिस्तदा

॥१८॥

ततो महेशो हरयेशंसद्दिविषदां तदा ।

महावरान् सुप्रसन्नो धृतवान्भक्तवत्सलः

॥१९॥

महेश उवाच

त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ।

दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम्

॥२०॥

जगदीशो जगत्पूज्यो महाबलपराक्रमः ।

अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि

॥२१॥

शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया ।

नानालीलाप्रभावत्वं स्वतंत्रत्वं भवत्रये

॥२२॥

त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ।

त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम्

॥२३॥

मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः ।

यया संमोहितं विश्वमचिद्रूपं भविष्यति

॥२४॥

मम बाहुर्मदीयस्तं दक्षिणोऽसौ विधिर्हरे ।

अस्यापि हि विधेः पाता जनितापि भविष्यसि

॥२५॥

हृदयं मम यो रुद्रस्स एवाहं न संशयः ।

पूज्यस्तव सदा सोपि ब्रह्मादीनामपि ध्रुवम्

॥२६॥

अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः ।

नानावतारभेदैश्च सदा नानोति कर्तृभिः

॥२७॥

मम लोके तवेदं व स्थानं च परमर्द्धिमत् ।

गोलोक इति विख्यातं भविष्यति महोज्ज्वलम्

॥२८॥

भविष्यंति हरे ये तेऽवतारा भुवि रक्षकाः ।

मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद्वरात

॥२९॥

राम उवाच

अखंडैश्वर्यमासाद्य हरेरित्थं हरस्स्वयम् ।

कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः

॥३०॥

तदाप्रभृति लक्ष्मीशो गोपवेषोभवत्तथा ।

अयासीत्तत्र सुप्रीत्या गोपगोपोगवां पतिः

॥३१॥

सोपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् ।

नानावतारस्संधर्ता वनकर्ता शिवाज्ञया

॥३२॥

इदानीं स चतुर्द्धात्रावातरच्छंकराज्ञया ।

रामोहं तत्र भरतो लक्ष्मणश्शत्रुहेति च

॥३३॥

अथ पित्राज्ञया देवि ससीतालक्ष्मणस्सति ।

आगतोहं वने चाद्य दुःखितौ दैवतो ऽभवम्

॥३४॥

निशाचरेण मे जाया हृता सीतेति केनचित् ।

अन्वेष्यामि प्रियां चात्र विरही बंधुना वने

॥३५॥

दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम ।

भविष्यति न संदेहो मातस्ते कृपया सति

॥३६॥

सीताप्राप्तिवरो देवि भविष्यति न संशयः ।

तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात्

॥३७॥

महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् ।

यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः

॥३८॥

इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् ।

तदाज्ञया वने तस्मिन् विचचार रघूद्वहः

॥३९॥

अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः ।

हृष्टाभूत्सा प्रशंसन्ती शिवभक्तिरतं हृदि

॥४०॥

स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम् ।

प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ

॥४१॥

अचिंतयत्पथि सा देवी संचलंती पुनः पुनः ।

नांगीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता

॥४२॥

किमुत्तरमहं दास्ये गत्वा शंकरसन्निधौ ।

इति संचिंत्य बहुधा पश्चात्तापोऽभवत्तदा

॥४३॥

गत्वा शंभुसमीपं च प्रणनाम शिवं हृदा ।

विषण्णवदना शोकव्याकुला विगतप्रभा

॥४४॥

अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः ।

प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम्

॥४५॥

श्रुत्वा शिववचो नाहं किमपि प्रणतानना ।

सती शोकविषण्णा सा तस्थौ तत्र समीपतः

॥४६॥

अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा ।

दक्षजाया महायोगी नानालीला विशारदः

॥४७॥

सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः ।

तत्प्रार्थितोथ रुद्रोसौ मर्यादा प्रतिपालकः

॥४८॥

विषादोभूत्प्रभोस्तत्र मनस्येवमुवाच ह ।

धर्मवक्ता धर्मकर्त्ता धर्मावनकरस्सदा

॥४९॥

शिव उवाच

कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् ।

नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः

॥५०॥

ब्रह्मोवाच

इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् ।

पणं न नाशयामास वेदधर्मप्रपालकः

॥५१॥

ततो विहाय मनसा सतीं तां परमेश्वरः ।

जगाम स्वगिरि भेदं जगावद्धा स हि प्रभुः

॥५२॥

चलंतं पथि तं व्योमवाण्युवाच महेश्वरम् ।

सर्वान् संश्रावयन् तत्र दक्षजां च विशेषतः

॥५३॥

व्योमवाण्युवाच

धन्यस्त्वं परमेशान त्वत्त्समोद्य तथा पणः ।

न कोप्यन्यस्त्रिलोकेस्मिन् महायोगी महाप्रभुः

॥५४॥

ब्रह्मोवाच

श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा ।

कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर

॥५५॥

इति पृष्टोपि गिरिशस्सत्या हितकरः प्रभुः ।

नोद्वाहे स्वपणं तस्यै कहर्यग्रेऽकरोत्पुरा

॥५६॥

तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम् ।

सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने

॥५७॥

ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः ।

शंभुना दक्षजा तस्मान्निश्वसंती मुहुर्मुहुः

॥५८॥

शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् ।

सत्ये पणं स्वकीयं हि कथा बह्वीर्वदन्प्रभुः

॥५९॥

सत्या प्राप स कैलासं कथयन् विविधाः कथा ।

वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत्

॥६०॥

तत्र तस्थौ सती धाम्नि महाविषण्णमानसा ।

न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने

॥६१॥

महान्कालो व्यतीयाय तयोरित्थं महामुने ।

स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः

॥६२॥

ध्यानं तत्याज गिरिशस्ततस्स परमार्तिहृत् ।

तज्ज्ञात्वा जगदंबा हि सती तत्राजगाम सा

॥६३॥

ननामाथ शिवं देवी हृदयेन विदूयता ।

आसनं दत्तवाञ्शंभुः स्वसन्मुख उदारधीः

॥६४॥

कथयामास सुप्रीत्या कथा बह्वीर्मनोरमाः ।

निश्शोका कृतवान्सद्यो लीलां कृत्वा च तादृशीम्

॥६५॥

पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः ।

नेत्याश्चर्यं शिवे तात मंतव्यं परमेश्वरे

॥६६॥

इत्थं शिवाशिवकथां वदन्ति मुनयो मुने ।

किल केचिदविद्वांसो वियोगश्च कथं तयोः

॥६७॥

शिवाशिवचरित्रं को जानाति परमार्थतः ।

स्वेच्छया क्रीडतस्तो हि चरितं कुरुतस्सदा

॥६८॥

वागर्थाविव संपृक्तौ सदा खलु सतीशिवौ ।

तयोर्वियोगस्संभाव्यस्संभवेदिच्छया तयोः

॥६९॥

इति श्रीशिवमहापुराणे द्द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवियोगो नाम पंचविंशोऽध्यायः ॥ २५ ॥