ब्रह्मविष्णुसंवादः
नारद उवाच
ब्रह्मन् विधे महाभाग धन्यस्त्वं शिवसक्तधीः ।
कथितं सुचरित्रं ते शंकरस्य परात्मनः
॥१॥निजाश्रमे गते कामे सगणे सरतौ ततः ।
किमासीत्किमकार्षीस्त्वं तश्चरित्रं वदाधुना
॥२॥ब्रह्मोवाच
शृणु नारद सुप्रीत्या चरित्रं शशिमौलिनः ।
यस्य श्रवणमात्रेण निर्विकारो भवेन्नरः
॥३॥निजाश्रमं गते कामे परिवारसमन्विते ।
यद्बभूव तदा जातं तच्चरित्रं निबोध मे
॥४॥नष्टोभून्नारद मदो विस्मयोऽभूच्च मे हृदि ।
निरानंदस्य च मुनेऽपूर्णो निजमनोरथे
॥५॥अशोचं बहुधा चित्ते गृह्णीयात्स कथं स्त्रियम् ।
निर्विकारी जितात्मा स शंकरो योगतत्परः
॥६॥इत्थं विचार्य बहुधा तदाहं विमदो मुने ।
हरिं तं सोऽस्मरं भक्त्या शिवात्मानं स्वदेहदम्
॥७॥अस्तवं च शुभस्तोत्रैर्दीनवाक्यसमन्वितैः ।
तच्छ्रुत्वा भगवानाशु बभूवाविर्हि मे पुरा
॥८॥चतुर्भुजोरविंदाक्षः शंरववार्ज गदाधरः ।
लसत्पीत पटश्श्यामतनुर्भक्तप्रियो हरिः
॥९॥तं दृष्ट्वा तादृशमहं सुशरण्यं मुहुर्मुहुः ।
अस्तवं च पुनः प्रेम्णा बाष्पगद्गदया गिरा
॥१०॥हरिराकर्ण्य तत्स्तोत्रं सुप्रसन्न उवाच माम् ।
दुःखहा निजभक्तानां ब्रह्माणं शरणं गतम्
॥११॥हरिरुवाच
विधे ब्रह्मन् महाप्राज्ञ धन्यस्त्वं लोककारक ।
किमर्थं स्मरणं मेऽद्य कृतं च क्रियते नुतिः
॥१२॥किं जातं ते महद्दुःखं मदग्रे तद्वदाधुना ।
शमयिष्यामि तत्सर्वं नात्र कार्य्या विचारणा
॥१३॥ब्रह्मोवाच
इति विष्णोर्वचश्श्रुत्वा किंचिदुच्छवसिताननः ।
अवोच वचनं विष्णुं प्रणम्य सुकृतांजलिः
॥१४॥ब्रह्मोवाच
देवदेव रमानाथ मद्वार्तां शृणु मानद ।
श्रुत्वा च करुणां कृत्वा हर दुःखं कमावह
॥१५॥रुद्रसंमोहनार्थं हि कामं प्रेषितवानहम् ।
परिवारयुतं विष्णो समारमधुबांधवम्
॥१६॥चक्रुस्ते विविधोपायान् निष्फला अभवंश्च ते ।
अभवत्तस्य संमोहो योगिनस्समदर्शिनः
॥१७॥इत्याकर्ण्य वचो मे स हरिर्मां प्राह विस्मितः ।
विज्ञाताखिलदज्ञानी शिवतत्त्वविशारदः
॥१८॥विष्णुरुवाच
कस्माद्धेतोरिति मतिस्तव जाता पितामह ।
सर्वं विचार्य सुधिया ब्रह्मन् सत्यं हि तद्वद
॥१९॥ब्रह्मोवाच
शृणु तात चरित्रं तत् तव माया विमोहिनी ।
तदधीनं जगत्सर्वं सुखदुःखादितत्परम्
॥२०॥ययैव प्रेषितश्चाहं पापं कर्तुं समुद्यतः ।
आसं तच्छृणु देवेश वदामि तव शासनात्
॥२१॥सृष्टिप्रारंभसमये दश पुत्रा हि जज्ञिरे ।
दक्षाद्यास्तनया चैका वाग्भवाप्यतिसुन्दरी
॥२२॥धर्मो वक्षःस्थलात्कामो मनसोन्योपि देहतः ।
जातास्तत्र सुतां दृष्ट्वा मम मोहो भवद्धरे
॥२३॥कुदृष्ट्या तां समद्राक्ष तव मायाविमोहितः ।
तत्क्षणाद्धर आगत्य मामनिन्दत्सुतानपि
॥२४॥धिक्कारं कृतवान् सर्वान्निजं मत्वा परप्रभुम् ।
ज्ञानिनं योगिनं नाथाभोगिनं विजितेन्द्रियम्
॥२५॥पुत्रो भूत्वा मम हरेऽनिन्दन्मां च समक्षतः ।
इति दुःखं महन्मे हि तदुक्तं तव सन्निधौ
॥२६॥गृह्णीयाद्यदि पत्नीं स स्यां सुखी नष्टदुःखधी ।
एतदर्थं समायातुश्शरणं तव केशव
॥२७॥ब्रह्मोवाच
इत्याकर्ण्य वचो मे हि ब्रह्मणो मधुसूदनः ।
विहस्य मां द्रुतं प्राह हर्षयन्भवकारकम्
॥२८॥विष्णुरुवाच
विधे शृणु हि मद्वाक्यं सर्वं भ्रमनिवारणम् ।
सर्वं वेदागमादीनां संमतं परमार्थतः
॥२९॥महामूढमतिश्चाद्य संजातोसि कथं विधे ।
वेदवक्तापि निखिललोककर्त्ता हि दुर्मतिः
॥३०॥जडतां त्यज मन्दात्मन् कुरु त्वं नेदृशीं मतिम् ।
किं ब्रुवंत्यखिला वेदाः स्तुत्या तत्स्मर सद्धिया
॥३१॥रुद्रं जानासि दुर्बुद्धे स्वसुतं परमेश्वरम् ।
वेदवक्तापि विज्ञानं विस्मृतं तेखिलं विधे
॥३२॥शंकरं सुरसामान्यं मत्वा द्रोहं करोषि हि ।
सुबुद्धिर्विगता तेद्याविर्भूता कुमतिस्तथा
॥३३॥तत्त्वसिद्धांतमाख्यातं शृणु सद्बुद्धिमावह ।
यथार्थं निगमाख्यातं निर्णीय भवकारकम्
॥३४॥शिवस्सर्वस्वकर्ता हि भर्ता हर्ता परात्परः ।
परब्रह्म परेशश्च निर्गुणो नित्य एव च
॥३५॥अनिर्देश्यो निर्विकारी परमात्माऽद्वयोऽच्युतः ।
अनंतोंतकरः स्वामी व्यापकः परमेश्वरः
॥३६॥सृष्टिस्थितिविनाशानां कर्त्ता त्रिगुणभाग्विभुः ।
ब्रह्मविष्णुमहेशाख्यो रजस्सत्त्व तमःपरः
॥३७॥मायाभिन्नो निरीहश्च मायो मायाविशारदः ।
सगुणोपि स्वतंत्रश्च निजानंदो विकल्पकः
॥३८॥आत्मा रामो हि निर्द्वन्द्वो भक्ताधीनस्सुविग्रहः ।
योगी योगरतो नित्यं योगमार्गप्रदर्शकः
॥३९॥गर्वापहारी लोकेशस्सर्वदा दीनवत्सलः ।
एतादृशो हि यः स्वामी स्वपुत्रं मन्यसे हि तम्
॥४०॥ईदृशं त्यज कुज्ञानं शरणं व्रज तस्य वै ।
भज सर्वात्मना शम्भुं सन्तुष्टश्शं विधास्यति
॥४१॥गृह्णीयाच्छंकरः पत्नीं विचारो हृदि चेत्तव ।
शिवामुद्दिश्य सुतपः कुरु ब्रह्मन् शिवं स्मरन्
॥४२॥कुरु ध्यानं शिवायात्स्वं काममुद्दिश्य तं हृदि ।
सा चेत्प्रसन्ना देवेशी सर्वं कार्यं विधास्यति
॥४३॥कृत्वावतारं सगुणा यदि स्यान्मानुषी शिवा ।
कस्यचित्तनया लोके सा तत्पत्नी भवेद्ध्रुवम्
॥४४॥दक्षमाज्ञापय ब्रह्मन् तपः कुर्य्यात्प्रयत्नतः ।
तामुत्पादयितुं पत्नीं शिवार्थं भक्तितत्स्वतः
॥४५॥भक्ताधीनौ च तौ तात सुविज्ञेयौ शिवाशिवौ ।
स्वेच्छया सगुणौ जातौ परब्रह्मस्वरूपिणौ
॥४६॥ब्रह्मोवाच
इत्युक्त्वा तत्क्षणं मेशश्शिवं सस्मार स्वप्रभुम् ।
कृपया तस्य संप्राप्य ज्ञानमूचे च मां ततः
॥४७॥विष्णुरुवाच
विधे स्मर पुरोक्तं यद्वचनं शंकरेण च ।
प्रार्थितेन यदावाभ्यामुत्पन्नाभ्यां तदिच्छया
॥४८॥विस्मृतं तव तत्सर्वं धन्या या शांभवी परा ।
तया संमोहितं सर्वं दुर्विज्ञेया शिवं विना
॥४९॥यदा हि सगुणो जातस्स्वेच्छया निर्गुणश्शिवः ।
मामुत्पाद्य ततस्त्वां च स्वशक्त्या सुविहारकृत्
॥५०॥उपादिदेश त्वां शम्भुस्सृष्टिकार्यं तदा प्रभुः ।
तत्पालनं च मां ब्रह्मन् सोमस्सूतिकरोऽव्ययः
॥५१॥तदा वां वेश्म संप्राप्तौ सांजली नतमस्तकौ ।
भव त्वमपि सर्वेशोऽवतारी गुणरूपधृक्
॥५२॥इत्युक्तः प्राह स स्वामी विहस्य करुणान्वितः ।
दिवमुद्वीक्ष्य सुप्रीत्या नानालीलाविशारदः
॥५३॥मद्रूपं परमं विष्णो ईदृशं ह्यंगतो विधेः ।
प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः
॥५४॥पूर्णरूपस्स मे पूज्यस्सदा वां सर्वकामकृत् ।
लयकर्त्ता गुणाध्यक्षो निर्विशेषः सुयोगकृत्
॥५५॥त्रिदेवा अपि मे रूपं हरः पूर्णो विशेषतः ।
उमाया अपि रूपाणि भविष्यंति त्रिधा सुताः
॥५६॥लक्ष्मीर्नाम हरेः पत्नी ब्रह्मपत्नी सरस्वती ।
पूर्णरूपा सती नाम रुद्रपत्नी भविष्यति
॥५७॥विष्णुरुवाच
इत्युक्त्वांतर्हितो जातः कृपां कृत्वा महेश्वरः ।
अभूतां सुखिनावावां स्वस्वकार्यपरायणौ
॥५८॥समयं प्राप्य सस्त्रीकावावां ब्रह्मन्न शंकरः ।
अवतीर्णस्स्वयं रुद्रनामा कैलाससंश्रयः
॥५९॥अवतीर्णा शिवा स्यात्सा सतीनाम प्रजेश्वर ।
तदुत्पादनहेतोर्हि यत्नोतः कार्य एव वै
॥६०॥इत्युक्त्वांतर्दधे विष्णुः कृत्वा स करुणां परम् ।
प्राप्नुवं प्रमुदं चाथ ह्यधिकं गतमत्सरः
॥६१॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखण्डे ब्रह्मविष्णुसंवादो नाम दशमोऽध्यायः ॥ १० ॥