मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय २७

3
रुद्रसंहिता · सतीखण्डः · 27

यज्ञप्रारंभः

ब्रह्मोवाच

एकदा तु मुने तेन यज्ञः प्रारंभितो महान् ।

तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः

॥१॥

महर्षयोऽखिलास्तत्र निर्जराश्च समागताः ।

यद्यज्ञकरणार्थं हि शिवमायाविमोहितः

॥२॥

अगस्त्यः कश्यपोत्रिश्च वामदेवस्तथा भृगुः ।

दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः

॥३॥

पैलः पराशरो गर्गो भार्गवः ककुपस्सितः ।

सुमंतुत्रिककंकाश्च वैशंपायन एव च

॥४॥

एते चान्ये च बहवो मुनयो हर्षिता ययु ।

मम पुत्रस्य दक्षस्य सदारास्ससुता मखम्

॥५॥

तथा सर्वे सुरगणा लोकपाला महोदयाः ।

तथोपनिर्जरास्सर्वे स्वापकारबलान्विताः

॥६॥

सत्यलोकात्समानीतो नुतोहं विश्वकारकः ।

ससुतस्स परीवारो मूर्तवेदापिसंयुतः

॥७॥

वैकुंठाच्च तथा विष्णुस्संप्रार्थ्य विविधादरात् ।

सपार्षदपरीवारस्समानीतो मखं प्रति

॥८॥

एवमन्ये समायाता दक्षयज्ञं विमोहिताः ।

सत्कृतास्तेन दक्षेन सर्वे ते हि दुरात्मना

॥९॥

भवनानि महार्हाणि सुप्रभाणि महांति च ।

त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै

॥१०॥

तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः ।

सन्मानिता अराजंस्ते सकला विष्णुना मया

॥११॥

वर्त्तमाने महायज्ञे तीर्थे कनखले तदा ।

ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः

॥१२॥

अधिष्ठाता स्वयं विष्णुस्सह सर्वमरुद्गणैः ।

अहं तत्राऽभवं ब्रह्मा त्रयीविधिनिदर्शकः

॥१३॥

तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः ।

सायुधास्सपरीवाराः कुतूहलकरास्सदा

॥१४॥

उपतस्थे स्वयं यज्ञस्सुरूपस्तस्य चाध्वरे ।

सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराऽभवन्

॥१५॥

तनूनपादपि निजं चक्रे रूपं सहस्रशः ।

हविषा ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे

॥१६॥

अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः ।

उद्गातारश्चतुषष्टि सहस्राणि सुरर्षयः

॥१७॥

अध्वर्यवोथ होतारस्तावन्तो नारदादयः ।

सप्तर्षयस्समा गाथाः कुर्वंति स्म पृथक्पृथक्

॥१८॥

गंधर्वविद्याधरसिद्धसंघानादित्यसंघान् सगणान् सयज्ञान् ।

संख्यावरान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे

॥१९॥

द्विजर्षिराजर्षिसुरर्षिसंघा नृपास्समित्राः सचिवास्स सैन्याः ।

वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्राः

॥२०॥

दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ।

भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम्

॥२१॥

तस्मिन् यज्ञे वृतश्शंभुर्न दक्षेण दुरात्मना ।

कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि

॥२२॥

कपालिभार्येति सती दयिता स्वसुतापि च ।

नाहूता यज्ञविषये दक्षेणागुणदर्शिना

॥२३॥

एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे ।

स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसंमताः

॥२४॥

एतस्मिन्नंतरेऽदृष्ट्वा तत्र वै शंकरं प्रभुम् ।

प्रोद्विग्नमानसश्शैवो दधीचो वाक्यमब्रवीत्

॥२५॥

दधीच उवाच

सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा ।

कस्मान्नैवागतश्शंभुरस्मिन् यज्ञे महोत्सवे

॥२६॥

एते सुरेशा मुनयो महत्तरास्सलोकपालाश्च समागता हि ।

तथापि यज्ञस्तु न शोभते भृशं पिनाकिना तेन महात्मना विना

॥२७॥

येनैव सर्वाण्यपि मंगलानि भवंति शंसन्ति महाविपश्चितः ।

सोऽसौ न दृष्टोऽत्र पुमान् पुराणो वृषध्वजो नीलगलः परेशः

॥२८॥

अमंगलान्येव च मंगलानि भवंति येनाधिगतानि दक्षः ।

त्रिपंचकेनाप्यथ मंगलानि भवंति सद्यः परतः पुराणि

॥२९॥

तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः ।

त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना

॥३०॥

इन्द्रेण लोकपालैश्च द्विजैस्सिद्धैस्सहाधुना ।

सर्वथाऽऽनयनीयोसौ शंकरो यज्ञपूर्त्तये

॥३१॥

सर्वैर्भवद्भिर्गंतव्यं यत्र देवो महेश्वरः ।

दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः

॥३२॥

तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना ।

अत्रागतेन देवेशास्सांबेन परमात्मना

॥३३॥

यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ।

तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः

॥३४॥

समागते शंकरेऽत्र पावनो हि भवेन्मखः ।

भविष्यत्यन्यथाऽपूर्णः सत्यमेतद्ब्रवीम्यहम्

॥३५॥

ब्रह्मोवाच

तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः ।

उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः

॥३६॥

मूलं विष्णुर्देवतानां यत्र धर्मस्सनातनः ।

समानीतो मया सम्यक् किमूनं यज्ञकर्मणि

॥३७॥

यस्मिन्वेदाश्च यज्ञाश्च कर्माणि विविधानि च ।

प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः

॥३८॥

सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ।

वेदैस्सोपनिषद्भिश्च विविधैरागमैस्सह

॥३९॥

तथा सुरगणैस्साकमागतस्सुरराट् स्वयम् ।

तथा यूयं समायाता ऋषयो वीतकल्मषाः

॥४०॥

येये यज्ञोचिताश्शांताः पात्रभूतास्समागताः ।

वेदवेदार्थतत्त्वज्ञास्सर्वे यूयं दृढव्रताः

॥४१॥

अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् ।

कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि

॥४२॥

हरोऽकुलीनोसौ विप्र पितृमातृविवर्जितः ।

भूतप्रेतपिशाचानां पतिरेको दुरत्ययः

॥४३॥

आत्मसंभावितो मूढ स्तब्धो मौनी समत्सरः ।

कर्मण्यस्मिन्न योग्योसौ नानीतो हि मयाऽधुना

॥४४॥

तस्मात्त्वमीदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् ।

सर्वेर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान्

॥४५॥

ब्रह्मोवाच

एतच्छ्रुत्वा वचस्तस्य दधीचो वाक्यमब्रवीत् ।

सर्वेषां शृण्वतां देवमुनीनां सारसं युतम्

॥४६॥

दधीच उवाच

अयज्ञोयं महाजातो विना तेन शिवेन हि ।

विनाशोपि विशेषेण ह्यत्र ते हि भविष्यति

॥४७॥

एवमुक्त्वा दधीचोसावेक एव विनिर्गतः ।

यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ

॥४८॥

ततोन्ये शांकरा ये च मुख्याश्शिवमतानुगाः ।

निर्ययुस्स्वाश्रमान् सद्यश्शापं दत्त्वा तथैव च

॥४९॥

मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः ।

शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत्

॥५०॥

दक्ष उवाच

गतः शिवप्रियो विप्रो दधीचो नाम नामतः ।

अन्ये तथाविधा ये च गतास्ते मम चाध्वरात्

॥५१॥

एतच्छुभतरं जातं संमतं मे हि सर्वथा ।

सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा

॥५२॥

विनष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः ।

वेदबाह्या दुराचारास्त्याज्यास्ते मखकर्मणि

॥५३॥

वेदवादरता यूयं सर्वे विष्णुपुरोगमाः ।

यज्ञं मे सफलं विप्रास्सुराः कुर्वंतु माऽचिरम्

॥५४॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः ।

यन्मखे देवयजनं चक्रुस्सर्वे सुरर्षयः

॥५५॥

इति तन्मखशापो हि वर्णितो मे मुनीश्वर ।

यज्ञविध्वंसयोगोपि प्रोच्यते शृणु सादरम्

॥५६॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे यज्ञप्रारंभो नाम सप्तविंशोऽध्यायः ॥ २७ ॥