मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ३६

3
रुद्रसंहिता · सतीखण्डः · 36

विष्णुवीरभद्रसम्वादः

ब्रह्मोवाच

इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा ।

वज्रपाणिस्सुरैस्सार्द्धं योद्धुकामोऽभवत्तदा

॥१॥

तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा ।

यमो महिषमारूढो निर्ऋतिः प्रेतमेव च

॥२॥

पाशी च मकरारूढो मृगारूढो स्सदागतिः ।

कुबेरः पुष्पकारूढस्संनद्धोभूदतंद्रितः

॥३॥

तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः ।

आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः

॥४॥

तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा ।

तदंतिकं समागत्य सकलत्रोऽभ्यभाषत

॥५॥

दक्षउवाच

युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान् ।

सत्कर्मसिद्धये यूयं प्रमाणास्स्युर्महाप्रभाः

॥६॥

ब्रह्मोवाच

तच्छ्रुत्वा दक्षवचनं सर्वे देवास्सवासवाः ।

निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः

॥७॥

अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः ।

शक्रादयो लोकपाला मोहिताः शिवमायया

॥८॥

देवानां च गणानां च तदासीत्समरो महान् ।

तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम्

॥९॥

नेदुश्शंखाश्च भेर्य्यश्च तस्मिन् रणमहोत्सवे ।

महादुंदुभयो नेदुः पटहा डिंडिमादयः

॥१०॥

तेन शब्देन महता श्लाघ्मानास्तदा सुराः ।

लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान्

॥११॥

इन्द्राद्यैर्लोकपालैश्च गणाश्शंभो पराङ्मुखाः ।

कृत्ताश्च मुनिशार्दूल भृगोर्मंत्रबलेन च

॥१२॥

उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ।

यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च

॥१३॥

पराजितान्स्वकान्दृष्ट्वा वीरभद्रो रुषान्वितः ।

भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः

॥१४॥

वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः ।

महात्रिशूलमादाय पातयामास निर्जरान्

॥१५॥

देवान्यक्षान् साध्यगणान् गुह्यकान् चारणानपि ।

शूलघातैश्च सर्वे गणा वेगात् प्रजघ्निरे

॥१६॥

केचिद्द्विधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः ।

अन्यैश्शस्त्रैरपि सुरा गणैर्भिन्नास्तदाऽभवन्

॥१७॥

एवं पराजितास्सर्वे पलायनपरायणाः ।

परस्परं परित्यज्य गता देवास्त्रिविष्टपम्

॥१८॥

केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः ।

संग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः

॥१९॥

सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे ।

बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा

॥२०॥

लोकपाला ऊचुः

गुरो बृहस्पते तात महाप्राज्ञ दयानिधे ।

शीघ्रं वद पृच्छतो नः कुतोऽ स्माकं जयो भवेत्

॥२१॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तेषां स्मृत्वा शंभुं प्रयत्नवान् ।

बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम्

॥२२॥

बृहस्पतिरुवाच

यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै ।

तदेव विवृणोमीन्द्र सावधानतया शृणु

॥२३॥

अस्ति यक्षेश्वरः कश्चित् फलदः सर्वकर्मणाम् ।

कर्तारं भजते सोपि न स्वकर्त्तुः प्रभुर्हि सः

॥२४॥

अमंत्रौषधयस्सर्वे नाभिचारा न लौकिकाः ।

न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा

॥२५॥

अन्यान्यपि च शास्त्राणि नानावेदयुतानि च ।

ज्ञातुं नेशं संभवंति वदंत्येवं पुरातनाः

॥२६॥

न स्वज्ञेयो महेशानस्सर्ववेदायुतेन सः ।

भक्तेरनन्यशरणैर्नान्यथेति महाश्रुतिः

॥२७॥

शांत्या च परया दृष्ट्या सर्वथा निर्विकारया ।

तदनुग्रहतो नूनं ज्ञातव्यो हि सदाशिवः

॥२८॥

परं तु संवदिष्यामि कार्याकार्य विवक्षितौ ।

सिध्यंशं च सुरेशान तं शृणु त्वं हिताय वै

॥२९॥

त्वमिंद्र बालिशो भूत्वा लोकपालैः सदाद्य वै ।

आगतो दक्ष यज्ञं हि किं करिष्यसि विक्रमम्

॥३०॥

एते रुद्रसहायाश्च गणाः परमकोपनाः ।

आगता यज्ञविघ्नार्थं तं करिष्यंत्यसंशयम

॥३१॥

सर्वथा न ह्युपायोत्र केषांचिदपि तत्त्वतः ।

यज्ञविघ्नविनाशार्थ सत्यं सत्यं ब्रवीम्यहम्

॥३२॥

ब्रह्मोवाच

एवं बृहस्पतेर्वाक्यं श्रुत्वा ते हि दिवौकसः ।

चिंतामापेदिरे सर्वे लोकपालास्सवासवाः

॥३३॥

ततोब्रवीद्वीरभद्रो महावीरगणैर्वृतः ।

इन्द्रादीन् लोकपालांस्तान् स्मृत्वा मनसि शंकरम्

॥३४॥

वीरभद्र उवाच

सर्वे यूयं बालिशत्वादवदानार्थमागताः ।

अवदानं प्रयच्छामि आगच्छत ममांतिकम्

॥३५॥

हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप ।

हे पाशपाणे हे वायो निर्ऋते यम शेष हे

॥३६॥

हे सुरासुरसंघाहीहैत यूयं हे विचक्षणाः ।

अवदानानि दास्यामि आतृप्त्याद्यासतां वराः

॥३७॥

ब्रह्मोवाच

एवमुक्त्वा सितैर्बाणैर्जघानाथ रुषान्वितः ।

निखिलांस्तान् सुरान् सद्यो वीरभद्रो गणाग्रणीः ।

तैर्बाणैर्निहतास्सर्वे वासवाद्याः सुरेश्वराः

॥३८॥

पलायनपरा भूत्वा जग्मुस्ते च दिशो दश ।

गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ।

यज्ञवाटोपकंठं हि वीरभद्रोगमद्गणैः

॥३९॥

तदा ते ऋषयस्सर्वे सुभीता हि रमेश्वरम् ।

विज्ञप्तुकामास्सहसा शीघ्रमूचुर्नता भृशम्

॥४०॥

ऋषय ऊचुः

देवदेव रमानाथ सर्वेश्वर महाप्रभो ।

रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः

॥४१॥

यज्ञकर्मा यज्ञरूपो यज्ञांगो यज्ञरक्षकः ।

रक्ष यज्ञमतो रक्ष त्वत्तोन्यो न हि रक्षकः

॥४२॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तेषामृषीणां वचनं हरिः ।

योद्धुकामो भयाद्विष्णुर्वीरभद्रेण तेन वै

॥४३॥

चतुर्भुजस्सुसनद्धो चक्रायुधधरः करैः ।

महाबलोमरगणैर्यज्ञवाटात्स निर्ययौ

॥४४॥

वीरभद्रः शूलपाणिर्नानागणसमन्वितः ।

ददर्श विष्णुं संनद्धं योद्धुकामं महाप्रभुम्

॥४५॥

तं दृष्ट्वा वीरभद्रोभूद्भ्रुकुटीकुटिलाननः ।

कृतांत इव पापिष्ठं मृगेन्द्र इव वारणम्

॥४६॥

तथाविधं हरिं दृष्ट्वा वीरभद्रो रिमर्दनः ।

अवदत्त्वरितः क्रुद्धो गणैर्वीरैस्समावृतः

॥४७॥

वीरभद्र उवाच

रेरे हरे महादेव शपथोल्लंघनं त्वया ।

कथमद्य कृतं चित्ते गर्वः किमभवत्तव

॥४८॥

तव श्रीरुद्रशपथोल्लंघने शक्तिरस्ति किम् ।

को वा त्वमसिको वा ते रक्ष कोस्ति जगत्त्रये

॥४९॥

अत्र त्वमागतः कस्माद्वयं तन्नैव विद्महे ।

दक्षस्य यज्ञपातात्त्वं कथं जातोसि तद्वद

॥५०॥

दाक्षायण्याकृतं यच्च तन्न दृष्टं किमु त्वया ।

प्रोक्तं यच्च दधीचेन श्रुतं तन्न किमु त्वया

॥५१॥

त्वञ्चापि दक्षयज्ञेस्मिन्नवदानार्थमागतः ।

अवदानं प्रयच्छामि तव चापि महाभुज

॥५२॥

वक्षो विदारयिष्यामि त्रिशूलेन हरे तव ।

कस्तवास्ति समायातो रक्षकोद्य ममांतिकम्

॥५३॥

पातयिष्यामि भूपृष्ठे ज्वालयिष्यामि वह्निना ।

दग्धं भवंतमधुना पेषयिष्यामि सत्वरम्

॥५४॥

रेरे हरे दुराचार महेश विमुखाधम ।

श्रीमहारुद्रमाहात्म्यं किन्न जानासि पावनम्

॥५५॥

तथापि त्वं महाबाहो योद्धुकामोग्रतः स्थितः ।

नेष्यामि पुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना

॥५६॥

ब्रह्मोवाच

तस्य तद्वचनं श्रुत्वा वीरभद्रस्य बुद्धिमान् ।

उवाच विहसन् प्रीत्या विष्णुस्त्र सुरेश्वरः

॥५७॥

विष्णुरुवाच

शृणु त्वं वीरभद्राद्य प्रवक्ष्यामि त्वदग्रतः ।

न रुद्रविमुखं मां त्वं वद शंकरसेवकम्

॥५८॥

अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ।

दक्षेणाविदितार्थेन कर्मनिष्ठेन मौढ्यतः

॥५९॥

अहं भक्तपराधीनस्तथा सोपि महेश्वरः ।

दक्षो भक्तो हि मे तात तस्मादत्रागतो मखे

॥६०॥

शृणु प्रतिज्ञां मे वीर रुद्रकोपसमुद्भव ।

रुद्रतेजस्स्वरूपो हि सुप्रतापालयंप्रभो

॥६१॥

अहं निवारयामि त्वां त्वं च मां विनिवारय ।

तद्भविष्यति यद्भावि करिष्येऽहं पराक्रमम्

॥६२॥

ब्रह्मोवाच

इत्युक्तवति गोविन्दे प्रहस्य स महाभुजः ।

अवदत्सुप्रसन्नोस्मि त्वां ज्ञात्वास्मत्प्रभोः प्रियम्

॥६३॥

ततो विहस्य सुप्रीतो वीरभद्रो गणाग्रणीः ।

प्रश्रयावनतोवादीद्विष्णुं देवं हि तत्त्वतः

॥६४॥

वीरभद्र उवाच

तव भावपरीक्षार्थमित्युक्तं मे महाप्रभो ।

इदानीं तत्त्वतो वच्मि शृणु त्वं सावधानतः

॥६५॥

यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ।

इति वेदा वर्णयंति शिवशासनतो हरे

॥६६॥

शिवाज्ञया वयं सर्वे सेवकाः शंकरस्य वै ।

तथापि च रमानाथ प्रवादोचितमादरात्

॥६७॥

ब्रह्मोवाच

तच्छ्रुत्वा वचनं तस्य वीरभद्रस्य सोऽच्युतः ।

प्रहस्य चेदं प्रोवाच वीरभद्रमिदं वचः

॥६८॥

विष्णुरुवाच

युद्धं कुरु महावीर मया सार्द्धमशंकितः ।

तवास्त्रैः पूर्यमाणोहं गमिष्यामि स्वमाश्रमम्

॥६९॥

ब्रह्मोवाच

इत्युक्त्वा हि विरम्यासौ सन्नद्धोभूद्रणाय च ।

स्वगणैर्वीरभद्रोपि सन्नद्धोथ महाबलः

॥७०॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुवीरभद्रसम्वादो नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥