दक्षवरप्राप्तिवर्णनः
नारद उवाच
ब्रह्मन् शंभुवर प्राज्ञ सम्यगुक्तं त्वयानघ ।
शिवाशिवचरित्रं च पावितं जन्म मे हितम्
॥१॥इदानीं वद दक्षस्तु तपः कृत्वा दृढव्रतः ।
कं वरं प्राप देव्यास्तु कथं सा दक्षजाऽभवत्
॥२॥ब्रह्मोवाच
शृणु नारद धन्यस्त्वं मुनिभिर्भक्तितोखिलैः ।
यथा तेपे तपो दक्षो वरं प्राप च सुव्रतः
॥३॥मदाज्ञप्तस्सुधीर्दक्षस्समाधाय महाधिपः ।
अपाद्यष्टुं च तां देवीं तत्कामो जगदंबिकाम्
॥४॥क्षीरोदोत्तरतीरस्थां तां कृत्वा हृदयस्थिताम् ।
तपस्तप्तुं समारेभे द्रुष्टुं प्रत्यक्षतोम्बिकाम्
॥५॥दिव्यवर्षेण दक्षस्तु सहस्राणां त्रयं समाः ।
तपश्चचार नियतस्सं यतात्मा दृढव्रतः
॥६॥मारुताशी निराहारो जलाहारी च पर्णभुक् ।
एवं निनाय तं कालं चिंतयन्तां जगन्मयीम्
॥७॥दुर्गाध्यानसमासक्तश्चिरं कालं तपोरतः ।
नियमैर्बहुभिर्देवीमाराधयति सुव्रतः
॥८॥ततो यमादियुक्तस्य दक्षस्य मुनिसत्तम ।
जगदम्बा पूजयतः प्रत्यक्षमभवच्छिवा
॥९॥ततः प्रत्यक्षतो दृष्ट्वा जगदम्बां जगन्मयीम् ।
कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः
॥१०॥सिंहस्थां कालिकां कृष्णां चारुवक्त्रां चतुर्भुजाम् ।
वरदाभयनीलाब्जखड्गहस्तां मनोहराम्
॥११॥आरक्तनयनां चारुमुक्तकेशीं जगत्प्रसूम् ।
तुष्टाव वाग्भिश्चित्राभिः सुप्रणम्याथ सुप्रभाम्
॥१२॥दक्ष उवाच
जगदेव महामाये जगदीशे महेश्वरि ।
कृपां कृत्वा नमस्तेस्तु दर्शितं स्ववपुर्मम
॥१३॥प्रसीद भगवत्याद्ये प्रसीद शिवरूपिणम् ।
प्रसीद भक्तवरदे जगन्माये नमोस्तु ते
॥१४॥ब्रह्मोवाच
इति स्तुता महेशानी दक्षेण प्रयतात्मना ।
उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं मुने
॥१५॥देव्युवाच
तुष्टाहं दक्ष भवतस्सद्भक्त्या ह्यनया भृशम् ।
वरं वृणीष्व स्वाभीष्टं नादेयं विद्यते तव
॥१६॥ब्रह्मोवाच
जगदम्बावचश्श्रुत्वा ततो दक्षः प्रजापतिः ।
सुप्रहृष्टतरः प्राह नामं नामं च तां शिवाम्
॥१७॥दक्ष उवाच
जगदम्बा महामाये यदि त्वं वरदा मम ।
मद्वचः शृणु सुप्रीत्या मम कामं प्रपूरय
॥१८॥मम स्वामी शिवो यो हि स जातो ब्रह्मणस्तुतः ।
रुद्रनामा पूर्णरूपावतारः परमात्मनः
॥१९॥तवावतारो नो जातः का तत्पत्नी भवेदतः ।
तं मोहय महेशानमवतीर्य क्षितौ शिवे
॥२०॥त्वदृते तस्य मोहाय न शक्तान्या कदाचन ।
तस्मान्मम सुता भूत्वा हरजायाभवाऽधुना
॥२१॥इत्थं कृत्वा सुलीला च भव त्वं हर मोहिनी ।
ममैवैष वरो देवि सत्यमुक्तं तवाग्रतः
॥२२॥केवलं स्वार्थमिति च सर्वेषां जगतामपि ।
ब्रह्मविष्णुशिवानां च ब्रह्मणा प्रेरितो ह्यहम्
॥२३॥ब्रह्मोवाच
इत्याकर्ण्य प्रजेशस्य वचनं जगदम्बिका ।
प्रत्युवाच विहस्येति स्मृत्वा तं मनसा शिवम्
॥२४॥देव्युवाच
तात प्रजापते दक्ष शृणु मे परमं वचः ।
सत्यं ब्रवीमि त्वद्भक्त्या सुप्रसन्नाखिलप्रदा
॥२५॥अहं तव सुता दक्ष त्वज्जायायां महेश्वरी ।
भविष्यामि न संदेहस्त्वद्भक्तिवशवर्तिनी
॥२६॥तथा यत्नं करिष्यामि तपः कृत्वा सुदुस्सहम् ।
हरजाया भविष्यामि तद्वरं प्राप्य चानघ
॥२७॥नान्यथा कार्यसिद्धिर्हि निर्विकारी च स प्रभुः ।
विधेर्विष्णोश्च संसेव्यः पूर्ण एव सदाशिवः
॥२८॥अहं तस्य सदा दासी प्रिया जन्मनि जन्मनि ।
मम स्वामी स वै शंभुर्नानारूपधरोपि ह
॥२९॥वरप्रभावाद्भ्रुकुटेरवतीर्णो विधेस्म च ।
अहं तद्वरतोपीहावतरिष्ये तदाज्ञया
॥३०॥गच्छ स्वभवनं तात मया ज्ञाता तु दूतिका ।
हरजाया भविष्यामि भूता ते तनयाचिरात्
॥३१॥इत्युक्त्वा सद्वचो दक्षं शिवाज्ञां प्राप्य चेतसि ।
पुनः प्रोवाच सा देवी स्मृत्वा शिवपदाम्बुजम्
॥३२॥परन्तु पण आधेयो मनसा ते प्रजापते ।
श्रावयिष्यामि ते तं वै सत्यं जानीहि नो मृषा
॥३३॥यदा भवान् मयि पुनर्भवेन्मंदादरस्तपा ।
देहं त्यक्ष्ये निजं सत्यं स्वात्मन्यस्म्यथ वेतरम्
॥३४॥एष दत्तस्तव वरः प्रतिसर्गं प्रजापते ।
अहं तव सुता भूत्वा भविष्यामि हरप्रिया
॥३५॥ब्रह्मोवाच
एवमुक्त्वा महेशानी दक्षं मुख्यप्रजापतिम् ।
अंतर्दधे द्रुतं तत्र सम्यग् दक्षस्य पश्यतः
॥३६॥अंतर्हितायां दुर्गायां स दक्षोपि निजाश्रमम् ।
जगाम च मुदं लेभे भविष्यति सुतेति सा
॥३७॥इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षवरप्राप्तिवर्णनो नाम द्वादशोऽध्यायः ॥ १२ ॥