यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः
ब्रह्मोवाच
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः ।
तस्मिन्नैवांतरे देवो पर्वते गंधमादने
॥१॥धारागृहे वितानेन सखीभिः परिवारिता ।
दाक्षायणी महाक्रीडाश्चकार विविधास्सती
॥२॥क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती ।
दक्षयज्ञे प्रयांतं च रोहिण्या पृच्छ्य सत्वरम्
॥३॥दृष्ट्वा सीमंतया भूतां विजयां प्राह सा सती ।
स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम्
॥४॥सत्युवाच
हे सखीप्रवरे प्राणप्रिये त्वं विजये मम ।
क्व गमिष्यति चन्द्रोयं रोहिण्यापृच्छ्य सत्वरम्
॥५॥ब्रह्मोवाच
तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम् ।
क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम्
॥६॥विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् ।
कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम्
॥७॥तच्छ्रुत्वा विजया देवीं त्वरिता जातसंभ्रमा ।
कथयामास तत्सर्वं यदुक्तं शशिना सतीम्
॥८॥तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा ।
विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिंतयत्
॥९॥दक्षः पिता मे माता च वीरिणी नौ कुतस्सती ।
आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम्
॥१०॥पृच्छेयं शंकरं तत्र कारणं सर्वमादरात् ।
चिंतयित्वेति सासीद्वै तत्र गंतुं सुनिश्चया
॥११॥अथ दाक्षायणी देवी विजयां प्रवरां सखीम् ।
स्थापयित्वा द्रुतं तत्र समगच्छच्छिवांतिकम्
॥१२॥ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः ।
नंद्यादिभिर्महावीरैः प्रवरैर्यूथयूथपै
॥१३॥दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा ।
प्रष्टुं तत्कारणं शीघ्रं प्राप शंकरसंनिधिम्
॥१४॥शिवेन स्थापिता स्वांके प्रीतियुक्तेन स्वप्रिया ।
प्रमोदिता वचोभिस्सा बहुमानपुरस्सरम्
॥१५॥अथ शंभुर्महालीलस्सर्वेशस्सुखदस्सताम् ।
सतीमुवाच त्वरितं गणमध्यस्थ आदरात्
॥१६॥शंभुरुवाच
किमर्थमागतात्र त्वं सभामध्ये सविस्मया ।
कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे
॥१७॥ब्रह्मोवाच
एवमुक्ता तदा तेन महेशेन मुनीश्वर ।
सांजलिस्सुप्रणम्याशु सत्युवाच प्रभुं शिवा
॥१८॥सत्युवाच
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ।
तत्रोत्सवो महानस्ति समवेतास्सुरर्षयः
॥१९॥पितुर्मम महायज्ञे कस्मात्तव न रोचते ।
गमनं देवदेवेश तत्सर्वं कथय प्रभो
॥२०॥सुहृदामेष वै धर्मस्सुहृद्भिस्सह संगतिः ।
कुर्वंति यन्महादेव सुहृदः प्रीतिवर्द्धिनीम्
॥२१॥तस्मात्सर्वप्रयत्नेन मयागच्छ सह प्रभो ।
यज्ञवाटं पितुर्मेद्य स्वामिन् प्रार्थनया मम
॥२२॥ब्रह्मोवाच
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः ।
दक्ष वागिषुहृद्विद्धो बभाषे सूनृतं वचः
॥२३॥महेश्वर उवाच
दक्षस्तव पिता देवी मम द्रोही विशेषतः
॥२४॥यस्य ये मानिनस्सर्वे ससुरर्षिमुखाः परे ।
ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः
॥२५॥अनाहूताश्च ये देवी गच्छंति परमंदिरम् ।
अवमानं प्राप्नुवंति मरणादधिकं तथा
॥२६॥परालयं गतोपींद्रो लघुर्भवति तद्विधः ।
का कथा च परेषां वै रीढा यात्रा हि तद्विधा
॥२७॥तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति ।
न गंतव्यं विशेषेण सत्यमुक्तं मया प्रियं
॥२८॥तथारिभिर्न व्यथते ह्यर्दितोपि शरैर्जनः ।
स्वानांदुरुक्तिभिर्मर्मताडितस्स यथा मतः
॥२९॥विद्यादिभिर्गुणैः षड्भिरसदन्यैस्सतां स्मृतौ ।
हतायां भूयसां धाम न पश्यंति खलाः प्रिये
॥३०॥ब्रह्मोवाच
एवमुक्ता सती तेन महेशेन महात्मना ।
उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम्
॥३१॥सत्युवाच
यज्ञस्स्यात्सफलो येन स त्वं शंभोखिलेश्वर ।
अनाहूतोसि तेनाद्य पित्रा मे दुष्टकारिणा
॥३२॥तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः ।
सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम्
॥३३॥तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो ।
अनुज्ञां देहि मे नाथ तत्र गंतुं महेश्वर
॥३४॥ब्रह्मोवाच
इत्युक्तौ भगवान् रुद्रस्तया देव्या शिवस्स्वयम् ।
विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत्
॥३५॥शिव उवाच
यद्येवं ते रुचिर्देवि तत्र गंतुमवश्यकम् ।
सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम्
॥३६॥एतं नंदिनमारुह्य वृषभं सज्जमादरात् ।
महाराजोपचाराणि कृत्वा बहुगुणान्विता
॥३७॥भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती ।
सुभूषिता सती युक्ता ह्यगमत्पितुमंदिरम्
॥३८॥महाराजोपचाराणि दत्तानि परमात्मना ।
सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च
॥३९॥गणाः षष्टिसहस्राणि रौद्रा जग्मुश्शिवाज्ञया ।
कुतूहलयुताः प्रीता महोत्सवसमन्विताः
॥४०॥तदोत्सवो महानासीद्यजने तत्र सर्वतः ।
सत्याश्शिवप्रियायास्तु वामदेवगणैः कृतः
॥४१॥कुतूहलं गणाश्चक्रुश्शिवयोर्यश उज्जगुः ।
बालांतः पुप्लुवुः प्रीत्या महावीराश्शिवप्रियाः
॥४२॥सर्वथासीन्महाशोभा गमने जागदम्बिके ।
सुखारावस्संबभूव पूरितं भुवनत्रयम्
॥४३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीयात्रावर्णनं नामाष्टविंशोध्यायः ॥ २८ ॥