मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ४१

3
रुद्रसंहिता · सतीखण्डः · 41

देवदेव महादेव लौकिकाचारकृत्प्रभो

विष्ण्वादय ऊचुः

देवदेव महादेव लौकिकाचारकृत्प्रभो ।

ब्रह्म त्वामीश्वरं शंभुं जानीमः कृपया तव

॥१॥

किं मोहयसि नस्तात मायया परया तव ।

दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर

॥२॥

प्रकृतः पुरुषस्यापि जगतो योनिबीजयोः ।

परब्रह्म परस्त्वं च मनोवाचामगोचरः

॥३॥

त्वमेव विश्वं सृजसि पास्यत्सि निजतंत्रतः ।

स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा

॥४॥

त्वमेव क्रतुमीशान ससर्जिथ दयापरः ।

दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये

॥५॥

त्वयैव लोकेवसितास्सेतवो यान् धृतव्रताः ।

शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः

॥६॥

कर्तुस्त्वं मंगलानां हि स्वपरं तु मुखे विभो ।

अमंगलानां च हितं मिश्रं वाथ विपर्ययम्

॥७॥

सर्वकर्मफलानां हि सदा दाता त्वमेव हि ।

सर्वे हि प्रोक्ता हि यशस्तत्पतिस्त्वं श्रुतिश्रुतः

॥८॥

पृथग्धियः कर्मदृशोऽरुंतुदाश्च दुराशयाः ।

वितुदंति परान्मूढा दुरुक्तैर्मत्सरान्विताः

॥९॥

तेषां दैववधानां भो भूयात्त्वच्च वधो विभो ।

भगवन्परमेशान कृपां कुरु परप्रभो

॥१०॥

नमो रुद्राय शांताय ब्रह्मणे परमात्मने ।

कपर्दिने महेशाय ज्योत्स्नाय महते नमः

॥११॥

त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः ।

त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः

॥१२॥

नमस्ते नीलकंठाय वेधसे परमात्मने ।

विश्वाय विश्वबीजाय जगदानंदहेतवे

॥१३॥

ओंकारस्त्वं वषट्कारस्सर्वारंभप्रवर्तकः ।

हंतकास्स्वधाकारो हव्यकव्यान्नभुक् सदा

॥१४॥

कृतः कथं यज्ञभंगस्त्वया धर्मपरायण।

ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो

॥१५॥

ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः ।

शरण्योसि सदानंत्यः सर्वेषां प्राणिनां प्रभो

॥१६॥

नमस्ते भगवन् रुद्र भास्करामिततेजसे ।

नमो भवाय देवाय रसायांबुमयाय ते

॥१७॥

शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।

रुद्रायाग्निस्वरूपाय महातेजस्विने नमः

॥१८॥

ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ।

पशूनांपतये तुभ्यं यजमानाय वेधसे

॥१९॥

भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।

महादेवाय सोमाय प्रवृत्ताय नमोस्तु ते

॥२०॥

उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने ।

नमस्ते कालकालाय नमस्ते रुद्र मन्यवे

॥२१॥

नमश्शिवाय भीमाय शंकराय शिवाय ते ।

उग्रोसि सर्व भूतानां नियंता यच्छिवोसि नः

॥२२॥

मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने ।

अम्बिकापतये तुभ्यमुमायाः पतये नमः

॥२३॥

शर्वाय सर्वरूपाय पुरुषाय परात्मने ।

सदसद्व्यक्तिहीनाय महतः कारणाय ते

॥२४॥

जाताय बहुधा लोके प्रभूताय नमोनमः ।

नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे

॥२५॥

मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ।

महीयसे नमस्तुभ्यं हंत्रे देवारिणां सदा

॥२६॥

ताराय च सुताराय तरुणाय सुतेजसे ।

हरिकेशाय देवाय महेशाय नमोनमः

॥२७॥

देवानां शंभवे तुभ्यं विभवे परमात्मने ।

परमाय नमस्तुभ्यं कालकंठाय ते नमः

॥२८॥

हिरण्याय परेशाय हिरण्यवपुषे नमः ।

भीमाय भीमरूपाय भीमकर्मरताय च

॥२९॥

भस्मदिग्धशरीराय रुद्राक्षाभरणाय च ।

नमो ह्रस्वाय दीर्घाय वामनाय नमोस्तु ते

॥३०॥

दूरेवधाय ते देवा ग्रेवधाय नमोनमः ।

धन्विने शूलिने तुभ्यं गदिने हलिने नमः

॥३१॥

नानायुधधरायैव दैत्यदानवनाशिने ।

सद्याय सद्यरूपाय सद्योजाताय वै नमः

॥३२॥

वामाय वामरूपाय वामनेत्राय ते नमः ।

अघोराय परेशाय विकटाय नमोनमः

॥३३॥

तत्पुरुषाय नाथाय पुराणपुरुषाय च ।

पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने

॥३४॥

ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ।

ब्रह्मणे ब्रह्मरूपाय नमस्साक्षात्परात्मने

॥३५॥

उग्रोसि सर्वदुष्टानां नियंतासि शिवोसि नः ।

कालकूटाशिने तुभ्यं देवाद्यवन कारिणे

॥३६॥

वीराय वीरभद्राय रक्षद्वीराय शूलिने ।

महादेवाय महते पशूनां पतये नमः

॥३७॥

वीरात्मने सुविद्याय श्रीकंठाय पिनाकिने ।

नमोनंताय सूक्ष्माय नमस्ते मृत्युमन्यवे

॥३८॥

पराय परमेशाय परात्परतराय ते ।

परात्पराय विभवे नमस्ते विश्वमूर्तये

॥३९॥

नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ।

भैरवाय शरण्याय त्र्यंबकाय विहारिणे

॥४०॥

मृत्युंजयाय शोकाय त्रिगुणाय गुणात्मने ।

चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे

॥४१॥

भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ।

परब्रह्म निर्विकारी चिदानंदःप्रकाशवान्

॥४२॥

ब्रह्मविष्ण्विंद्रचन्द्रादिप्रमुखास्सकलास्सुराः ।

मुनयश्चापरे त्वत्तस्संप्रसूता महेश्वर

॥४३॥

यतो बिभर्षि सकलं विभज्य तनुमष्टधा ।

अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः

॥४४॥

त्वद्भयाद्वाति वातोयं दहत्यग्निर्भयात्तव ।

सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः

॥४५॥

दयासिन्धो महेशान प्रसीद परमेश्वर ।

रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः

॥४६॥

रक्षिताः सततं नाथ त्वयैव करुणानिधे ।

नानापद्भ्यो वयं शंभो तथैवाद्य प्रपाहि नः

॥४७॥

यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत् ।

असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः

॥४८॥

भगोक्षिणी प्रपद्येत यजमानश्च जीवतु ।

पूष्णो दंताश्च रोहंतु भृगोः श्मश्रूणि पूर्ववत्

॥४९॥

भवतानुग्रहीतानां देवादीनांश्च सर्वशः ।

आरोग्यं भग्नगात्राणां शंकर त्वायुधाश्मभिः

॥५०॥

पूर्णभागोस्तु ते नाथावशिष्टेऽध्वरकर्मणि ।

रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित्

॥५१॥

इत्युक्त्वा सप्रजेशश्च रमेशश्च कृतांजलिः ।

दंडवत्पतितो भूमौ क्षमापयितुमुद्यतः

॥५२॥

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥