मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ३

3
रुद्रसंहिता · सतीखण्डः · 3

कामशापानुग्रहः

ब्रह्मोवाच

ततस्ते मुनयः सर्वे तदाभिप्रायवेदिनः ।

चक्रुस्तदुचितं नाम मरीचिप्रमुखास्सुताः

॥१॥

मुखावलोकनादेव ज्ञात्वा वृत्तांतमन्यतः ।

दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः

॥२॥

ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ।

ऊचुस्संगतमेतस्मै पुरुषाय ममात्मजाः

॥३॥

ऋषय ऊचुः

यस्मात्प्रमथसे तत्त्वं जातोस्माकं यथा विधेः ।

तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि

॥४॥

जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते ।

अतस्त्वं कामनामापि ख्यातो भव मनोभव

॥५॥

मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ।

तस्मात्कंदर्पनामापि लोके ख्यातो भविष्यसि

॥६॥

त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ।

ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः

॥७॥

दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् ।

आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः

॥८॥

एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ।

संध्या नाम्नेति विख्याता सर्वलोके भविष्यति

॥९॥

ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वरांगना ।

अतस्संध्येति विख्याता क्रांताभा तुल्यमल्लिका

॥१०॥

ब्रह्मोवाच

कौसुमानि तथास्त्राणि पंचादाय मनोभवः ।

प्रच्छन्नरूपी तत्रैव चिंतयामास निश्चयम्

॥११॥

हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ।

मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि

॥१२॥

ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ।

तदिहैव करिष्यामि मुनीनां सन्निधौ विधे

॥१३॥

तिष्ठंति मुनयश्चात्र स्वयं चापि प्रजापतिः ।

एतेषां साक्षिभूतं मे भविष्यंत्यद्य निश्चयम्

॥१४॥

संध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ।

इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम्

॥१५॥

ब्रह्मोवाच

इति संचित्य मनसा निश्चित्य च मनोभवः ।

पुष्पजं पुष्पजातस्य योजयामास मार्गणैः

॥१६॥

आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।

चकार वलयाकारं कामो धन्विवरस्तदा

॥१७॥

संहिते तेन कोदंडे मारुताश्च सुगंधयः ।

ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः

॥१८॥

ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ।

पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः

॥१९॥

ततस्ते मुनयस्सर्वे मोहिताश्चाप्यहं मुने ।

सहितो मनसा कंचिद्विकारं प्रापुरादितः

॥२०॥

संध्यां सर्वे निरीक्षंतस्सविकारं मुहुर्मुहुः ।

आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी

॥२१॥

ततः सर्वान्स मदनो मोहयित्वा पुनःपुनः ।

यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा

॥२२॥

उदीरितेंद्रियो धाता वीक्ष्याहं स यदा च ताम् ।

तदैव चोनपंचाशद्भावा जाताश्शरीरतः

॥२३॥

सापि तैर्वीक्ष्यमाणाथ कंदर्पशरपातनात् ।

चक्रे मुहुर्मुहुर्भावान्कटाक्षावरणादिकान्

॥२४॥

निसर्गसुंदरी संध्या तान्भावान् मानसोद्भवान् ।

कुर्वंत्यतितरां रेजे स्वर्णदीव तनूर्मिभिः

॥२५॥

अथ भावयुतां संध्यां वीक्ष्याकार्षं प्रजापतिः ।

धर्माभिपूरित तनुरभिलाषमहं मुने

॥२६॥

ततस्ते मुनयस्सर्वे मरीच्यत्रिमुखा अपि ।

दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम्

॥२७॥

दृष्ट्वा तथाविधा दक्षमरीचिप्रमुखाश्च माम् ।

संध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा

॥२८॥

यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ।

कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा

॥२९॥

इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा ।

धर्मस्सस्मार शंभुं वै तदा धर्मावनं प्रभुम्

॥३०॥

संस्मरन्मनसा धर्मं शंकरं धर्मपालकम् ।

तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसंभवः

॥३१॥

धर्म उवाच

देवदेव महादेव धर्मपाल नमोस्तु ते ।

सृष्टिस्थितिविनाशानां कर्ता शंभो त्वमेव हि

॥३२॥

सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ।

रजस्सत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो

॥३३॥

निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ।

निर्गुणो निर्विकारी त्वं नानालीलाविशारदः

॥३४॥

रक्षरक्ष महादेव पापान्मां दुस्तरादितः ।

मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः

॥३५॥

ब्रह्मोवाच

इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ।

तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः

॥३६॥

जातो वियद्गतश्शंभुर्विधिं दृष्ट्वा तथाविधम् ।

मां दक्षाद्यांश्च मनसा जहासोपजहास च

॥३७॥

स साधुवादं तान् सर्वान्विहस्य च पुनः पुनः ।

उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः

॥३८॥

शिव उवाच

अहो ब्रह्मंस्तव कथं कामभावस्समुद्गतः ।

दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम्

॥३९॥

यथा माता च भगिनी भ्रातृपत्नी तथा सुता ।

एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता

॥४०॥

एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ।

कथं तु काममात्रेण स ते विस्मारितो विधे

॥४१॥

धैर्ये जागरितं ब्रह्मन्मनस्ते चतुरानन ।

कथं क्षुद्रेण कामेन रंतुं विगटितं विधे

॥४२॥

एकांतयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ।

कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः

॥४३॥

कथं कामोपि मंदात्मा प्राबल्यात्सोधुनैव हि ।

विकृतान्बाणैः कृतवानकालज्ञोल्पचेतनः

॥४४॥

धिक्तं श्रुतं सदा तस्य यस्य कांता मनोहरत् ।

धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम्

॥४५॥

ब्रह्मोवाच

इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च ।

व्रीडया द्विगुणीभूतस्स्वेदार्द्रस्त्वभवं क्षणात्

॥४६॥

ततो निगृह्यैंद्रियकं विकारं चात्यजं मुने ।

जिघृक्षुरपि तद्भीत्या तां संध्यां कामरूपिणीम्

॥४७॥

मच्छरीरात्तु घर्मांभो यत्पपात द्विजोत्तम ।

धर्मांभो अग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः

॥४८॥

भिन्नांजननिभास्सर्वे फुल्लराजीवलोचनाः ।

नितांतयतयः पुण्यास्संसारविमुखाः परे

॥४९॥

सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिता ।

षडशीतिसहस्राणि तथा बर्हिषदो मुने

॥५०॥

घर्मांभः पतितं भूमौ तदा दक्षशरीरतः ।

समस्तगुणसंपन्ना तस्माज्जाता वरांगना

॥५१॥

तन्वंगी सममध्या च तनुरोमावली श्रुता ।

मृद्वंगी चारुदशना नवकांचनसुप्रभा

॥५२॥

सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ।

नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी

॥५३॥

मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः ।

ऋते क्रतुं वसिष्ठं च पुलस्त्यांगिरसौ तथा

॥५४॥

क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ।

तेभ्यः पितृगणा जाता अपरे मुनिसत्तम

॥५५॥

सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ।

हविष्मंतस्तु तास्सर्वे कव्यवाहाः प्रकीर्तिताः

॥५६॥

क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ।

आज्यपाख्याः पुलस्त्यस्य हविष्मंतोंगिरस्सुताः

॥५७॥

जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ ।

लोकानां पितृवर्गेषु कव्यवाह स समंततः

॥५८॥

संध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ।

निर्दोषा शंभुसंदृष्टा धर्मकर्मपरायणा

॥५९॥

एतस्मिन्नंतरे शम्भुरनुगृह्याखिलान्द्विजान् ।

धर्मं संरक्ष्य विधिवदंतर्धानं गतो द्रुतम्

॥६०॥

अथ शंकरवाक्येन लज्जितोहं पितामहः ।

कंदर्प्पायाकोपिंत हि भ्रुकुटीकुटिलाननः

॥६१॥

दृष्ट्वा मुखमभिप्रायं विदित्वा सोपि मन्मथः ।

स्वबाणान्संजहाराशु भीतः पशुपतेर्मुने

॥६२॥

ततः कोपसमायुक्तः पद्मयोनिरहं मुने ।

अज्वलं चातिबलवान् दिधक्षुरिव पावकः

॥६३॥

भवनेत्राग्निनिर्दग्धः कंदर्पो दर्पमोहितः ।

भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम्

॥६४॥

इति वेधास्त्वहं काममक्षयं द्विजसत्तम ।

समक्षं पितृसंघस्य मुनीनां च यतात्मनाम्

॥६५॥

इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ।

प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम्

॥६६॥

ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने ।

शृण्वतां पितृसंघानां संध्यायाश्च विगर्वधीः

॥६७॥

काम उवाच

किमर्थं भवता ब्रह्मञ् शप्तोहमिति दारुणम् ।

अनागास्तव लोकेश न्याय्यमार्गानुसारिणः

॥६८॥

त्वया चोक्तं नु मत्कर्म यत्तद्ब्रह्मन् कृतं मया ।

तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया

॥६९॥

अहं विष्णुस्तथा शंभुः सर्वे त्वच्छ रगोचराः ।

इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम्

॥७०॥

नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ।

दारुणः समयश्चैव शापो देव जगत्पते

॥७१॥

ब्रह्मोवाच

इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ।

प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः

॥७२॥

ब्रह्मोवाच

आत्मजा मम संध्येयं यस्मादेतत्स कामतः ।

लक्ष्यीकृतोहं भवता ततश्शापो मया कृतः

॥७३॥

अधुना शांतरोषोहं त्वां वदामि मनोभव ।

शृणुष्व गतसंदेहस्सुखी भव भयं त्यज

॥७४॥

त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ।

तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि

॥७५॥

यदा करिष्यति हरोंजसा दारपरिग्रहम् ।

तदा स एव भवतश्शरीरं प्रापयिष्यति

॥७६॥

ब्रह्मोवाच

एवमुक्त्वाथ मदनमहं लोकपितामहः ।

अंतर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम्

॥७७॥

इत्येवं मे वचश्श्रुत्वा मदनस्तेपि मानसाः ।

संबभूवुस्सुतास्सर्वे सुखिनोऽरं गृहं गताः

॥७८॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामशापानुग्रहो नाम तृतीयोऽध्यायः ॥ ३ ॥