मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय १४

3
रुद्रसंहिता · सतीखण्डः · 14

बाललीलावर्णनम्

ब्रह्मोवाच

एतस्मिन्नन्तरे देवमुने लोकपितामह ।

तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम्

॥१॥

असांत्वयमहं दक्षं पूर्ववत्सुविचक्षणः ।

अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन्

॥२॥

स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम् ।

समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह

॥३॥

ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ।

जनयामास दुहितॄस्सुभगाः षष्टिसंमिताः

॥४॥

तासां विवाहकृतवान्धर्मादिभिरतंद्रितः ।

तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर

॥५॥

ददौ दश सुता दक्षो धर्माय विधिवन्मुने ।

त्रयोदश कश्यपाय मुनये त्रिनवेंदवे

॥६॥

भूतांगिरः कृशाश्वेभ्यो द्वेद्वे पुत्री प्रदत्तवान् ।

तार्क्ष्याय चापरः कन्या प्रसूतिप्रसवैर्यतः

॥७॥

त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात्

॥८॥

केचिद्वदंति तां ज्येष्ठां मध्यमां चापरे शिवाम् ।

सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत

॥९॥

अनंतरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ।

दक्षो दधौ सुप्रीत्मा तां मनसा जगदम्बिकाम्

॥१०॥

अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ।

भूयोभूयो नमस्कृत्य सांजलिर्विनयान्वितः

॥११॥

सन्तुष्टा सा तदा देवी विचारं मनसीति च ।

चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये

॥१२॥

अथ सोवास मनसि दक्षस्य जगदम्बिका ।

विललास तदातीव स दक्षो मुनिसत्तम

॥१३॥

सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा ।

दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता

॥१४॥

आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै

॥१५॥

विरेजे वीरिणी तात हृष्टचित्ताधिका च सा ।

शिवावासप्रभावात्तु महामंगल रूपिणी

॥१६॥

कुलस्य संपदश्चैव श्रुतेश्चित्तसमुन्नतेः ।

व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः

॥१७॥

उत्सवोतीव संजातस्तदा तेषु च कर्मसु ।

वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः

॥१८॥

अथ तस्मिन्नवसरे सर्वे हर्यादयस्सुराः ।

ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः

॥१९॥

तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ।

लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः

॥२०॥

कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ।

दक्षप्रजापतेश्चैव वीरिण्यास्स्वगृहं ययुः

॥२१॥

गतेषु नवमासेषु कारयित्वा च लौकिकीम् ।

गतिं शिवा च पूर्णे सा दशमे मासि नारद

॥२२॥

आविर्बभूव पुरतो मातुस्सद्यस्तदा मुने ।

मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके

॥२३॥

तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ।

सैव देवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम्

॥२४॥

तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ।

दिशश्शांता द्रुतं तस्यां जातायां च मुनीश्वर

॥२५॥

अवादयंत त्रिदशाश्शुभवाद्यानि खे गताः ।

जज्ज्वलुश्चाग्नयश्शांताः सर्वमासीत्सुमंगलम्

॥२६॥

वीरिणोसंभवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् ।

नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः

॥२७॥

दक्ष उवाच

महेशानि नमस्तुभ्यं जगदम्बे सनातनि ।

कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि

॥२८॥

शिवा शांता महामाया योगनिद्रा जगन्मयी ।

या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम्

॥२९॥

यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ।

तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम्

॥३०॥

यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् ।

तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम्

॥३१॥

यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत् ।

तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम्

॥३२॥

रजस्सत्त्वतमोरूपां सर्वकार्यकरीं सदा ।

त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम्

॥३३॥

यस्त्वां विचिंतयेद्देवीं विद्याविद्यात्मिकां पराम् ।

तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता

॥३४॥

यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् ।

तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका

॥३५॥

ये स्तुवंति जगन्मातर्भवानीमंबिकेति च ।

जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति

॥३६॥

ब्रह्मोवाच

इति स्तुता जगन्माता शिवा दक्षेण धीमता ।

तथोवाच तदा दक्षं यथा माता शृणोति न

॥३७॥

सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत् ।

नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी

॥३८॥

देव्युवाच

अहमाराधिता पूर्वं सुतार्थं ते प्रजापते ।

ईप्सितं तव सिद्धं तु तपो धारय संप्रति

॥३९॥

ब्रह्मोवाच

एवमुक्त्वा तदा देवी दक्षं च निजमायया ।

आस्थाय शैशवं भावं जनन्यंते रुरोद सा

॥४०॥

अथ तद्रोदनं श्रुत्वा स्त्रियो वाक्यं ससंभ्रमाः ।

आगतास्तत्र सुप्रीत्या दास्योपि च ससंभ्रमाः

॥४१॥

दृष्ट्वासिक्नीसुतारूपं ननन्दुस्सर्वयोषितः ।

सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा

॥४२॥

उत्सवश्च महानासीद्गानवाद्यपुरस्सरम् ।

दक्षोसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम्

॥४३॥

दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा ।

दानं ददौ द्विजातिभ्योन्येभ्यश्च द्रविणं तथा

॥४४॥

बभूव सर्वतो गानं नर्तनं च यथोचितम् ।

नेदुर्वाद्यानि बहुशस्सुमंगलपुरस्सरम्

॥४५॥

अथ हर्यादयो देवास्सर्वे सानुचरास्तदा ।

मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि

॥४६॥

दृष्ट्वा दक्षसुतामंबां जगतः परमेश्वरीम् ।

नेमुः सविनयास्सर्वे तुष्टुवुश्च शुभैस्तवैः

॥४७॥

ऊचुस्सर्वे प्रमुदिता गिरं जयजयात्मिकाम् ।

प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः

॥४८॥

तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया ।

प्रशस्तायास्सर्वगुणसत्त्वादपि मुदान्वितः

॥४९॥

नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः ।

महामंगलदान्येव दुःखघ्नानि विशेषतः

॥५०॥

दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि ।

मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः

॥५१॥

अथ विष्ण्वादयस्सर्वे सुप्रशस्याजनंदनम् ।

प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम्

॥५२॥

अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् ।

शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ

॥५३॥

पालिता साथ वीरिण्या दक्षेण च महात्मना ।

ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम्

॥५४॥

तस्यां तु सद्गुणास्सर्वे विविशुर्द्विजसत्तम ।

शैशवेपि यथा चन्द्रे कलास्सर्वा मनोहराः

॥५५॥

आचरन्निजभावेन सखीमध्यगता यदा ।

तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः

॥५६॥

यदा जगौ सुगीतानि शिवा बाल्योचितानि सा ।

तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम्

॥५७॥

ववृधेतीव दंपत्योः प्रत्यहं करुणातुला ।

तस्या बाल्येपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः

॥५८॥

सर्वबालागुणा क्रांतां सदा स्वालयकारिणीम् ।

तोषयामास पितरौ नित्यंनित्यं मुहुर्मुहुः

॥५९॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सती खण्डे सतीजन्म बाललीलावर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥