प्रार्थनावर्णनम्
ब्रह्मोवाच
इति स्तुतिं च हर्यादिकृतामाकर्ण्य शंकरः ।
बभूवातिप्रसन्नो हि विजहास च सूतिकृत्
॥१॥ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ संगतौ हरः ।
यथोचितं समाभाष्य पप्रच्छागमनं तयोः
॥२॥रुद्र उवाच
हहर हावध देवा मुनयश्चाद्य निर्भयाः ।
निजागमनहेतुं हि कथयस्व सुतत्त्वतः
॥३॥किमर्थमागता यूयं किं कार्यं चेह विद्यते ।
तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः
॥४॥ब्रह्मोवाच
इति पृष्टे हरेणाहं सर्वलोकपितामहः ।
मुनेऽवोचं महादेवं विष्णुना परिचोदितः
॥५॥देवदेव महादेव करुणासागर प्रभो ।
यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः
॥६॥विशेषतस्तवैवार्थमागता वृपभध्वज ।
सहार्थिनस्सदायोग्यमन्यथा न जगद्भवेत्
॥७॥केचिद्भविष्यंत्यसुरा मम वध्या महेश्वर ।
हरेर्वध्यास्तथा केचिद्भवंतश्चापि केचन
॥८॥केचित्त्वद्वीर्यजातस्य तनयस्य महाप्रभो ।
मायावध्याः प्रभो केचिद्भविष्यंत्यसुरास्सदा
॥९॥तवैव कृपया शंभोस्सुराणां सुखमुत्तमम् ।
नाशयित्वाऽसुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ।
योगयुक्ते त्वयि सदा राग द्वेषविवर्जिते ।
दयापात्रैकनिरते न वध्या ह्यथवा तव ।
अराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ।
अतश्च भविता युक्तं नित्यंनित्यं वृषध्वज
॥१२॥सृष्टिस्थित्यंतकर्माणि न कार्याणि यदा तदा ।
शरीरभेदश्चास्माकं मायायाश्च न युज्यते ।
एकस्वरूपा हि वयं भिन्नाः कार्यस्य भेदतः ।
कार्यभेदो न सिद्धश्चेद्रूपभेदाऽप्रयोजनः
॥१४॥एक एव त्रिधा भिन्नः परमात्मा महेश्वरः ।
मायास्वाकारणादेव स्वतंत्रो लीलया प्रभुः
॥१५॥वामाङ्गजो हरिस्तस्य दक्षिणांगभवो ह्यहम् ।
शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुश्शिवः
॥१६॥इत्थं वयं त्रिधा भूताः प्रभाभिन्नस्वरूपिणः ।
शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन
॥१७॥अहं विष्णुश्च सस्त्रीकौ संजातौ कार्यहेतुतः ।
लोककार्यकरौ प्रीत्या तव शासनतः प्रभो
॥१८॥तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे ।
परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम्
॥१९॥अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया ।
यन्नौ पुरःपुरा प्रोक्तं त्वयैव शिवरूपिणा
॥२०॥मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ।
प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः
॥२१॥सृष्टिकर्ताऽभवद्ब्रह्मा हरिः पालनकारकः ।
लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः
॥२२॥स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् ।
इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम्
॥२३॥निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः ।
पालको लयहेतुस्त्वमाविर्भूतस्स्वयं शिवः
॥२४॥त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि ।
लोककार्यरतो तस्मादेकां गृह्णीष्व कामिनीम्
॥२५॥यथा पद्मालया विष्णोस्सावित्री च यथा मम ।
तथा सहचरीं शंभो कांतां गृह्णीष्व संप्रति
॥२६॥ब्रह्मोवाच
इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः ।
स मां जगाद लोकेशः स्मेराननमुखो हरः
॥२७॥ईश्वर उवाच
हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा ।
दृष्ट्वा त्वां च ममानंदो भवत्यतितरां खलु
॥२८॥युवां सुरविशिष्टौ हि त्रिभव स्वामिनौ किल ।
कथनं वां गरिष्ठेति भवकार्यरतात्मनोः
॥२९॥उचितं न सुरश्रेष्ठौ विवाहकरणं मम ।
तपोरतविरक्तस्य सदा विदितयोगिनः
॥३०॥यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरंजनः ।
अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः
॥३१॥अविकारी ह्यभोगी च सदाशुचिरमंगलः ।
तस्य प्रयोजनं लोके कामिन्या किं वदाधुना
॥३२॥केवलं योगलग्नस्य ममानंदस्सदास्ति वै ।
ज्ञानहीनस्तु पुरुषो मनुते बहु कामकम्
॥३३॥विवाहकरणं लोके विज्ञेयं परबंधनम् ।
तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम्
॥३४॥न स्वार्थं मे प्रवृत्तिर्हि सम्यक्स्वार्थविचिंतनात् ।
तथापि तत्करिष्यामि भवदुक्तं जगद्धितम्
॥३५॥मत्त्वा वचो गरिष्ठं वा नियोक्तिपरिपूर्त्तये ।
करिष्यामि विवाहं वै भक्तवश्यस्सदा ह्यहम्
॥३६॥परंतु यादृशीं कांतां ग्रहीष्यामि तथापणम् ।
तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम
॥३७॥या मे तेजस्समर्था हि ग्रहीतुं स्याद्विभागशः ।
तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम्
॥३८॥योगयुक्ते मयि तथा योगिन्येव भविष्यति ।
कामासक्ते मयि तथा कामिन्येव भविष्यति
॥३९॥यमक्षरं वेदविदो निगदंति मनीषिणः ।
ज्योतीरूपं शिवं ते च चिंतयिष्ये सनातनम्
॥४०॥तच्चिंतायां यदा सक्तो ब्रह्मन् गच्छामि भाविनीम् ।
तत्र या विघ्नजननी न भवित्री हतास्तु मे
॥४१॥त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः ।
अंशभूता महाभागा योग्यं तदनुचिंतनम्
॥४२॥तच्चिंतया विनोद्वाहं स्थास्यामि कमलासन ।
तस्माज्जायां प्रादिश त्वं मत्कर्मानुगतां सदा
॥४३॥तत्राप्येकं पणं मे त्वं वृणु ब्रह्मँश्च मां प्रति ।
अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति
॥४४॥ब्रह्मोवाच
इति तस्य वचश्श्रुत्वाहं स विष्णुर्हरस्य च ।
सस्मितं मोदितमनोऽवोचं चेति विनम्रकः
॥४५॥शृणु नाथ महेशान मार्गिता यादृशी त्वया ।
निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो
॥४६॥उमा सा भिन्नरूपेण संजाता कार्यसाधिनी ।
सरस्वती तथा लक्ष्मीर्द्विधा रूपा पुरा प्रभो
॥४७॥पाद्मा कांताऽभवद्विष्णोस्तथा मम सरस्वती ।
तृतीयरूपा सा नाभूल्लोककार्यहितैषिणी
॥४८॥दक्षस्य तनया याभूत्सती नाम्ना तु सा विभो ।
सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी
॥४९॥सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ।
त्वां पतिं प्राप्तुकामा वै महातेजोवती सती
॥५०॥दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ।
तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम्
॥५१॥हरेर्मम च देवानामियं वाञ्छास्ति शंकर ।
परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात्
॥५२॥मङ्गलं परमं भूयात्त्रिलोकेषु सुखावहम् ।
सर्वज्वरो विनश्येद्वै सर्वेषां नात्र संशयः
॥५३॥अथवास्मद्वचश्शेषे वदंत मधुसूदनः ।
लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः
॥५४॥विष्णुरुवाच
देवदेव महादेव करुणाकर शंकर ।
यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः
॥५५॥तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि ।
सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्यताम्
॥५६॥ब्रह्मोवाच
इत्युक्त्वा भगवान् विष्णुस्तूष्णीमास मुने सुधीः ।
तथा स्तुतिं विहस्याह स प्रभुर्भक्तवत्सलः
॥५७॥ततस्त्वावां च संप्राप्य चाज्ञां स मुनिभिस्सुरैः ।
अगच्छावस्वेष्टदेशं सस्त्रीकौ परहर्षितौ
॥५८॥इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुब्रह्मकृतशिव प्रार्थनावर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥