मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय २१

3
रुद्रसंहिता · सतीखण्डः · 21

समीचीनं वचस्तात सर्वज्ञस्य तवाऽनघ

नारद उवाच

समीचीनं वचस्तात सर्वज्ञस्य तवाऽनघ ।

महाद्भुतं श्रुतं नो वै चरितं शिवयोश्शुभम्

॥१॥

विवाहश्च श्रुतस्सम्यक् सर्वमोहापहारकः ।

परमज्ञानसंपन्नो मंगलालय उत्तमः

॥२॥

भूय एव विवित्सा मे चरितं शिवयोश्शुभम् ।

तद्वर्णय महाप्राज्ञ कृपां कृत्वाऽतुलामरम्

॥३॥

ब्रह्मोवाच

सम्यक्कारुणिकस्यैव मुने ते विचिकित्सितम् ।

यदहं नोदितस्सौम्य शिवलीलानुवर्णने

॥४॥

विवाह्य दक्षजां देवीं सतीं त्रैलोक्यमातरम् ।

गत्वा स्वधाम सुप्रीत्या यदकार्षीन्निबोध मे

॥५॥

ततो हरस्स स्वगणस्स्वस्थानं प्राप्य मोदनम ।

देवर्षे तत्र वृषभादवातरदतिप्रियात्

॥६॥

यथायोग्यं निजस्थानं प्रविश्य स सतीसखः ।

मुमुदेऽतीव देवर्षे भवाचारकरश्शिवः

॥७॥

ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् ।

स्वीयानिर्यापयामास नद्यादीन् गिरिकंदरात्

॥८॥

उवाच चैतास्तान् सर्वान्नंद्यादीनतिसूनृतम् ।

लौकिकीं रीतिमाश्रित्य करुणासागरः प्रभुः

॥९॥

महेश उवाच

यदाहं च स्मराम्यत्र स्मरणादरमानसाः ।

समागमिष्यथ तदा मत्पार्श्वं मे गणा द्रुतम्

॥१०॥

इत्युक्ते वामदेवेन नद्याद्यास्स्वगणाश्च ते ।

महावेगा महावीरा नानास्थानेषु संययुः

॥११॥

ईश्वरोपि तया सार्द्धं तेषु यातेषु विभ्रमी ।

दाक्षायण्या समं रेमे रहस्ये मुदितो भृशम्

॥१२॥

कदाचिद्वन्य पुष्पाणि समाहृत्य मनोहराम् ।

मालां विधाय सत्यास्तु हारस्थाने स योजयत्

॥१३॥

कदाचिद्दर्पणे चैव वीक्षतीमात्मनस्सतीम् ।

अनुगम्य हरो वक्त्रम् स्वीयमप्यवलोकयत

॥१४॥

कदाचित्कुंडलं तस्या उल्लास्योल्लास्य संगतः ।

बध्नाति मोचयत्येव सा स्वयं मार्जयत्यपि

॥१५॥

सरागौ चरणावस्याः पावकेनोज्ज्वलेन च ।

निसर्गरक्तौ कुरुते पूर्णरागौ वृषध्वजः

॥१६॥

उच्चैरपि यदाख्येयमन्येषां पुरतो बहु ।

तत कर्णे कथयत्त्यस्याहरो द्रष्टुं तदाननम्

॥१७॥

न दूरमपि गन्तासौ समागत्य प्रयत्नतः ।

अनुबध्नाति नामाक्षी पृष्ठदेशेन्यमानसाम्

॥१८॥

अंतर्हितस्तु तत्रैव मायया वृषभध्वजः ।

तामालिलिंग भीत्या स्वं चकिता व्याकुलाऽभवत्

॥१९॥

सौवर्णपद्मकलिकातुल्ये तस्या कुचद्वये ।

चकार भ्रमराकारं मृगनाभिविशेषकम्

॥२०॥

हारमस्याः कुचयुगाद्वियोज्य सहसा हरः ।

न्ययोजयच्च तत्रैव स्वकरस्पर्शनं मुहुः

॥२१॥

अंगदान्वलयानूर्मान्विश्लेष्य च पुनः पुनः ।

तत्स्थानात्पुनरेवासौ तत्स्थाने प्रत्ययोजयत्

॥२२॥

कालिकेति समायाति सवर्णा ते सखी त्विमाम् ।

यास्यत्वस्यास्तथेक्षंत्याः प्रोत्तुंगौ साहसं कुचौ

॥२३॥

कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः ।

चकार नर्म शर्माणि तथाकृत्प्रियया मुदा

॥२४॥

आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शंकरः ।

सर्वांगेषु करोति स्म पुष्पाभरणमादरात्

॥२५॥

गिरिकुंजेषु रम्येषु सत्या सह महेश्वरः ।

विजहार समस्तेषु प्रियया भक्तवत्सलः

॥२६॥

तया विना स्म नो याति नास्थितो न स्म चेष्टते ।

तया विना क्षममपि शर्म लेभे न शंकरः

॥२७॥

विहृत्य सुचिरं कालं कैलासगिरिकुंजरे ।

अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरन्

॥२८॥

तस्मिन्प्रविष्टे कामे तु वसंतश्शंकरांतिके ।

वितस्तार निजं भावं हार्दं विज्ञाय यत्प्रभो

॥२९॥

सर्वे च पुष्पिता वृक्षा लताश्चान्याश्च पुष्पिताः।

अंभांसि फुल्लपद्मानि पद्मास्सभ्रमरास्तथा

॥३०॥

प्रविष्टे तत्र सदृतौ ववौ स मलयो मरुत् ।

सुगंधिगंधपुष्पेण मोदकश्च सुगंधियुक्

॥३१॥

संध्यार्द्रचन्द्रसंकाशाः पलाशाश्च विरेजिरे ।

कामास्त्रवत्सुमनसः प्रमोदात्पादपाधरः

॥३२॥

बभुः पंकजपुष्पाणि सरस्सु संकलाञ्जनान् ।

संमोहयितुमुद्युक्ता सुमुखी वायुदेवता

॥३३॥

नागकेशरवृक्षाश्च स्वर्णवर्णैः प्रसूनकैः ।

बभुर्मदनकेत्वाभा मनोज्ञाश्शंकरांतिके

॥३४॥

लवंगवल्लीसुरभिगंधेनोद्वास्य मारुतम् ।

मोहयामास चेतांसि भृशं कामिजने पुरा

॥३५॥

चारु पावकचर्चित्सु सुस्वराश्चूतशालिनः ।

बभुर्मदनबाणौघपर्यंकमदनावृताः

॥३६॥

अंभांसि मलहीनानि रेजुः फुल्लकुशाशयाः ।

मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमम्

॥३७॥

तुषारास्सूर्यरश्मीनां संगमादगमन् बहिः ।

प्रमत्वानीक्ष्यतेक्षाश्च सलिलीहृदयास्तदा

॥३८॥

प्रसन्नास्सह चन्द्रेण ननिषारास्तदाऽभवन् ।

विभावर्यः प्रियेणैवं कामिन्यस्तु मनोहराः

॥३९॥

तस्मिन्काले महादेवस्सह सत्या धरोत्तमे ।

रेमे स सुचिरं छन्दं निकुंजेषु नदीषु च

॥४०॥

तथा तेन समं रेजे तदा दाक्षायिणि मुने ।

यथा हरः क्षणमपि शांतिमाप तया विना

॥४१॥

संभोगविषये देवी सती तस्य मनः प्रिया ।

विशतीव हरस्यांगे पाययन्निव तद्रसम्

॥४२॥

तस्या कुसुममालाभिर्भूषयन्सकलां तनुम् ।

स्वहस्तरचिताभिस्तु नवशर्माकरोच्च सः

॥४३॥

आलापैर्वीक्षितैर्हास्यैस्तथा संभाषणैर्हरः ।

तस्यादिदेश गिरिजां सपतीवात्मसंविदम्

॥४४॥

तद्वक्त्रचंद्र पीयूषपानस्थिरतनुर्हरः ।

नानावैशेषिकीं तन्वीमवस्थां स कदाचन

॥४५॥

तद्वक्त्राम्बुजवासेन तत्सौन्दर्य्यैश्च नर्मभिः ।

गुणैरिव महादंती बद्धो नान्यविचेष्टितः

॥४६॥

इति हिमगिरिकुंजप्रस्थभागे दरीषु प्रतिदिनमभिरेमे दक्षपुत्र्या महेशः ।

क्रतुभुजपरिमाणैः क्रीडतस्तस्य जाता दश दश च सुरर्षे वत्सराः पंच चान्ये

॥४७॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां द्वितीये सतीखंडे सतीशिवक्रीडावर्णनं नामैकविंशोध्यायः ॥ २१ ॥