दुश्शकुनदर्शनम्
ब्रह्मोवाच
एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ।
दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि
॥१॥उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ।
त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः
॥२॥दक्षवामाक्षिबाहूरुविस्पंदस्समजायत ।
नानाकष्टप्रदस्तात सर्वथाऽशुभसूचकः
॥३॥भूकंपस्समभूत्तत्र दक्षयागस्थले तदा ।
दक्षोपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च
॥४॥दिशश्चासन्सुमलिनाः कर्बुरोभूद्दिवाकरः ।
परिवेषसहस्रेण संक्रांतश्च भयंकरः
॥५॥नक्षत्राणि पतंति स्म विद्युदग्निप्रभाणि च ।
नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा
॥६॥गृध्रा दक्ष शिरः स्पृष्ट्वा समुद्भूताः सहस्रशः ।
आसीद्गृध्रपक्षच्छायैस्सच्छायो यागमंडपः
॥७॥ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा ।
उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसंभवा
॥८॥खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः ।
शलभाश्च समुद्भूता विवर्तानिलकंपिताः
॥९॥रीतैश्च पवनै रूर्द्ध्वं स दक्षाध्वरमंडपः ।
दैवान्वितेन दक्षेण यः कृतो नूतनोद्भुतः
॥१०॥वेमुर्दक्षादयस्सर्वे तदा शोणितमद्भुतम् ।
वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः
॥११॥सकंपाश्च बभूवुस्ते दीपा वातहता इव ।
दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव
॥१२॥तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ।
प्रातस्तुषारवर्षीणि पद्मानीव वनांतरे
॥१३॥दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ।
निशायां कमलाश्चैव कुमुदानीव संगवे
॥१४॥असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ।
दिग्दाहोभूद्विशेषेण त्रासयन् सकलाञ्जनान्
॥१५॥एवं विधान्यरिष्टानि ददृशुर्विबुधादयः ।
भयमापेदिरेऽत्यंतं मुने विष्ण्वादिकास्तदा
॥१६॥भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् ।
तरवस्तीरसंजाता नदीवेगहता इव
॥१७॥पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ।
कंदुका इव ते भूयः पतिताः पुनरुत्थिताः
॥१८॥ततस्ते तापसंतप्ता रुरुदुः कुररी इव ।
रोदनध्वनिसंक्रातोरुक्तिप्रत्युक्तिका इव
॥१९॥सवैकुंठास्ततस्सर्वे तदा कुंठितशक्तयः ।
स्वस्वोपकंठमाकंठं लुलुठुः कमठा इव
॥२०॥एतस्मिन्नंतरे तत्र संजाता चाशरीरवाक् ।
श्रावयत्यखिलान् देवान्दक्षं चैव विशेषतः
॥२१॥आकाशवाण्युवाच
धिक् जन्म तव दक्षाद्य महामूढोसि पापधीः ।
भविष्यति महद्दुःखमनिवार्यं हरोद्भवम्
॥२२॥हाहापि नोत्र ये मूढास्तव देवादयस्थिताः ।
तेषामपि महादुःखं भविष्यति न संशयः
॥२३॥ब्रह्मोवाच
तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च ।
दक्षः प्रापद्भयं चाति परे देवादयोपि ह
॥२४॥वेपमानस्तदा दक्षो विकलश्चाति चेतसि ।
अगच्छच्छरणं विष्णोः स्वप्रभोरिंदिरापतेः
॥२५॥सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः ।
अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम्
॥२६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सती खंडे दुश्शकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥