दक्षदुःखनिराकरणवर्णनम्
ब्रह्मोवाच
श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै ।
अनुनीतश्शंभुरासीत्प्रसन्नः परमेश्वरः
॥१॥आश्वास्य देवान् विष्ण्वादीन्विहस्य करुणानिधिः।
उवाच परमेशानः कुर्वन् परमनुग्रहम्
॥२॥श्रीमहादेव उवाच
शृणुतं सावधानेन मम वाक्यं सुरोत्तमौ ।
यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहम्
॥३॥नाघं तनौ तु बालानां वर्णमेवानुचिंतये ।
मम मायाभिभूतानां दंडस्तत्र धृतो मया
॥४॥दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित् ।
परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति
॥५॥परेषां क्लेदनं कर्म न कार्यं तत्कदाचन ।
परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति
॥६॥दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः ।
मित्रनेत्रेण संपश्येद्यज्ञभागं भगस्सुरः
॥७॥पूषाभिधस्सुरस्तातौ दद्भिर्यज्ञसुपिष्टभुक् ।
याजमानैर्भग्नदंतस्सत्यमेतन्मयोदितम्
॥८॥बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोध कृत् ।
देवाः प्रकृतिसर्वांगा ये म उच्छेदनं ददुः
॥९॥बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकौ ।
भवंत्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम्
॥१०॥ब्रह्मोवाच
इत्युक्त्वा परमेशानो विरराम दयान्वितः ।
चराचरपतिर्देवः सम्राट् वेदानुसारकृत्
॥११॥तदा सर्व सुराद्यास्ते श्रुत्वा शंकरभाषितम् ।
साधुसाध्विति संप्रोचुः परितुष्टाः सविष्ण्वजाः
॥१२॥ततश्शंभुं समामंत्र्य मया विष्णुस्सुरर्षिभिः ।
भूयस्तद्देवयजनं ययौ च परया मुदा
॥१३॥एवं तेषां प्रार्थनया विष्णुप्रभृतिभिस्सुरैः ।
ययौ कनखलं शंभुर्यज्ञवाटं प्रजापतेः
॥१४॥रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम् ।
प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः
॥१५॥स्वाहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती ।
तथान्ये ऋषयस्सर्वे पितरश्चाग्नयस्तथा
॥१६॥येऽन्ये च बहवस्तत्र यक्षगंधवर्राक्षसाः ।
त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे
॥१७॥यज्ञं तथाविधं दृष्ट्वा समाहूय गणाधिपम् ।
वीरभद्रं महावीरमुवाच प्रहसन् प्रभुः
॥१८॥वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम् ।
महान्दंडो धृतस्तात देवर्ष्यादिषु सत्वरम्
॥१९॥दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम् ।
यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम्
॥२०॥ब्रह्मोवाच
एवमुक्तश्शंकरेण वीरभद्रस्त्वरान्वितः ।
कबंधमानयित्वाग्रे तस्य शंभोरथाक्षिपत्
॥२१॥विशिरस्कं च तं दृष्ट्वा शंकरो लोकशंकरः ।
वीरभद्रमुवाचाग्रे विहसन्मुनिसत्तम
॥२२॥शिरः कुत्रेति तेनोक्ते वीरभद्रोऽब्रवीत्प्रभुः ।
मया शिरो हुतं चाग्नौ तदानीमेव शंकर
॥२३॥इति श्रुत्वा वचस्तस्य वीरभद्रस्य शंकरः ।
देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः
॥२४॥विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ।
मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम्
॥२५॥अथ प्रजापतेस्तस्य सवनीयपशोश्शिरः ।
बस्तस्य संदधुश्शंभोः कायेनारं सुशासनात्
॥२६॥संधीयमाने शिरसि शंभुसद्दृष्टिवीक्षितः ।
सद्यस्सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः
॥२७॥उत्थितश्चाग्रतश्शंभुं ददर्श करुणानिधिम् ।
दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः
॥२८॥पुरा हर महाद्वेषकलिलात्माभवद्धि सः ।
शिवावलोकनात्सद्यश्शरच्चन्द्र इवामलः
॥२९॥भवं स्तोतुमना सोथ नाशक्नोदनुरागतः ।
उत्कंठाविकलत्वाच्च संपरेतां सुतां स्मरन्
॥३०॥अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः ।
तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम्
॥३१॥दक्ष उवाच
नमामि देव वरदं वरेण्यं महेश्वरं ज्ञाननिधिं सनातनम् ।
नमामि देवाधिपतीश्वरं हरं सदासुखाढ्यं जगदेकबांधवम्
॥३२॥नमामि विश्वेश्वर विश्वरूपं पुरातनं ब्रह्मनिजात्मरूपम् ।
नमामि शर्वं भव भावभावं परात्परं शंकरमानतोमि
॥३३॥देवदेव महादेव कृपां कुरु नमोस्तु ते ।
अपराधं क्षमस्वाद्य मम शंभो कृपानिधे
॥३४॥अनुग्रहः कृतस्ते हि दंडव्याजेन शंकर ।
खलोहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते
॥३५॥अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः ।
विष्णुब्रह्मादिभिस्सेव्यो वेदवेद्यो महेश्वरः
॥३६॥साधूनां कल्पवृक्षस्त्वं दुष्टानां दंडधृक्सदा ।
स्वतंत्रः परमात्मा हि भक्ताभीष्टवरप्रदः
॥३७॥विद्यातपोव्रतधरानसृजः प्रथमं द्विजा ।
आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः
॥३८॥सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव ।
गृहीतदंडो दुष्टांस्तान् मर्यादापरिपालकः
॥३९॥मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः ।
अमरानतिदीनाशान् मदनुग्रहकारकः
॥४०॥स भवान् भगवान् शंभो दीनबंधो परात्परः ।
स्वकृतेन महार्हेण संतुष्टो भक्तवत्सल
॥४१॥ब्रह्मोवाच
इति स्तुत्वा महेशानं शंकरं लोकशंकरम् ।
प्रजापतिर्विनीतात्मा विरराम महाप्रभुम्
॥४२॥अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम् ।
बाष्पगद्गदया वाण्या सुप्रणम्य कृतांजलिः
॥४३॥विष्णुवाच
महादेव महेशान लोकानुग्रहकारक ।
परब्रह्म परात्मा त्वं दीनबंधो दयानिधे
॥४४॥सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभोः ।
अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम्
॥४५॥दक्षोयं मम भक्तस्त्वां यन्निनिंद खलः पुरा ।
तत् क्षंतव्यं महेशाद्य निर्विकारो यतो भवान्
॥४६॥कृतो मयापराधोपि तव शंकर मूढतः ।
त्वद्गणेन कृतं युद्धं वीरभद्रेण पक्षतः
॥४७॥त्वं मे स्वामी परब्रह्म दासोहं ते सदाशिव ।
पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः
॥४८॥ब्रह्मोवाच
देवदेव महादेव करुणासागर प्रभो ।
स्वतंत्रः परमात्मा त्वं परमेशो द्वयोव्ययः
॥४९॥मम पुत्रोपरि कृतो देवानुग्रह ईश्वर ।
स्वापमानमगणयन् दक्षयज्ञं समुद्धर
॥५०॥प्रसन्नो भव देवेश सर्वशापान्निराकुरु ।
सबोधः प्रेरकस्त्वं मे त्वमेवं विनिवारकः
॥५१॥इति स्तुत्वा महेशानं परमं च महामुने ।
कृतांजलिपुटो भूत्वा विनम्रीकृतमस्तकः
॥५२॥अथ शक्रादयो देवा लोकपालास्सुचेतसः ।
तुष्टुवुः शंकरं देवं प्रसन्नमुखपंकजम्
॥५३॥ततः प्रसन्नमनसः सर्वे देवास्तथा परे ।
सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शंकरं मुदा
॥५४॥तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा ।
प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक्
॥५५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ॥ ४२ ॥