कामविवाहवर्णनम्
नारद उवाच
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ।
अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता
॥१॥ततः किमभवत्तात चरितं तद्वदाधुना ।
अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम्
॥२॥ब्रह्मोवाच
शंभौ गते निजस्थाने वेधस्यंतर्हिते मयि ।
दक्ष प्राहाथ कंदर्पं संस्मरन् मम तद्वचः
॥३॥दक्ष उवाच
मद्देहजेयं कंदर्प सद्रूपगुणसंयुता ।
एनां गृह्णीष्व भार्यार्थं भवतस्सदृशीं गुणैः
॥४॥एषा तव महा तेजास्सर्वदा सहचारिणी ।
भविष्यति यथाकामं धर्मतो वशवर्तिनी
॥५॥ब्रह्मोवाच
इत्युक्त्वा प्रददौ तस्यै देहस्वेदांबुसम्भवाम् ।
कंदर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम्
॥६॥विवाह्य तां स्मरस्सोपि मुमोदातीव नारद ।
दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम्
॥७॥अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ।
आत्मा गुणेन विद्धोसौ मुमोह रतिरंजितः
॥८॥क्षणप्रदाऽभवत्कांता गौरी मृगदृशी मुदा ।
लोलापांग्यथ तस्यैव भार्या च सदृशी रतौ
॥९॥तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत् ।
उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम्
॥१०॥कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तम ।
आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम्
॥११॥तस्याः स्वभावसुरभिधीरश्वासानिलं तथा ।
आघ्राय मदनः श्रद्धां त्यक्तवान् मलयांतिके ।
पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् ।
न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः
॥१३॥सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम् ।
रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम्
॥१४॥दृढपीनोन्नतं तस्यास्तनमध्यं विलंबिनीम् ।
आनाभिप्रतलं मालां तन्वीं चन्द्रायितां शुभाम्
॥१५॥ज्यां पुष्पधनुषः कामः षट्पदावलिसंभ्रमाम् ।
विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते
॥१६॥गम्भीरनाभिरंध्रांतश्चतुःपार्श्वत्वगादृतम् ।
आननाब्जेऽक्षणद्वंद्वमारक्तकफलं यथा
॥१७॥मध्येन वपुषा निसर्गाष्टापदप्रभा ।
रुक्मवेदीव ददृशे कामेन रमणी हि सा
॥१८॥रंभास्तंभायतं स्निग्धं यदूरुयुगलं मृदु ।
निजशक्तिसमं कामो वीक्षांचक्रे मनोहरम्
॥१९॥आरक्तपार्ष्णिपादाग्रप्रांतभागं पदद्वयम् ।
अनुरागमिवाऽनेन मित्रं तस्या मनोभवः
॥२०॥तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ।
वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम्
॥२१॥तद्बाहुयुगुलं कांतं मृणालयुगलायतम् ।
मृदु स्निग्धं चिरं राजत्कांतिलोहप्रवालवत्
॥२२॥नीलनीरदसंकाशः केशपाशो मनोहरः ।
चमरीवाल भरवद्विभाति स्म स्मरप्रियः
॥२३॥एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्भवाम् ।
गंगामिव महादेवो जग्राहोत्फुल्ललोचनः
॥२४॥चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ।
भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम्
॥२५॥कटाक्षपाततुंगौघां स्वीयनेत्रोत्पलान्विताम् ।
तनुलोमांबुशैवालां मनोद्रुमविलासिनीम्
॥२६॥निम्ननाभिह्रदां क्षामां सर्वांगरमणीयिकाम् ।
सर्वलावण्यसदनां शोभमानां रमामिव
॥२७॥द्वादशाभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ।
मोहनीं सर्वलोकानां भासयंतीं दिशो दश
॥२८॥इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः ।
रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम्
॥२९॥नोवाच च तदा दक्षं कामो मोदभवात्ततः ।
विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः
॥३०॥तदा महोत्सवस्तात बभूव सुखवर्द्धनः ।
दक्षः प्रीततरश्चासीन्मुमुदे तनया मम
॥३१॥कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः ।
दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह
॥३२॥रराज चेतयासार्द्धं भिन्नश्चारुवचः स्मरः ।
जीमूत इव संध्यायां सौदामन्या मनोज्ञया
॥३३॥इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम् ।
रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या
॥३४॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्विती- स० कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥