मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ११

3
रुद्रसंहिता · सतीखण्डः · 11

ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर

नारद उवाच

ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर ।

गते विष्णौ किमभवदकार्षीत्किं विधे भवान्

॥१॥

ब्रह्मोवाच

विप्रनन्दनवर्य त्वं सावधानतया शृणु ।

विष्णौ गते भगवति यदकार्षमहं खलु

॥२॥

विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् ।

स्तौमि देव जगद्धात्रीं दुर्गां शम्भुप्रियां सदा

॥३॥

सर्वत्र व्यापिनीं नित्यां निरालंबां निराकुलाम् ।

त्रिदेवजननीं वंदे स्थूलस्थूलामरूपिणीम्

॥४॥

त्वं चितिः परमानंदा परमात्मस्वरूपिणी ।

प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः

॥५॥

ब्रह्मोवाच

एवं संस्तूयमाना सा योगनिद्रा मया मुने ।

आविर्बभूव प्रत्यक्षं देवर्षे चंडिका मम

॥६॥

स्निग्धांजनद्युतिश्चारुरूपा दिव्यचतुर्भुजा ।

सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा

॥७॥

शरदिंद्वानना शुभ्रचन्द्रभाला त्रिलोचना ।

सर्वावयवरम्या च कमलांघ्रिनखद्युतिः

॥८॥

समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि ।

भक्त्या विनततुंगांशः प्रास्तवं सुप्रणम्य वै

॥९॥

ब्रह्मोवाच

नमो नमस्ते जगतःप्रवृत्तिनिवृतिरूपे स्थितिसर्गरूपे ।

चराचराणां भवती सुशक्तिस्सनातनी सर्वविमोहनीति

॥१०॥

या श्रीः सदा केशवमूर्तिमाला विश्वंभरा या सकलं बिभर्ति ।

या त्वं पुरा सृष्टिकरी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्य

॥११॥

या योगिनां वै महिता मनोज्ञा सा त्वं न ते परमाणुसारे ।

यमादिपूते हृदि योगिनां या या योगिनां ध्यानपथे प्रतीता

॥१२॥

प्रकाशशुद्ध्यादियुता विरागा सा त्वं हि विद्या विविधावलंबा ।

कूटस्थमव्यक्तमनंतरूपं त्वं बिभ्रती कालमयी जगंति

॥१३॥

विकारबीजं प्रकरोपि नित्यं गुणान्विता सर्वजनेषु नूनम् ।

त्वं वै गुणानां च शिवे त्रयाणां निदानभूता च ततः परासि

॥१४॥

सत्वं रजस्तामस इत्यमीषां विकारहीना समु वस्तितीर्या ।

सा त्वं गुणानां जगदेकहेतुं ब्रह्मांतरारंभसि चात्सि पासि

॥१५॥

अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ।

जगद्धिताय सततं शिवपत्नि नमोस्तु ते

॥१६॥

ब्रह्मोवाच

इत्याकर्ण्य वचः सा मे काली लोक विभाविनी ।

प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत्

॥१७॥

देव्युवाच

ब्रह्मन्किमर्थं भवता स्तुताहमवधारय ।

उच्यतां यदि धृष्योसि तच्छीघ्रं पुरतो मम

॥१८॥

प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता ।

तस्मात्त्वं वांछितं ब्रूहि या करिष्यामि भाविता

॥१९॥

ब्रह्मोवाच

शृणु देवि महेशानि कृपां कृत्वा ममोपरि ।

मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया

॥२०॥

यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा ।

शिवो रुद्राख्यया योगी स वै कैलासमास्थितः

॥२१॥

तपश्चरति भूतेश एक एवाविकल्पकः ।

अपत्नीको निर्विकारो न द्वितीयां समीहते

॥२२॥

तं मोहय यथा चान्यां द्वितीयां सति वीक्षते ।

त्वदृते तस्य नो काचिद्भविष्यति मनोहरा

॥२३॥

तस्मात्त्वमेव रूपेण भवस्व हरमोहिनी ।

सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव

॥२४॥

यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम् ।

आमोदयसि विश्वस्य हितायैतं तथा कुरु

॥२५॥

कांताभिलाषमात्रं मे दृष्ट्वाऽनिंदद्वृषध्वजः ।

स कथं वनितां देवी स्वेच्छया संग्रहीष्यति ।

हरे गृहीतकांते तु कथं सृष्टिश्शुभावहा ।

आद्यंतमध्ये चैतस्य हेतौ तस्मिन्विरागिणि

॥२७॥

इति चिंतापरो नाहं त्वदन्यं शरणं हितम् ।

कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे

॥२८॥

न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः ।

न चाप्यहं जगन्मातर्नान्यस्त्वां कोपि वै विना

॥२९॥

तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी ।

तत्पत्नी भव मद्भक्त्या योगिनं मोहयेश्वरम्

॥३०॥

दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः ।

त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः

॥३१॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्सा चिंतामाप शिवा तदा ।

उवाच च स्वमनसि विस्मिता जगदम्बिका

॥३२॥

देव्युवाच

अहो सुमहदाश्चर्यं वेदवक्तापि विश्वकृत् ।

महाज्ञानपरो भूत्वा विधाता किं वदत्ययम्

॥३३॥

विधेश्चेतसि संजातो महामोहोऽसुखावहः ।

यद्वरं निर्विकारं तं संमोहयितुमिच्छति

॥३४॥

हरमोहवरं मत्तस्समिच्छति विधिस्त्वयम् ।

को लाभोस्यात्र स विभुर्निर्मोहो निर्विकल्पकः

॥३५॥

परब्रह्माख्यो यश्शंभुर्निर्गुणो निर्विकारवान् ।

तस्याहं सर्वदा दासी तदाज्ञावशगा सदा

॥३६॥

स एव पूर्णरूपेण रुद्रनामाभवच्छिवः ।

भक्तोद्धारणहेतोर्हि स्वतंत्रः परमेश्वरः

॥३७॥

हरेर्विधेश्च स स्वामी शिवान्न्यूनो न कर्हिचित् ।

योगादरो ह्यमायस्थो मायेशः परतः परः

॥३८॥

मत्वा तमात्मजं ब्रह्मा सामान्यसुरसंनिभम् ।

इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः

॥३९॥

न दद्यां चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति ।

किं कुर्यां येन न विभुः क्रुद्धस्स्यान्मे महेश्वरः

॥४०॥

ब्रह्मो वाच

विचार्य्येत्थं महेशं तं सस्मार मनसा शिवा ।

प्रापानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा

॥४१॥

दुर्गोवाच

यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ।

मदृते मोहयित्रीह शंकरस्य न विद्यते

॥४२॥

हरेऽगृहीतदारे तु सृष्टिनैषा सनातनी ।

भविष्यतीति तत्सत्यं भवता प्रतिपादितम्

॥४३॥

ममापि मोहने यन्नो विद्यतेस्य महाप्रभोः ।

त्वद्वाक्याद्विगुणो मेद्य प्रयत्नोऽभूत्स निर्भरः

॥४४॥

अहं तथा यतिष्यामि यथा दारपरिग्रहम् ।

हरः करिष्यति विधे स्वयमेव विमोहितः

॥४५॥

सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ।

भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथा प्रिया

॥४६॥

यथा सोपि मयैवेय वशवर्ती सदा भवेत् ।

तथा यत्नं करिष्यामि तस्यैव कृपया विधे

॥४७॥

उत्पन्ना दक्षजायायां सतीरूपेण शंकरम् ।

अहं सभाजयिष्यामि लीलया तं पितामह

॥४८॥

यथान्यजंतुरवनौ वर्तते वनितावशे ।

मद्भक्त्या स हरो वामावशवर्ती भविष्यति

॥४९॥

ब्रह्मोवाच

मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका ।

वीक्ष्यमाणा मया तात तत्रैवांतर्दधे ततः

॥५०॥

तस्यामंतर्हितायां तु सोहं लोकपितामहः ।

अगमं यत्र स्वसुतास्तेभ्यस्सर्वमवर्णयम्

॥५१॥

इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनो नामेकादशोऽध्यायः ॥ ११ ॥