मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय १८

3
रुद्रसंहिता · सतीखण्डः · 18

रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः

नारद उवाच

रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः ।

का वार्ता ह्यभवत्तात किं चकार हरः स्वयम्

॥१॥

ब्रह्मोवाच

अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम् ।

आसदं हि महादेवं हिमवद्गिरिसंस्थितम्

॥२॥

मां वीक्ष्य लोकस्रष्टारमायांतं वृषभध्वजः ।

मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः

॥३॥

अथ प्रीत्या हरो लोक गतिमाश्रित्य लीलया ।

सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा

॥४॥

ईश्वर उवाच

किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतस्स माम् ।

कथयस्व यथा स्वांतं न दीर्ये मन्मथेन हि

॥५॥

धावमानो विप्रयोगो मामेव च सतीं प्रति ।

अभिहंति सुरज्येष्ठ त्यक्त्वान्यां प्राणधारिणीम्

॥६॥

सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम् ।

अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा

॥७॥

ब्रह्मोवाच

इति रुद्रोक्तवचनं लोकाचारसुगर्भितम् ।

श्रुत्वाहं नारदमुने सांत्वयन्नगदं शिवम्

॥८॥

ब्रह्मोवाच

सत्यर्थं यन्मम सुतो वदति स्म वृषध्वज ।

तच्छ्रणुष्व निजासाध्य सिद्धमित्यवधारय

॥९॥

देया तस्मै मया पुत्री तदर्थं परिकल्पिता ।

ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः

॥१०॥

मत्पुत्र्याराधितश्शंभुरेतदर्थं स्वयं पुनः ।

सोप्यन्विष्यति मां यस्मात्तदा देया मया हरे

॥११॥

शुभे लग्न सुमुहूर्ते समागच्छतु सोंतिकम् ।

तदा दास्यामि तनयां भिक्षार्थं शंभवे विधे

॥१२॥

इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज ।

शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ।

ब्रह्मोवाच ।

इति श्रुत्वा मम वचो लौकिकी गतिमाश्रितः ।

उवाच विहसन्रुद्रो मुने मां भक्तवत्सलः

॥१४॥

रुद्र उवाच

गमिष्ये भवता सार्द्धं नारदेन च तद्गृहम् ।

अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर

॥१५॥

मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर ।

तैः सार्द्धं दक्षनिलयं गमिष्ये सगणो विधे

॥१६॥

ब्रह्मोवाच

इत्याज्ञप्तोहमीशेन लोकाचारपरेण ह ।

संस्मरं नारदं त्वां च मरीच्यदीन्सुतांस्तथा

॥१७॥

ततस्समागतास्सर्वे मानसास्तनयास्त्वया ।

मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात्

॥१८॥

विष्णुस्समागतस्तूर्णं स्मृतो रुद्रेण शैवराट् ।

सस्वसैन्यः कमलया गरुडारूढं एव च

॥१९॥

अध चैत्रसिते पक्षे नक्षत्रे भगदैवते ।

त्रयोदश्यां दिने भानौ निगच्छत्स महेश्वरः

॥२०॥

सर्वैस्सुरगणैस्सार्द्धं ब्रह्मविष्णु पुरस्सरैः ।

तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शंकरः

॥२१॥

मार्गे समुत्सवो जातो देवादीनां च गच्छताम् ।

तथा हरगणानां च सानंदमनसामति

॥२२॥

गजगोव्याघ्रसर्पाश्च जटा चंद्रकला तथा ।

जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया

॥२३॥

ततः क्षणेन बलिना बलीवर्देन योगिना ।

स विष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः

॥२४॥

ततो दक्षो विनीतात्मा संप्रहृष्टतनूरुहः ।

प्रययौ सन्मुखं तस्य संयुक्तस्सकलैर्निजैः

॥२५॥

सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः ।

पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम्

॥२६॥

परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा ।

दक्षस्समानयामास गृहाभ्यंतरतश्शिवम्

॥२७॥

अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम् ।

समानर्च विधानेन दत्त्वासनमनुत्तमम्

॥२८॥

ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा ।

पूजयामास सद्भक्त्या यथोचितविधानतः

॥२९॥

कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा ।

चकार संविदं दक्षो मुनिभिर्मानसैः पुनः

॥३०॥

ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः ।

प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो

॥३१॥

बाढमित्यहमप्युक्त्वा प्रहृष्टैनांतरात्मना ।

समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा

॥३२॥

ततश्शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते ।

सती निजसुतां दक्षो ददौ हर्षेण शंभवे

॥३३॥

उद्वाहविधिना सोपि पाणिं जग्राह हर्षितः ।

दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः

॥३४॥

अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः ।

नेमुस्सर्वे संस्तुतिभि स्तोषयामासुरीश्वरम्

॥३५॥

समुत्सवो महानासीन्नृत्यगानपुरस्सरः ।

आनन्दं परमं जग्मुस्सर्वे मुनिगणाः सुराः

॥३६॥

कन्या दत्त्वा कृत्तार्थोऽभूत्तदा दक्षो हि मत्सुतः ।

शिवाशिवौ प्रसन्नौ च निखिलं मंगलालयम्

॥३७॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कन्यादानवर्णनो नामाष्टादशोऽध्यायः ॥ १८ ॥