कामप्रभावमारगणोत्पत्तिवर्णनः
ब्रह्मोवाच
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे ।
चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर
॥१॥गत्वा तत्र महावीरो मन्मथो मोहकारकः ।
स्वप्रभावं ततानाशु मोहयामास प्राणिनः
॥२॥वसंतोपि प्रभावं स्वं चकार हरमोहनम् ।
सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने
॥३॥विविधान्कृतवान्यत्नान् रत्या सह मनोभवः ।
जीवास्सर्वे वशं यातास्सगणेशश्शिवो न हि
॥४॥समधोर्मदनस्यासन्प्रयासा निप्फला मुने ।
जगाम स मम स्थानं निवृत्त्य विमदस्तदा
॥५॥कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा ।
उवाच मदनो मां चोदासीनो विमदो मुने
॥६॥काम उवाच
ब्रह्मन् शंभुर्मोहनीयो न वै योगपरायणः ।
न शक्तिर्मम नान्यस्य तस्य शंभोर्हि मोहने
॥७॥समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः ।
रत्या सहाखिलास्ते च निष्फला अभवञ्च्छिवे
॥८॥शृणु ब्रह्मन्यथाऽस्माभिः कृतां हि हरमोहने ।
प्रयासा विविधास्तात गदतस्तान्मुने मम
॥९॥यदा समाधिमाश्रित्य स्थितश्शंभुर्नियंत्रितः ।
तदा सुगंधिवातेन शीतलेनातिवेगिना
॥१०॥उद्वीजयामि रुद्रं स्म नित्यं मोहनकारिणा ।
प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम्
॥११॥स्वसायकांस्तथा पंच समादाय शरासनम् ।
तस्याभितो भ्रमंतस्तु मोहयंस्तद्ग णानहम्
॥१२॥मम प्रवेशमात्रेण सुवश्यास्सर्वजंतवः ।
अभवद्विकृतो नैव शंकरस्सगणः प्रभुः
॥१३॥यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः ।
तत्रागतस्तदैवाहं सरतिस्समधुर्विधे
॥१४॥यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् ।
कैलासं वा यदा यातस्तत्राहं गतवाँस्तदा
॥१५॥यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन ।
तदा तस्य पुरश्चक्रयुगं रचितवानहम्
॥१६॥तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः ।
नानाभावानकार्षीच्च दांपत्यक्रममुत्तमम्
॥१७॥नीलकंठं महादेवं सगणं तत्पुरःस्थिताः ।
अकार्षुमोहितं भावं मृगाश्च पक्षिणस्तथा
॥१८॥मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् ।
विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा
॥१९॥नालभद्विवरं तस्मिन् कदाचिदपि मच्छरः ।
सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने
॥२०॥मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने ।
तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम्
॥२१॥चंपकान्केशरान्वालान्कारणान्पाटलांस्तथा ।
नागकेशरपुन्नागान्किंशुकान्केतकान्करान्
॥२२॥मागंधिमल्लिकापर्णभरान्कुरवकांस्तथा ।
उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः
॥२३॥सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ।
यत्नात्सुगंधीन्यकरोदतीव गिरिशाश्रमे
॥२४॥लतास्सर्वास्सुमनसो दधुरंकुरसंचयान् ।
वृक्षांकं चिरभावेन वेष्टयंति स्म तत्र च
॥२५॥तान्वृक्षांश्च सुपुष्पौघान् तैः सुगंधिसमीरणैः ।
दृष्ट्वा कामवशं याता मुनयोपि परे किमु
॥२६॥एवं सत्यपि शंभोर्न दृष्टं मोहस्य कारणम् ।
भावमात्रमकार्षीन्नो कोपो मय्यपि शंकरः
॥२७॥इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् ।
विमुखोहं शंभुमोहान्नियतं ते वदाम्यहम्
॥२८॥तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे ।
शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत्
॥२९॥ज्वलदग्निप्रकाशाक्षं जट्टाराशिकरालिनम् ।
शृंगिणं वीक्ष्य कस्स्थातुं ब्रह्मन् शक्नोति तत्पुरः
॥३०॥ब्रह्मोवाच
मनो भववचश्चेत्थं श्रुत्वाहं चतुराननः ।
विवक्षुरपि नावोचं चिंताविष्टोऽभवं तदा
॥३१॥मोहनेहं समर्थो न हरस्येति मनोभवः ।
वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने
॥३२॥निश्श्वासमारुता मे हि नाना रूपमहाबलः ।
जाता गता लोलजिह्वा लोलाश्चातिभयंकराः
॥३३॥अवादयंत ते सर्वे नानावाद्यानसंख्यकान् ।
पटहादिगणास्तांस्तान् विकरालान्महारवान्
॥३४॥अथ ते मम निश्श्वाससंभवाश्च महागणाः ।
मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः
॥३५॥तेषां तु वदतां' तत्र मारयच्छेदयेति माम् ।
वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे
॥३६॥मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् ।
उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः
॥३७॥काम उवाच
हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक ।
उत्पन्नाः क इमे वीरा विकराला भयंकराः
॥३८॥किं कर्मैते करिष्यंति कुत्र स्थास्यंति वा विधे ।
किन्नामधेया एते तद्वद तत्र नियोजय
॥३९॥नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च ।
मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम्
॥४०॥ब्रह्मोवाच
इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः ।
तमवोचं ह मदनं तेषां कर्मादिकं दिशन्
॥४१॥ब्रह्मोवाच
एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः ।
मुहुर्मुहुरतोमीषां नाम मारेति जायताम्
॥४२॥सदैव विघ्नं जंतूनां करिष्यन्ति गणा इमे ।
विना निजार्चनं काम नाना कामरतात्मनाम्
॥४३॥तवानुगमने कर्म मुख्यमेषां मनोभव ।
सहायिनो भविष्यंति सदा तव न संशयः
॥४४॥यत्रयत्र भवान् याता स्वकर्मार्थं यदा यदा ।
गंता स तत्रतत्रैते सहायार्थं तदातदा
॥४५॥चित्तभ्रांतिं करिष्यंति त्वदस्त्रवशवर्तिनाम् ।
ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यंति सर्वथा
॥४६॥ब्रह्मोवाच
इत्याकर्ण्य वचो मे हि सरतिस्समहानुगः ।
किंचित्प्रसन्नवदनो बभूव मुनिसत्तम
॥४७॥श्रुत्वा तेपि गणास्सर्वे मदनं मां च सर्वतः ।
परिवार्य्य यथाकामं तस्थुस्तत्र निजाकृतिम्
॥४८॥अथ ब्रह्मा स्मरं प्रीत्याऽगदन्मे कुरु शासनम् ।
एभिस्सहैव गच्छ त्वं पुनश्च हरमोहने
॥४९॥मन आधाय यवाद्धि कुरु मारगणैस्सह ।
मोहो भवेद्यथा शंभोर्दारग्रहणहेतवे
॥५०॥इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः ।
देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम्
॥५१॥काम उवाच
मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः ।
तन्मोहो नाभवत्तात न भविष्यति नाधुना
॥५२॥तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि ।
गमिष्यामि पुनस्तत्र सदारोहं त्वदाज्ञया
॥५३॥मनो निश्चितमेतद्धि तन्मोहो न भविष्यति ।
भस्म कुर्यान्न मे देहमिति शंकास्ति मे विधे
॥५४॥इत्युक्त्वा समधुः कामस्सरतिस्सभयस्तदा ।
ययौ मारगणैः सार्द्धं शिवस्थानं मुनीश्वर
॥५५॥पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा ।
बहूपायं स हि मधुर्विविधां बुद्धिमावहन्
॥५६॥उपायं स चकाराति तत्र मारगणोऽपि च ।
मोहोभवन्न वै शंभोरपि कश्चित्परात्मनः
॥५७॥निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा ।
आसीन्मारगणोऽगर्वोऽहर्षो मेपि पुरस्थितः
॥५८॥कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः ।
स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा
॥५९॥कृतं पूर्वादधिकतः कर्म तन्मोहने विधे ।
नाभवत्तस्य मोहोपि कश्चिद्ध्यानरतात्मनः
॥६०॥न दग्धा मे तनुश्चैव तत्र तेन दयालुना ।
कारणं पूर्वपुण्यं च निर्विकारी स वै प्रभुः
॥६१॥चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज ।
परोपायं कुरु तदा विगर्व इति मे मतिः
॥६२॥ब्रह्मोवाच
इत्युक्त्वा सपरीवारो ययौ कामस्स्वमाश्रमम् ।
प्रणम्य मां स्मरन् शंभुं गर्वदं दीनवत्सलम्
॥६३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखंडे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनो नाम नवमोऽध्यायः ॥ ९ ॥