मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ३७

3
रुद्रसंहिता · सतीखण्डः · 37

सवर्णनः

ब्रह्मोवाच

वीरभद्रोथ युद्धे वै विष्णुना स महाबलः ।

संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम्

॥१॥

आरुह्य स्यंदनं दिव्यं सर्ववैरिविमर्दनः ।

गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह

॥२॥

विष्णुश्चापि महाघोषं पांचजन्या भिधन्निजम् ।

दध्मौ बली महाशंखं स्वकीयान् हर्षयन्निव

॥३॥

तच्छ्रुत्वा शंखनिर्ह्रादं देवा ये च पलायिताः ।

रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः

॥४॥

वीरभद्र गणैस्तेषां लोकपालास्सवासवाः ।

युद्धञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः

॥५॥

गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ।

अभवत्तत्र तुमुलं गर्जतां सिंहनादतः

॥६॥

नन्दिना युयुधे शक्रोऽनलो वै वैष्णवास्तथा ।

कुबेरोपि हि कूष्माण्डपतिश्च युयुधे बली

॥७॥

तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा

॥८॥

नन्दिना च हतश्शक्रस्त्रिशूलेन स्तनांतरे

॥९॥

बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ।

नानाघातांश्च कुर्वंतौ नन्दिशक्रौ जिगीषया

॥१०॥

शक्त्या जघान चाश्मानं शुचिः परमकोपनः ।

सोपि शूलेन तं वेगाच्छितधारेण पावकम्

॥११॥

यमेन सह संग्रामं महालोको गणाग्रणीः ।

चकार तुमुलं वीरो महादेवं स्मरन्मुदा

॥१२॥

नैर्ऋतेन समागम्य चंडश्च बलवत्तरः ।

युयुधे परमास्त्रैश्च नैर्ऋतिं निबिडं वयन्

॥१३॥

वरुणेन समं वीरो मुंडश्चैव महाबलः ।

युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव

॥१४॥

वायुना च हतो भृंगी स्वास्त्रेण परमोजसा ।

भृंगिणा च हतो वायुस्त्रिशूलेन प्रतापिना

॥१५॥

कुबेरेणैव संगम्य कूष्मांडपतिरादरात् ।

युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम्

॥१६॥

योगिनीचक्रसंयुक्तो भैरवीनायको महान् ।

विदीर्य्य देवानखिलान्पपौ शोणितमद्भुतम्

॥१७॥

क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुंगवान् ।

काली चापि विदार्यैव तान्पपौ रुधिरं बहु

॥१८॥

अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ।

चक्रं चिक्षेप वेगेन दहन्निव दिशो दश

॥१९॥

क्षेत्रपालस्समायांतं चक्रमालोक्य वेगतः ।

तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली

॥२०॥

चक्रं ग्रसितमालोक्य विष्णुः परपुरंजयः ।

मुखं तस्य परामृज्य तमुद्गालितवानरिम्

॥२१॥

स्वचक्रमादाय महानुभावश्चुकोप चातीव भवैकभर्त्ता ।

महाबली तैर्युयुधे प्रवीरैस्सक्रुद्धनानायुधधारकोस्त्रैः

॥२२॥

चक्रे महारणं विष्णुस्तैस्सार्द्धं युयुधे मुदा ।

नानायुधानि संक्षिप्य तुमुलं भीमविक्रमम्

॥२३॥

अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ।

नानास्त्राणि विमुंचंतस्संकुद्धाः परमोजसा

॥२४॥

इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा ।

विनिवृत्य समागम्य तान्स्वयं युयुधे बली

॥२५॥

अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ।

युयुधे भगवांस्तेन वीरभद्रेण माधवः

॥२६॥

तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ।

महावीराधिपत्योस्तु नानास्त्रधरयोर्मुने

॥२७॥

विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः ।

शङ्खचक्रगदाहस्ता असंख्याताश्च जज्ञिरे

॥२८॥

ते चापि युयुधुस्तेन वीरभद्रेण भाषता ।

विष्णुवत् बलवंतो हि नानायुधधरा गणाः

॥२९॥

तान्सर्वानपि वीरोसौ नारायणसमप्रभान् ।

भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम्

॥३०॥

ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे ।

जघान वीरभद्रो हि त्रिशूलेन महाबली

॥३१॥

तेन घातेन सहसा विहतः पुरुषोत्तमः ।

पपात च तदा भूमौ विसंज्ञोभून्मुने हरिः

॥३२॥

ततो यज्ञोद्भुतं तेजः प्रलयानलसन्निभम् ।

त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम्

॥३३॥

क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः ।

प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः

॥३४॥

तस्य चक्रं महारौद्रं काला दित्यसमप्रभम् ।

व्यष्टंभयददीनात्मा वीरभद्रश्शिवः प्रभुः

॥३५॥

मुने शंभोः प्रभावात्तु मायेशस्य महाप्रभोः ।

न चचाल हरेश्चक्रं करस्थं स्तंभितं ध्रुवम्

॥३६॥

अथ विष्णुर्गणेशेन वीरभद्रेण भाषता ।

अतिष्ठत्स्तंभितस्तेन शृंगवानिव निश्चलः

॥३७॥

ततो विष्णुः स्तंभितो हि वीरभद्रेण नारद ।

यज्वोपमंत्रणमना नीरस्तंभनकारकम्

॥३८॥

ततस्स्तंभननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः ।

शार्ङ्गं जग्राह स क्रुद्धः स्वधनुस्सशरं मुने

॥३९॥

त्रिभिश्च धर्षितो बाणैस्तेन शार्ङ्गं धनुर्हरेः ।

वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने

॥४०॥

अथ विष्णुर्मया वाण्या बोधितस्तं महागणम् ।

असह्यवर्चसं ज्ञात्वा ह्यंतर्धातुं मनो दधे

॥४१॥

ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम् ।

गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतंत्रम्

॥४२॥

सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः ।

अचिंतयं सुदुःखार्तो मया किं कार्यमद्य वै

॥४३॥

विष्णौ मयि गते चैव देवाश्च मुनिभिस्सह ।

विनिर्जिता गणैस्सर्वे ये ते यज्ञोपजीविनः

॥४४॥

समुपद्रवमालक्ष्य विध्वस्तं च महामखम् ।

मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे

॥४५॥

तं तदा मृगरूपेण धावंतं गगनं प्रति ।

वीरभद्रस्समादाय विशिरस्कमथाकरोत्

॥४६॥

ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः ।

अरिष्टनेमिनं वीरो बहुपत्रमुनीश्वरम्

॥४७॥

मुनिमांगिरसं चैव कृशाश्वं च महागणः ।

जघान मूर्ध्नि पादेन दत्तं च मुनिपुंगवम्

॥४८॥

सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च ।

चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान्

॥४९॥

ततोन्यानपि देवादीन् विदार्य पृथिवीतले ।

पातयामास सोयं वै क्रोधाक्रांतातिलोचनः

॥५०॥

वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि ।

नाभूच्छांतो द्रुतक्रोधः फणिराडिव मंडितः

॥५१॥

वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् ।

दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम्

॥५२॥

व्यपोथयद्भृगुं यावन्मणिभद्रः प्रतापवान् ।

पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुंचनम्

॥५३॥

चंडश्चोत्पाटयामास पूष्णो दंतान् प्रवेगतः ।

शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः

॥५४॥

नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ।

उज्जहार स दक्षोक्ष्णा यश्शपंतमसूसुचत्

॥५५॥

विडंबिता स्वधा तत्र सा स्वाहा दक्षिणा तथा ।

मंत्रास्तंत्रास्तथा चान्ये तत्रस्था गणनायकैः

॥५६॥

ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः ।

अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम्

॥५७॥

अंतर्वेद्यंतरगतं निलीनं तद्भयाद्बलात् ।

आनिनाय समाज्ञाय वीरभद्रेः स्वभूश्चुतम्५८ ।

कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः ।

अभेद्यमभवत्तस्य तच्च योगप्रभावतः

॥५९॥

अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः ।

करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि

॥६०॥

तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः ।

अग्निकुंडे प्रचिक्षेप वीरभद्रो गणाग्रणीः

॥६१॥

रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे ।

क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः (?)

॥६२॥

अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना ।

ज्वालयामास सक्रोधो दीप्ताग्निश्शलभानिव

॥६३॥

वीरभद्रस्ततो दग्धान्दृष्ट्वा दक्षपुरोगमान् ।

अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम्

॥६४॥

वीरश्रिया वृतस्तत्र ततो नन्दनसंभवा ।

पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते

॥६५॥

ववुर्गंधवहाश्शीतास्सुगन्धास्सुखदाः शनैः ।

देवदुंदुभयो नेदुस्सममेव ततः परम्

॥६६॥

कैलासं स ययौ वीरः कृतकार्य्यस्ततः परम् ।

विनाशितदृढध्वांतो भानुमानिव सत्वरम्

॥६७॥

कृतकार्यं वीरभद्रं दृष्ट्वा संतुष्टमा नसः ।

शंभुर्वीरगणाध्यक्षं चकार परमेश्वरः

॥६८॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखंडे यज्ञविध्वं सवर्णनो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥