कृत्वा दक्षस्तुतादानं यौतकं विविधं ददौ
ब्रह्मोवाच
कृत्वा दक्षस्तुतादानं यौतकं विविधं ददौ ।
हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम्
॥१॥अथ शंभु मुदागत्य समुत्थाय कृतांजलिः ।
सार्द्धं कमलया चेदमुवाच गरुडध्वजः
॥२॥विष्णुरुवाच
देवदेव महादेव करुणासागर प्रभो ।
त्वं पिता जगतां तात सती माताखिलस्य च
॥३॥युवां लीलावतारौ द्वे सतां क्षेमाय सर्वदा ।
खलानां निग्रहार्थाय श्रुतिरेषा सनातनी
॥४॥स्निग्धनीलांजनश्यामशोभया शोभसे हर ।
दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया
॥५॥देवानां वा नृणां रक्षां कुरु सत्याऽनया सताम् ।
संसारसारिणां शम्भो मंगलं सर्वदा तथा
॥६॥य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् ।
तं हन्यास्सर्वभूतेश विज्ञप्तिरिति मे प्रभो
॥७॥ब्रह्मोवाच
इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः ।
एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम्
॥८॥स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर ।
उत्सवं कारयामास जुगोप चरितं च तत्
॥९॥अहं देवीं समागत्य गृह्योक्तविधिनाऽखिलम् ।
अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम्
॥१०॥ततश्शिवा शिवश्चैव यथाविधि प्रहृष्टवत् ।
अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया
॥११॥तदा महोत्सवस्तत्राद्भुतोभूद्द्विजसत्तम ।
सर्वेषां सुखदं वाद्यं गीतनृत्यपुरस्सरम्
॥१२॥तदानीमद्भुतं तत्र चरितं समभूदति ।
सुविस्मयकरं तात तच्छृणु त्वं वदामि ते
॥१३॥दुर्ज्ञेया शांभवी माया तया संमोहितं जगत् ।
सचराचरमत्यंतं सदेवासुरमानुषम्
॥१४॥योऽहं शंभुं मोहयितुं पुरैच्छं कपटेन ह ।
मां च तं शंकरस्तात मोहयामास लीलया
॥१५॥इच्छेत्परापकारं यस्स तस्यैव भवेद्ध्रुवम् ।
इति मत्वाऽपकारं नो कुर्यादन्यस्य पूरुषः
॥१६॥प्रदक्षिणां प्रकुर्वंत्या वह्नेस्सत्याः पदद्वयम् ।
आविर्बभूव वसनात्तदद्राक्षमहं मुने
॥१७॥मदनाविष्टचेताश्च भूत्वांगानि व्यलोकयम् ।
अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः
॥१८॥यथा यथाहं रम्याणि व्यैक्षमंगानि कौतुकात् ।
सत्या बभूव संहृष्टः कामार्तो हि तथा तथा
॥१९॥अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् ।
स्मराविष्टमना वक्त्रं द्रष्टुकामोभवं मुने
॥२०॥न शंभोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् ।
न च सा लज्जयाविष्टा करोति प्रगटं मुखम्
॥२१॥ततस्तद्दर्शनार्थाय सदुपायं विचारयन् ।
धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम्
॥२२॥आर्द्रेंधनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ।
स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा
॥२३॥प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समंततः ।
तादृग् येन तमो भूतं वेदीभूमिविनिर्मितम्
॥२४॥ततो धूमाकुले नेत्रे महेशः परमेश्वरः ।
हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः
॥२५॥ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने ।
अवेक्षं किल कामार्तः प्रहृष्टेनांतरात्मना
॥२६॥मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् ।
अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः
॥२७॥मम रेतः प्रचस्कंद ततस्तद्वीक्षणाद्द्रुतम् ।
चतुर्बिन्दुमित भूमौ तुषारचयसंनिभम्
॥२८॥ततोहं शंकितो मौनी तत्क्षणं विस्मितो मुने ।
आच्छादयेस्म तद्रेतो यथा कश्चिद्बुबोध न
॥२९॥अथ तद्भगवाञ्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ।
रेतोवस्कंदनात्तस्य कोपादेतदुवाच ह
॥३०॥रुद्र उवाच
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ।
विवाहे मम कांताया वक्त्रं दृष्टं न रागतः
॥३१॥त्वं वेत्सि शंकरेणैतत्कर्म ज्ञातं न किंचन ।
त्रैलोक्येपि न मेऽज्ञातं गूढं तस्मात्कथं विधे
॥३२॥यत्किंचित्त्रिषु लोकेषु जंगमं स्थावरं तथा ।
तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांति कम्
॥३३॥ब्रह्मोवाच
इत्युक्त्वा प्रिय विष्णुर्मां तदा विष्णुवचः स्मरन् ।
इयेष हंतुं ब्रह्माणं शूलमुद्यम्य शंकरः
॥३४॥शभुंनोद्यमिते शूले मां च हंतुं द्विजोत्तम ।
मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे
॥३५॥ततो देवगणास्सर्वे मुनयश्चाखिलास्तथा ।
तुष्टुवुश्शंकरं तत्र प्रज्वलंतं भयातुराः
॥३६॥देवा ऊचुः
देव देव महादेव शरणागतवत्सल ।
ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर
॥३७॥जगत्पिता महेश त्वं जगन्माता सती मता ।
हरिब्रह्मादयस्सर्वे तव दासास्सुरप्रभो
॥३८॥अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो ।
तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर
॥३९॥ब्रह्मोवाच
इत्थं बहुतरं दीना निर्जरा मुनयश्च ते ।
तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम्
॥४०॥दक्षो मैवं मैवमिति पाणिमुद्यम्य शंकितः ।
वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः
॥४१॥अथाग्रे संगतं वीक्ष्य तदा दक्षं महेश्वरः ।
प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः
॥४२॥महेश्वर उवाच
विष्णुना मेतिभक्तेन यदिदानीमुदीरितम् ।
मयाप्यंगीकृतं कर्तुं तदिहैव प्रजापते
॥४३॥सतीं यस्याभिलाषस्सन् वीक्षेत वध तं प्रभो ।
इति विष्णुवचस्सत्यं विधिं हत्वा करोम्यहम्
॥४४॥साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ।
अभवत्त्यक्तरेतास्तु ततो हन्मि कृतागसम्
॥४५॥ब्रह्मोवाच
इत्युक्तवति देवेश महेशे क्रोधसंकुले ।
चकंपिरे जनाः सर्वे सदेवमुनिमानुषाः
॥४६॥हाहाकारो महानासीदौदासीन्यं च सर्वशः ।
अभूवम्बिकलोऽतीव तदाहं तद्विमोहकः
॥४७॥अथ विष्णुर्महेशातिप्रियः कार्यविचक्षणः ।
तमेवंवादिनं रुद्रं तुष्टाव प्रणतस्सुधीः
॥४८॥स्तुत्वा च विविधैः स्तोत्रैश्शंकरं भक्तवत्सलम् ।
इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरस्सरः
॥४९॥विष्णुरुवाच
विधिन्न जहि भूतेश स्रष्टारं जगतां प्रभुम् ।
अयं शरणगस्तेद्य शरणागतवत्सलः
॥५०॥अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः ।
विज्ञप्तिं हृदि मे मत्त्वा कृपां कुरु ममोपरि
॥५१॥अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् ।
तन्मनुष्व महेशान कृपां कृत्वा ममोपरि
॥५२॥प्रजास्स्रष्टुमयं शंभो प्रादुर्भूतश्चतुर्मुखः ।
अस्मिन्हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना
॥५३॥सृष्टिस्थित्यंतकर्माणि करिष्यामः पुनः पुनः ।
त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया
॥५४॥एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति ।
तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो
॥५५॥अनेनैव सती कन्या दक्षस्य च शिवा विभो ।
सदुपायेन वै भार्या भवदर्थे प्रकल्पिता
॥५६॥ब्रह्मोवाच
इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् ।
प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः
॥५७॥महेश उवाच
देव देव रमेशान विष्णो मत्प्राणवल्लभ ।
न निवारय मां तात वधादस्य खलस्त्वयम्
॥५८॥पूरयिष्यामि विज्ञप्तिं पूर्वान्तेंगीकृतां मया ।
महापापकरं दुष्टं हन्म्येनं चतुराननम्
॥५९॥अहमेव प्रजास्स्रक्ष्ये सर्वाः स्थिरचरा अपि ।
अन्यं स्रक्ष्ये सृष्टिकरमथवाहं स्वतेजसा
॥६०॥हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् ।
स्रष्टारमेकं स्रक्ष्यामि न निवारय मेश माम्
॥६१॥ब्रह्मोवाच
इति तस्य वचश्श्रुत्वा गिरीश स्याह चाच्युतः ।
स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन्
॥६२॥अच्युत उवाच
प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेस्ति वै ।
विचारयस्व वध्येश भवत्यात्मनि न प्रभो
॥६३॥त्रयो देवा वयं शंभो त्वदात्मानः परा नहि ।
एकरूपा न भिन्नाश्च तत्त्वतस्सुविचारय
॥६४॥ततस्तद्वचनं श्रुत्वा विष्णोस्स्वातिप्रियस्य सः ।
शंभुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम्
॥६५॥शम्भुरुवाच
हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम ।
लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः
॥६६॥ब्रह्मोवाच
इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा ।
इदमूचे महादेवं तोषयन् गरुडध्वजः
॥६७॥विष्णुरुवाच
न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव ।
न वाहं भवतो भिन्नो न मत्त्वं परमेश्वर
॥६८॥सर्वं जानासि सर्वज्ञ परमेश सदाशिव ।
मन्मुखादखिलान्सर्वं संश्रावयितुमिच्छसि
॥६९॥त्वदाज्ञया वदामीश शृण्वंतु निखिलास्सुराः ।
मुनयश्चापरे शैवं तत्त्वं संधार्य स्वं मनः
॥७०॥प्रधानस्याऽप्रधानस्य भागाभागस्य रूपिणः ।
ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः
॥७१॥कस्त्वं कोहं च को ब्रह्मा तवैव परमात्मनः ।
अंशत्रयमिदं भिन्नं सृष्टिस्थित्यंतकारणम्
॥७२॥चिंतयस्वात्मनात्मानं स्वलीलाधृतविग्रहः ।
एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः
॥७३॥शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ।
अंगानि ते तथेशस्य तस्य भगत्रयं हर
॥७४॥यज्ज्योतिरभ्रं स्वपुरं पुराणं कूटस्थमव्यक्तमनंतरूपम् ।
नित्यं च दीर्घादिविशेषणाद्यैर्हीनं शिवस्त्वं तत एव सर्वम्
॥७५॥ब्रह्मोवाच
एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ।
बभूव सुप्रसन्नश्च न जघान स मां ततः
॥७६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥