मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ३०

3
रुद्रसंहिता · सतीखण्डः · 30

सतीदेहत्यागोपद्रववर्णनम्

नारद उवाच

मौनीभूता यदा सासीत्सती शंकरवल्लभा ।

चरित्रं किमभूत्तत्र विधे तद्वद चादरात्

॥१॥

ब्रह्मोवाच

मौनीभूता सती देवी स्मृत्वा स्वपतिमादरात ।

क्षितावुदीच्यां सहसा निषसाद प्रशांतधीः

॥२॥

जलमाचम्य विधिवत् संवृता वाससा शुचिः ।

दृङ्निमील्य पतिं स्मृत्वा योगमार्गं समाविशत्

॥३॥

कृत्वासमानावनिलौ प्राणापानौ सितानना ।

उत्थाप्योदानमथ च यत्नात्सा नाभिचक्रतः

॥४॥

हृदि स्थाप्योरसि धिया स्थितं कंठाद्भ्रुवोस्सती ।

अनिंदितानयन्मध्यं शंकरप्राणवल्लभा

॥५॥

एवं स्वदेहं सहसा दक्षकोपाज्जिहासती ।

दग्धे गात्रे वायुशुचिर्धारणं योगमार्गतः

॥६॥

ततस्स्वभर्तुश्चरणं चिंतयंती न चापरम् ।

अपश्यत्सा सती तत्र योगमार्गनिविष्टधीः

॥७॥

हतकल्मषतद्देहः प्रापतच्च तदग्निना ।

भस्मसादभवत्सद्यो मुनिश्रेष्ठ तदिच्छया

॥८॥

तत्पश्यतां च खे भूमौ वादोऽभूत्सुमहांस्तदा ।

हाहेति सोद्भुतश्चित्रस्सुरादीनां भयावहः

॥९॥

हं प्रिया परा शंभोर्देवी दैवतमस्य हि ।

अहादसून् सती केन सुदुष्टेन प्रकोपिता

॥१०॥

अहो त्वनात्म्यं सुमहदस्य दक्षस्य पश्यत ।

चराचरं प्रजा यस्य यत्पुत्रस्य प्रजापतेः

॥११॥

अहोद्य द्विमनाऽभूत्सा सती देवी मनस्विनी ।

वृषध्वजप्रियाऽभीक्ष्णं मानयोग्या सतां सदा

॥१२॥

सोयं दुर्मर्षहृदयो ब्रह्मधृक् स प्रजापतिः ।

महतीमपकीर्तिं हि प्राप्स्यति त्वखिले भवे

॥१३॥

यत्स्वांगजां सुतां शंभुद्विट् न्यषे धत्समुद्यताम् ।

महानरकभोगी स मृतये नोऽपराधतः

॥१४॥

वदत्येवं जने सत्या दृष्ट्वाऽसुत्यागमद्भुतम् ।

द्रुतं तत्पार्षदाः क्रोधादुदतिष्ठन्नुदायुधाः

॥१५॥

द्वारि स्थिता गणास्सर्वे रसायुतमिता रुषा ।

शंकरस्य प्रभोस्ते वाऽकुध्यन्नतिमहाबलाः

॥१६॥

हाहाकारमकुर्वंस्ते धिक्धिक् न इति वादिनः ।

उच्चैस्सर्वेऽसकृद्वीरःश्शंकरस्य गणाधिपाः

॥१७॥

हाहाकारेण महता व्याप्त मासीद्दिगन्तरम् ।

सर्वे प्रापन् भयं देवा मुनयोन्येपि ते स्थिताः

॥१८॥

गणास्संमंत्र्य ते सर्वेऽभूवन् क्रुद्धा उदायुधाः ।

कुर्वन्तः प्रलयं वाद्यशस्त्रैर्व्याप्तं दिगंतरम्

॥१९॥

शस्त्रैरघ्नन्निजांगानि केचित्तत्र शुचाकुलाः ।

शिरोमुखानि देवर्षे सुतीक्ष्णैः प्राणनाशिभिः

॥२०॥

इत्थं ते विलयं प्राप्ता दाक्षायण्या समं तदा ।

गणायुते द्वे च तदा तदद्भुतमिवाभवत्

॥२१॥

गणा नाशाऽवशिष्टा ये शंकरस्य महात्मनः ।

दक्षं तं क्रोधितं हन्तुं मुदा तिष्ठन्नुदायुधाः

॥२२॥

तेषामापततां वेगं निशम्य भगवान् भृगुः ।

यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहोन्मुने

॥२३॥

हूयमाने च भृगुणा समुत्पेतुर्महासुराः ।

ऋभवो नाम प्रबलवीरास्तत्र सहस्रशः

॥२४॥

तैरलातायुधैस्तत्र प्रमथानां मुनीश्वर ।

अभूद्युद्धं सुविकटं शृण्वतां रोमहर्षणम्

॥२५॥

ऋभुभिस्तैर्महावीरैर्हन्यमानास्समन्ततः ।

अयत्नयानाः प्रमथा उशद्भिर्ब्रह्मतेजसा

॥२६॥

एवं शिवगणास्ते वै हता विद्राविता द्रुतम् ।

शिवेच्छया महाशक्त्या तदद्भुतमिवाऽभवत्

॥२७॥

तद्दृष्ट्वा ऋषयो देवाश्शक्राद्यास्समरुद्गणाः ।

विश्वेश्विनौ लोकपालास्तूष्णीं भूतास्तदाऽभवन्

॥२८॥

केचिद्विष्णुं प्रभुं तत्र प्रार्थयन्तस्समन्ततः ।

उद्विग्ना मन्त्रयंतश्च विप्राभावं मुहुर्मुहुः

॥२९॥

सुविचार्योदर्कफलं महोद्विग्नास्सुबुद्धयः ।

सुरविष्ण्वादयोभूवन् तन्नाशाद्रावणान्मुहुः

॥३०॥

एवंभूतस्तदा यज्ञो विघ्नो जातो दुरात्मनः ।

ब्रह्मबंधोश्च दक्षस्य शंकरद्रोहिणो मुने

॥३१॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सत्युपाख्याने सतीदेहत्यागोपद्रववर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥