वरं दत्त्वा मुने तस्मिन् शंभावंतर्हिते तदा
ब्रह्मोवाच
वरं दत्त्वा मुने तस्मिन् शंभावंतर्हिते तदा ।
संध्याप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः
॥१॥तत्र शंभोः प्रसादेन न केनाप्युपलक्षिता ।
सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः
॥२॥वसिष्ठेन पुरा सा तु वर्णीभूत्वा महामुने ।
उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः
॥३॥तमेव कृत्वा मनसा तपश्चर्योपदेशकम् ।
पतित्वेन तदा संध्या ब्राह्मणं ब्रह्मचारिणम्
॥४॥समिद्धेग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ।
दृष्टा शंभुप्रसादेन सा विवेश विधेः सुता
॥५॥तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ।
दग्धं पुरोडाशगंधं तस्तार यदलक्षितम्
॥६॥वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मंडलम् ।
शुद्धं प्रवेशयामास शंभोरेवाज्ञया पुनः
॥७॥सूर्यो त्र्यर्थं विभज्याथ तच्छरीरं तदा रथे ।
स्वकेशं स्थापयामास प्रीतये पितृदेवयोः
॥८॥तदूर्द्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर ।
प्रातस्संध्याभवत्सा तु अहोरात्रादिमध्यगा।
तच्छेषभागस्तस्यास्तु अहोरात्रांतमध्यगा ।
सा सायमभवत्संध्या पितृप्रीतिप्रदा सदा ।
सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ।
प्रातस्संध्या तदोदेति देवानां प्रीतिकारिणी
॥११॥अस्तं गते ततः सूर्य्ये शोणपद्मनिभे सदा ।
उदेति सायं संध्यापि पितॄणां मोदकारिणी
॥१२॥तस्याः प्राणास्तु मनसा शंभुनाथ दयालुना ।
दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः
॥१३॥मुनेर्यज्ञावसाने तु संप्राप्ते मुनिना तु सा ।
प्राप्ता पुत्री वह्निमध्ये तप्तकांचनसुप्रभा
॥१४॥तां जग्राह तदा पुत्रीं मुनुरामोदसंयुतः ।
यज्ञार्थं तान्तु संस्नाप्य निजक्रोडे दधौ मुने
॥१५॥अरुंधती तु तस्यास्तु नाम चक्रे महामुनिः ।
शिष्यैः परिवृतस्तत्र महामोदमवाप ह
॥१६॥विरुणद्धि यतो धर्मं सा कस्मादपि कारणात् ।
अतस्त्रिलोके विदितं नाम संप्राप तत्स्वयम्
॥१७॥यज्ञं समाप्य स मुनिः कृतकृत्यभावमासाद्य संपदयुतस्तनया प्रलंभात् ।
तस्मिन्निजाश्रमपदे सह शिष्यवर्गैस्तामेव सततमसौ दयिते सुरर्षे
॥१८॥अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे ।
चन्द्रभागानदीतीरे तापसारण्यसंज्ञके
॥१९॥संप्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ।
तापसारण्यमपि सा पवित्रमकरोत्सती
॥२०॥विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै ।
वसिष्ठेन ह्यरुंधत्या ब्रह्मविष्णुमहेश्वराः
॥२१॥तद्विवाहे महोत्साहो वभूव सुखवर्द्धनः ।
सर्वे सुराश्च मुनयस्सुखमापुः परं मुनो
॥२२॥ब्रह्मविष्णुमहेशानां करनिस्सृततोयतः ।
सप्तनद्यस्समुत्पन्नाश्शिप्राद्यास्सुपवित्रकाः
॥२३॥अरुंधती महासाध्वी साध्वीनां प्रवरोत्तमा ।
वसिष्ठं प्राप्य संरेजे मेधातिथिसुता मुने
॥२४॥यस्याः पुत्रास्समुत्पन्नाः श्रेष्ठाश्शक्त्यादयश्शुभाः ।
वसिष्ठं प्राप्य तं कांतं संरेजे मुनिसत्तमाः
॥२५॥एवं संध्याचरित्रं ते कथितं मुनिसत्तम ।
पवित्रं पावनं दिव्यं सर्वकामफलप्रदम्
॥२६॥य इदं शृणुयान्नारी पुरुषो वा शुभव्रतः ।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा
॥२७॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वि- सतीखंडे सप्तमोऽध्यायः ॥ ७ ॥