मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय २६

3
रुद्रसंहिता · सतीखण्डः · 26

दक्षविरोधः

ब्रह्मोवाच

पुराभवच्च सर्वेषामध्वरो विधिना महान् ।

प्रयागे समवेतानां मुनीनां च महा त्मनाम्

॥१॥

तत्र सिद्धास्समायातास्सनकाद्यास्सुरर्षयः ।

सप्रजापतयो देवा ज्ञानिनो ब्रह्मदर्शिनः

॥२॥

अहं समागतस्तत्र परिवारसमन्वितः ।

निगमैरागमैर्युक्तो मूर्तिमद्भिर्महाप्रभैः

॥३॥

समाजोभूद्विचित्रो हि तेषामुत्सवसंयुः ।

ज्ञानवादोऽभवत्तत्र नानाशास्त्रस मुद्भवः

॥४॥

तस्मिन्नवसरे रुद्रस्सभवानीगणः प्रभुः ।

त्रिलोकहितकृत्स्वामी तत्रागात्सूक्तिकृन्मुने

॥५॥

दृष्ट्वा शिवं सुरास्सर्वे सिद्धाश्च मुनयस्तथा ।

अनमंस्तं प्रभुं भक्त्या तुष्टुवुश्च तथा ह्यहम्

॥६॥

तस्थुश्शिवाज्ञया सर्वे यथास्थानं मुदान्विताः ।

प्रभुदर्शनसंतुष्टाः वर्णयन्तो निजं विधिम्

॥७॥

तस्मिन्नवसरे दक्षः प्रजापतिपतिः प्रभुः ।

आगमत्तत्र सुप्रीतस्सुवर्चस्वी यदृच्छया

॥८॥

मां प्रणम्य स दक्षो हि न्युष्टस्तत्र मदाज्ञया ।

ब्रह्माण्डाधिपतिर्मान्यो मानी तत्त्वबहिर्मुखः

॥९॥

स्तुतिभिः प्रणिपातैश्च दक्षस्सर्वैस्सुरर्षिभिः ।

पूजितो वरतेजस्वी करौ बध्वा विनम्रकैः

॥१०॥

नानाविहारकृन्नाथस्स्वतंत्र परमोतिकृत् ।

नानामत्तं तदा दक्षं स्वासनस्थो महेश्वरः

॥११॥

दृष्टाऽनतं हरं तत्र स मे पुत्रोऽप्रसन्नधीः ।

अकुपत्सहसा रुद्रे तदा दक्षः प्रजापतिः

॥१२॥

क्रूरदृष्ट्या महागर्वो दृष्ट्वा रुद्रं महाप्रभुम् ।

सर्वान्संश्रावयन्नुच्चैरवोचज्ज्ञानवर्जितः

॥१३॥

एते हि सर्वे च सुरासुरा भृशं नमंति मां विप्रवरास्तथर्षयः ।

कथं ह्यसौ दुर्जनवन्महामनास्त्वभूत्तु यः प्रेतपिशाचसंवृतः

॥१४॥

श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना ।

लुप्तक्रियो भूतपिशाचसेवितो मत्तोऽविधो नीतिविदूषकस्सदा

॥१५॥

पाखंडिनो दुर्जनपाप शीला दृष्ट्वा द्विजं प्रोद्धतनिंदकाश्च ।

वध्वां सदासक्तरतिप्रवीणस्तस्मादमुं शप्तुमहं प्रवृत्तः

॥१६॥

ब्रह्मोवाच

इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत् ।

शृण्वंत्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम्

॥१७॥

दक्ष उवाच

रुद्रो ह्ययं यज्ञबहिष्कृतो मे वर्णेष्वतीतोथ विवर्णरूपः ।

देवैर्न भागं लभतां सहैव श्मशानवासी कुलजन्म हीनः

॥१८॥

ब्रह्मोवाच

इति दक्षोक्तमाकर्ण्य भृग्वाद्या बहवो जनाः ।

अगर्हयन् दुष्टसत्त्वं रुद्रं मत्त्वामरैस्समम्

॥१९॥

नन्दी निशम्य तद्वाक्यं लालाक्षोतिरुषान्वितः ।

अब्रवीत्त्वरितं दक्षं शापं दातुमना गणः

॥२०॥

नन्दीश्वर उवाच

रेरे शठ महा मूढ दक्ष दुष्टमते त्वया ।

यज्ञबाह्यो हि मे स्वामी महेशो हि कृतः कथम्

॥२१॥

यस्य स्मरणमात्रेण भवंति सफला मखाः ।

तीर्थानि च पवित्राणि सोयं शप्तो हरः कथम्

॥२२॥

वृथा ते ब्रह्मचापल्याच्छप्तोयं दक्ष दुर्मते ।

वृथोपहसितश्चैवादुष्टो रुद्रो महा प्रभुः

॥२३॥

येनेदं पाल्यते विश्वं सृष्टमंते विनाशितम् ।

शप्तोयं स कथं रुद्रो महेशो ब्राह्मणाधम

॥२४॥

एवं निर्भत्सितस्तेन नन्दिना हि प्रजापतिः ।

नन्दिनं च शशापाथ दक्षो रोषसमन्वितः

॥२५॥

दक्ष उवाच

यूयं सर्वे रुद्रगणा वेदबाह्या भवंतु वै ।

वेदमार्गपरित्यक्तास्तथा त्यक्ता महर्षिभिः

॥२६॥

पाखंडवादनिरताः शिष्टाचारबहिष्कृताः ।

मदिरापाननिरता जटा भस्मास्थिधारिणः

॥२७॥

ब्रह्मोवाच

इति शप्तास्तथा तेन दक्षेण शिवकिंकराः ।

तच्छ्रुत्वातिरुषाविष्टोभवन्नंदी शिवप्रियः

॥२८॥

प्रत्युवाच द्रुतं पक्षं गर्वितं तं महाखलम् ।

शिलादतनयो नंदी तेजस्वी शिववल्लभः

॥२९॥

नन्दीश्वर उवाच

रे दक्ष शठ दुर्बुद्धे वृथैव शिवकिंकराः ।

शप्तास्ते ब्रह्मचापल्याच्छिवतत्त्वमजानता

॥३०॥

भृग्वाद्यैर्दुष्टचित्तैश्च मूढैस्स उपहासितः ।

महा प्रभुर्महेशानो ब्राह्मणत्वादहंमते

॥३१॥

ये रुद्रविमुखाश्चात्र ब्राह्मणास्त्वादृशाः खलाः ।

रुद्रतेजःप्रभावत्वात्तेषां शापं ददाम्यहम्

॥३२॥

वेदवादरता यूयं वेदतत्त्वबहिर्मुखाः ।

भवंतु सततं विप्रा नान्यदस्तीति वादिनः

॥३३॥

कामात्मानर्स्स्वर्गपराः क्रोधलोभमदान्विताः ।

भवंतु सततं विप्रा भिक्षुका निरपत्रपाः

॥३४॥

वेदमार्गं पुरस्कृत्य ब्राह्मणाश्शूद्रयाजिनः ।

दरिद्रा वै भविष्यंति प्रतिग्रहरता स्सदा

॥३५॥

असत्प्रतिग्रहाश्चैव सर्वे निरयगामिनः ।

भविष्यंति सदा दक्ष केचिद्वै ब्रह्मराक्षसाः

॥३६॥

यश्शिवं सुरसामान्यमुद्दिश्य परमेश्वरम् ।

द्रुह्यत्यजो दुष्टमतिस्तत्त्वतो विमुखो भवेत्

॥३७॥

कूटधर्मेषु गेहेषु सदा ग्राम्यसुखेच्छया ।

कर्मतंत्रं वितनुता वेदवादं च शाश्वतम्

॥३८॥

विनष्टानंदकमुखो विस्मृतात्मगतिः पशुः ।

भ्रष्टकर्मानयसदा दक्षो बस्तमुखोऽचिरात्

॥३९॥

शप्तास्ते कोपिना तत्र नंदिना ब्राह्मणा यदा ।

हाहाकारो महानासीच्छप्तो दक्षेण चेश्वरः

॥४०॥

तदाकर्ण्यामहत्यंतमनिंदंतं मुहुर्मुहुः ।

भृग्वादीनपि विप्रांश्च वेदसृट् शिव तत्त्ववित्

॥४१॥

ईश्वरोपि वचः श्रुत्वा नंदिनः प्रहसन्निव ।

उवाच मधुरं वाक्यं बोधयंस्तं सदाशिवः

॥४२॥

सदाशिव उवाच

शृणु नंदिन् महाप्राज्ञ न कर्तुं क्रोधमर्हसि ।

वृथा शप्तो ब्रह्मकुलो मत्वा शप्तं च मां भ्रमात्

॥४३॥

वेदो मंत्राक्षरमयस्साक्षात्सूक्तमयो भृशम् ।

सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम्

॥४४॥

तस्मादात्मविदो नित्यं त्वं मा शप रुषान्वितः ।

शप्या न वेदाः केनापि दुर्द्धियापि कदाचन

॥४५॥

अहं शप्तो न चेदानीं तत्त्वतो बोद्धुमर्हसि ।

शान्तो भव महाधीमन्सनकादिविबोधकः

॥४६॥

यज्ञोहं यज्ञकर्माहं यज्ञांगानि च सर्वशः ।

यतात्मा यज्ञनिरतो यज्ञबाह्योहमेव वै

॥४७॥

कोयं कस्त्वमिमे के हि सर्वोहमपि तत्त्वतः ।

इति बुद्ध्या हि विमृश वृथा शप्तास्त्वया द्विजाः

॥४८॥

तत्त्वज्ञानेन निर्हृत्य प्रपंचरचनो भव ।

बुधस्स्वस्थो महाबुद्धे नन्दिन् क्रोधादिवर्जितः

॥४९॥

ब्रह्मोवाच

एवं प्रबोधितस्तेन शम्भुना नन्दिकेश्वरः ।

विवेकपरमो भूत्वा शांतोऽभूत्क्रोधवर्जितः

॥५०॥

शिवोपि तं प्रबोध्याशु स्वगणं प्राणवल्लभम् ।

सगणस्स ययौ तस्मात्स्वस्थानं प्रमुदान्वितः

॥५१॥

दक्षोपि स रुषाविष्टस्तैर्द्धिजैः परिवारितः ।

स्वस्थानं च ययौ चित्ते शिवद्रो हपरायणः

॥५२॥

रुद्रं तदानीं परिशप्यमानं संस्मृत्य दक्षः परया रुषान्वितः ।

श्रद्धां विहायैव स मूढबुद्धिर्निंदापरोभूच्छिवपूजकानाम्

॥५३॥

इत्युक्तो दक्षदुर्बुद्धिश्शंभुना परमात्मना ।

परां दुर्धिषणां तस्य शृणु तात वदाम्यहम्

॥५४॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीयखण्डे सत्युपाख्याने शिवेन दक्षविरोधो नाम षड्विंशोऽध्यायः ॥ २६ ॥