मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ३१

3
रुद्रसंहिता · सतीखण्डः · 31

एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर

ब्रह्मोवाच

एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर ।

अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः

॥१॥

व्योमवाण्युवाच

रे रे दक्ष दुराचार दंभाचारपरायण ।

किं कृतं ते महामूढ कर्म चानर्थकारकम्

॥२॥

न कृतं शैवराजस्य दधीचेर्वचनस्य हि ।

प्रमाणं तत्कृते मूढ सर्वानंदकरं शुभम्

॥३॥

निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुस्सहम् ।

ततोपि बुद्धं किंचिन्नो त्वया मूढेन चेतसि

॥४॥

ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः ।

समागतायास्सत्याश्च मंगलाया गृहं स्वतः

॥५॥

सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल ।

ब्रह्मपुत्र इति वृथा गर्वितोसि विमोहितः

॥६॥

सा सत्येव सदाराध्या सर्वा पापफलप्रदा ।

त्रिलोकमाता कल्याणी शंकरार्द्धांगभागिनी

॥७॥

सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी ।

माहेश्वरी स्वभक्तानां सर्वमंगलदायिनी

॥८॥

सा सत्येवार्चिता नित्यं संसारभयनाशिनी ।

मनोभीष्टप्रदा दैवी सर्वोपद्रवहारिणी

॥९॥

सा सत्येवार्चिता नित्यं कीर्तिसंपत्प्रदायिनी ।

परमा परमेशानी भुक्तिमुक्तिप्रदायिनी

॥१०॥

सा सत्येव जगद्धात्री जगद्रक्षणकारिणी ।

अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी

॥११॥

सा सत्येव जगन्माता विष्णु माताविलासिनी ।

ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता

॥१२॥

सा सत्येव तपोधर्मदातादिफलदायिनी ।

शंभुशक्तिर्महादेवी दुष्टहंत्री परात्परा

॥१३॥

ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया ।

तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा

॥१४॥

शंभुर्हि परमेशानस्सर्वस्वामी परात्परः ।

विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः ।

तप्यते हि तपः सिद्धैरेतद्दर्शनकांक्षिभिः ।

युज्यते योगिभिर्योगैरेतद्दर्शनकांक्षिभिः

॥१६॥

अनंतधनधान्यानां यागादीनां तथैव च ।

दर्शनं शंकरस्यैव महत्फलमुदाहृतम्

॥१७॥

शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः ।

आदिविद्यावरस्वामी सर्वमंगलमंगलः

॥१८॥

तच्छक्तेर्न कृतो यस्मात्सत्करोद्य त्वया खल ।

अतएवाऽध्वरस्यास्य विनाशो हि भविष्यति

॥१९॥

अमंगलं भवत्येव पूजार्हाणामपूजया ।

पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा

॥२०॥

सहस्रेणापि शिरसां शेषो यत्पादजं रजः ।

वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती

॥२१॥

यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ।

विष्णुविष्णुत्वमापन्नस्तस्य शंभोः प्रिया सती

॥२२॥

यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ।

ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शंभोः प्रिया सती

॥२३॥

यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ।

इन्द्रादयो लोकपालाः प्रापुस्स्वं स्वं परं पदम्

॥२४॥

जगत्पिता शिवश्शक्तिर्जगन्माता च सा सती ।

सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति

॥२५॥

दौर्भाग्यं त्वयि संक्रांतं संक्रांतास्त्वयि चापदः ।

यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ

॥२६॥

अनभ्यर्च्य शिवं शंभुं कल्याणं प्राप्नुयामिति ।

किमस्ति गर्वो दुर्वारस्स गर्वोद्य विनश्यति

॥२७॥

सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव ।

करिष्यति सहायं तं न ते पश्यामि सर्वथा

॥२८॥

यदि देवाः करिष्यंति साहाय्यमधुना तव ।

तदा नाशं समाप्स्यंति शलभा इव वह्निना

॥२९॥

ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्वति ।

सहायास्तव यावंतस्ते ज्वलंत्वद्य सत्वरम्

॥३०॥

अमराणां च सर्वेषां शपथोऽमंगलाय ते ।

करिष्यंत्यद्य साहाय्यं यदेतस्य दुरात्मनः

॥३१॥

निर्गच्छंत्वमरास्स्वोकमेतदध्वरमंडपात् ।

अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा

॥३२॥

निर्गच्छंत्वपरे सर्वे मुनिनागादयो मखात् ।

अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा

॥३३॥

निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमंडपात् ।

अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा

॥३४॥

निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमंडपात् ।

अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा

॥३५॥

ब्रह्मोवाच

इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् ।

व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी

॥३६॥

तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयस्सुराः ।

अकार्षुर्विस्मयं तात मुनयश्च तथा परे

॥३७॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः ॥ ५१ ॥