वीरभद्रयात्रावर्णनम्
ब्रह्मोवाच
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात् ।
वीरभद्रोतिसंतुष्टः प्रणनाम महेश्वरम
॥१॥शासनं शिरसा धृत्वा देवदेवस्य शूलिनः।
प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति
॥२॥शिवोथ प्रेषयामास शोभार्थं कोटिशो गणान् ।
तेन सार्द्धं महावीरान्मलयानलसन्निभान्
॥३॥अथ ते वीरभद्रस्य पुरतः प्रबला गणाः ।
पश्चादपि ययुर्वीराः कुतूहलकरा गणाः
॥४॥वीरभद्रसमेता येगणाश्शतसहस्रशः ।
पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ।
] गणैस्समेतः किलतैर्महात्मा स वीरभद्रो हरवेषभूषणः ।
सहस्रबाहुर्भुजगाधिपाढ्यो ययौ रथस्थः प्रबलोतिभीकरः
॥६॥नल्वानं च सहस्रे द्वे प्रमाणं स्यंदनस्य हि ।
अयुतेनैव सिंहानां वाहनानां प्रयत्नतः
॥७॥तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ।
शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः
॥८॥वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ।
कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा
॥९॥तुष्टुवुश्च गणा वीर शिपिविष्टे प्रचेष्टितम् ।
चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवैः
॥१०॥काली कात्यायिनीशानी चामुंडा मुंडमर्दिनी ।
भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा
॥११॥एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।
ययौ दक्षविनाशाय सर्वभूतगणैस्सह
॥१२॥डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ।
कूष्मांडाः पर्पटा श्चैव चटका ब्रह्मराक्षसाः
॥१३॥भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ।
निर्ययुस्त्वरितं वीराश्शिवाज्ञाप्रतिपालकाः
॥१४॥तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ।
निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम्
॥१५॥तेषां गणानां सर्वेषां संख्यानं शृणु नारद ।
महाबलवतां संघोमुख्यानां धैर्यशालिनाम्
॥१६॥अभ्ययाच्छंकुकर्णश्च दशकोट्या गणेश्वरः ।
दशभिः केकराक्षश्च विकृतो ष्टाभिरेव
॥१७॥चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ।
षड्भिस्सर्वाङ्गको वीरस्तथैव विकृताननः
॥१८॥ज्वालकेशो द्वादशभिः कोटिभिर्गणपुंगवः ।
सप्तभिः समदज्जीमान् दुद्रभोष्टाभिरेव च
॥१९॥पंचभिश्च कपालीशः षड्भिस्संदारको गणः ।
कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च
॥२०॥विष्टंभोऽष्टाभिर्वीरैः कोटिभिर्गणसप्तमः ।
सहस्रकोटिभिस्तात संनादः पिप्पलस्तथा
॥२१॥आवेशनस्तथाष्टाभिरष्टाभिश्चंद्रतापनः ।
महावेशः सहस्रेण कोटिना गणपो वृतः
॥२२॥कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ।
विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तम
॥२३॥कालश्च कालकश्चैव महाकालस्तथैव च ।
कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति
॥२४॥अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ।
आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः
॥२५॥सन्नाहश्शतकोट्या च कोट्या च कुमुदो गणः ।
अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः
॥२६॥काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा ।
सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ
॥२७॥काकपादोदरः षष्टिकोटिभिर्गणसत्तमः ।
तथा सन्तानकः षष्टिकोटिभिर्गणपुंगवः
॥२८॥महाबलश्च नवभिः कोटिभिः पुंगवस्तथा
॥२९॥मधुपिंगस्तथा तात गणाधीशो हि निर्ययौ ।
नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च
॥३०॥निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ।
काष्ठागूढेश्चतुष्षष्ट्या सुकेशो वृषभस्तथा
॥३१॥विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः ।
तालकेतुः षडास्यश्च पंचास्यश्च गणाधिपः
॥३२॥संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः ।
लोकांतकश्च दीप्तात्मा तथा दैत्यान्तको मुने
॥३३॥गणो भृंगीरिटिः श्रीमान् देवदेवप्रियस्तथा ।
अशनिर्भालकश्चैव चतुःषष्ट्या सह्स्रकः
॥३४॥कोटिकोटिसहस्राणां शतैर्विंश तिभिर्वृतः ।
वीरेशो ह्यभ्ययाद्वीरः वीरभद्र शिवाज्ञया
॥३५॥भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः ।
रोमजैः श्वगणै श्चैव तथा वीरो ययौ द्रुतम्
॥३६॥तदा भेरीमहानादः शंखाश्च विविधस्वनाः ।
जटाहरोमुखाश्चैव शृंगाणि विविधानि च
॥३७॥ते तानि विततान्येव बंधनानि सुखानि च ।
वादित्राणि विनेदुश्च विविधानि महोत्सवे
॥३८॥वीरभद्रस्य यात्रायां सबलस्य महामुने ।
शकुनान्यभवंस्तत्र भूरीणि सुखदानि च
॥३९॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥