मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय १३

3
रुद्रसंहिता · सतीखण्डः · 13

नारदशापः

नारद उवाच

ब्रह्मन्विधे महा प्राज्ञ वद नो वदतां वर ।

दक्षे गृहं गते प्रीत्या किमभूत्तदनंतरम्

॥१॥

ब्रह्मोवाच

दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः ।

सर्गं चकार बहुधा मानसं मम चाज्ञया

॥२॥

तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ।

दक्षो निवेदयामास ब्रह्मणे जनकाय मे

॥३॥

दक्ष उवाच

ब्रह्मंस्तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो ।

मया विरचितास्सर्वास्तावत्यो हि स्थिताः खलु

॥४॥

किं करोमि प्रजानाथ वर्द्धेयुः कथमात्मना ।

तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः

॥५॥

ब्रह्मोवाच

दक्ष प्रजापते तात शृणु मे परमं वचः ।

तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति

॥६॥

या च पञ्चजनस्यांग सुता रम्या प्रजापतेः ।

असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम्

॥७॥

वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ।

तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि

॥८॥

ब्रह्मोवाच

ततस्समुत्पादयितुं प्रजा मैथुनधर्मतः ।

उपयेमे वीरणस्य निदेशान्मे सुतां ततः

॥९॥

अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः ।

हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत्

॥१०॥

अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने ।

पितृभक्तिरता नित्यं वेदमार्गपरायणाः

॥११॥

पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् ।

प्रतीचीं तपसे तात सर्वे दाक्षायणास्सुताः

॥१२॥

तत्र नारायणसरस्तीर्थं परमपावनम् ।

गमो यत्र संजातो दिव्यसिन्धुसमुद्रयोः

॥१३॥

तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽ भवन् ।

धर्मे पारमहंसे च विनिर्द्धूतमलाशयाः

॥१४॥

प्रजाविवृद्धये ते वै तेपिर तत्र सत्तमाः ।

दाक्षायणा दृढात्मानः पित्रादेश सुयंत्रिताः

॥१५॥

त्वं च तान् नारद ज्ञात्वा तपतस्सृष्टि हेतवे ।

अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः

॥१६॥

अदृष्ट्वा तं भुवस्सृष्टि कथं कर्तुं समुद्यताः ।

हर्यश्वा दक्षतनया इत्यवोचस्तमादरात्

॥१७॥

ब्रह्मोवाच

तन्निशम्याथ हर्यश्वास्ते त्वदुक्तमतंद्रिताः ।

औत्पत्तिकधियस्सर्वे स्वयं विममृशुर्भृशम्

॥१८॥

सुशास्त्रजनकादेशं यो न वेद निवर्तकम् ।

स कथं गुणविश्रंभी कर्तुं सर्गमुपक्रमेत्

॥१९॥

इति निश्चित्य ते पुत्रास्सुधियश्चैकचेतसः ।

प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम्

॥२०॥

नारद त्वं मनश्शंभोर्लोंकानन्यचरो मुने ।

निर्विकारो महेशानमनोवृत्तिकरस्तदा

॥२१॥

काले गते बहुतरे मम पुत्रः प्रजापतिः ।

नाशं निशम्य पुत्राणां नारदादन्वतप्यत

॥२२॥

मुहुर्मुहुरुवाचेति सुप्रजात्वं शुचां पदम् ।

शुशोच बहुशो दक्षश्शिवमायाविमोहितः

॥२३॥

अहमागत्य सुप्रीत्या सांत्वयं दक्षमात्मजम् ।

शांतिभावं प्रदर्श्यैव देवं प्रबलमित्युत

॥२४॥

अथ दक्षः पंचजन्या मया स परिसांत्वितः ।

सबलाश्वाभिधान्् पुत्रान् सहस्रं चाप्यजीजनत्

॥२५॥

तेपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः ।

प्रजासर्गे अत्र सिद्धास्स्वपूर्वभ्रातरो ययुः

॥२६॥

तदुपस्पर्शनादेव नष्टाघा विमलाशयाः ।

तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः

॥२७॥

प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद ।

पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम्

॥२८॥

भ्रातृपंथानमादिश्य त्वं मुने मोघदर्शनः ।

अयाश्चोर्द्ध्वगतिं तेऽपि भ्रातृमार्गं ययुस्सुताः

॥२९॥

उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः ।

विस्मितोभूत्स मे पुत्रो दक्षो मनसि दुःखितः

॥३०॥

पूर्ववत्त्वत्कृतं दक्षश्शुश्राव चकितो भृशम् ।

पुत्रनाशं शुशोचाति पुत्रशोक विमूर्छितः

॥३१॥

चुक्रोध तुभ्यं दक्षोसौ दुष्टोयमिति चाब्रवीत् ।

आगतस्तत्र दैवात्त्वमनुग्रहकरस्तदा

॥३२॥

शोकाविष्टस्स दक्षो हि रोषविस्फुरिताधरः ।

उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन्

॥३३॥

दक्ष उवाच

किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिंगतः ।

भिक्षोमार्गोऽर्भकानां वै दर्शितस्साधुकारि नो

॥३४॥

ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः ।

विघातश्श्रेयसोऽमीषां निर्दयेन शठेन ते

॥३५॥

ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान् ।

मातरं पितरं त्यक्त्वा मोक्षमिच्छन्व्रजत्यधः

॥३६॥

निर्दयस्त्वं सुनिर्लज्जश्शिशुधीभिद्यशोऽपहा ।

हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः

॥३७॥

मुहुर्मुहुरभद्रं त्वमचरो मेऽधमा ऽधम ।

विभवेद्भ्रमतस्तेऽतः पदं लोकेषु स्थिरम्

॥३८॥

शशापेति शुचा दक्षस्त्वां तदा साधुसंमतम् ।

बुबोध नेश्वरेच्छां स शिवमायाविमोहितः

॥३९॥

शापं प्रत्यग्रहीश्च त्वं स मुने निर्विकारधीः ।

एष एव ब्रह्मसाधो सहते सोपि च स्वयम्

॥४०॥

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वि० सतीखंडे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ॥ १३ ॥