मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ३९

3
रुद्रसंहिता · सतीखण्डः · 39

विष्णुदधीचयुद्धवर्णनः

ब्रह्मोवाच

क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ ।

विप्ररूपमथास्थाय भगवान् भक्तवत्सलः १ ।

दधीचं प्राह विप्रर्षिमभिवंद्य जगद्गुरुः ।

क्षुवकार्य्यार्थमुद्युक्तश्शैवेन्द्रं छलमाश्रितः

॥२॥

विष्णुरुवाच

भो भो दधीच विप्रर्षे भवार्चनरताव्यय ।

वरमेकं वृणे त्वत्तस्तद्भवान् दातुमर्हति

॥३॥

ब्रह्मोवाच

याचितो देवदेवेन दधीचश्शैवसत्तमः ।

क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम्

॥४॥

दधीच उवाच

ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः ।

भगवान् विप्ररूपेण मायी त्वमसि वै हरिः

॥५॥

भूतं भविष्यं देवेश वर्तमानं जनार्दन ।

ज्ञानं प्रसादाद्रुद्रस्य सदा त्रैकालिकं मम

॥६॥

त्वां जानेहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत ।

आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना

॥७॥

जाने तवैव भगवन् भक्तवत्सलतां हरे ।

छलं त्यज स्वरूपं हि स्वीकुरु स्मर शंकरम्

॥८॥

अस्ति चेत्कस्यचिद्भीतिर्भवार्चनरतस्य मे ।

वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम्

॥९॥

वदामि न मृषा क्वापि शिवस्मरणसक्तधीः ।

न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि

॥१०॥

विष्णुरुवाच

भयं दधीच सर्वत्र नष्टं च तव सुव्रत ।

भवार्चनरतो यस्माद्भवान्सर्वज्ञ एव च

॥११॥

बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव ।

नियोगान्मम राजेन्द्र क्षुवात् प्रतिसहस्य च

॥१२॥

ब्रह्मोवाच

एवं श्रुत्वापि तद्वाक्यं विष्णोस्स तु महामुनिः ।

विहस्य निर्भयः प्राह दधीचश्शैवसत्तमः

॥१३॥

दधीच उवाच

न बिभेमि सदा क्वापि कुतश्चिदपि किंचन ।

प्रभावाद्देवदेवस्य शंभोस्साक्षात्पिनाकिनः

॥१४॥

ब्रह्मोवाच

ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ।

चक्रमुद्यम्य संतस्थौ दिधक्षुमुनिसत्तमम्

॥१५॥

अभवत्कुंठितं तत्र विप्रे चक्रं सुदारुणम् ।

प्रभावाच्च तदीशस्य नृपतेस्संनिधावपि

॥१६॥

दृष्ट्वा तं कुंठितास्यं तच्चक्रं विष्णुं जगाद ह ।

दधीचस्सस्मितं साक्षात्सदसद्व्यक्ति कारणम्

॥१७॥

दधीच उवाच

भगवन् भवता लब्धं पुरातीव सुदारुणम् ।

सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः ।

भवस्य तच्छुभं चक्रं न जिघांसति मामिह

॥१८॥

भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः ।

ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि

॥१९॥

ब्रह्मोवाच

स तस्य वचनं श्रुत्वा दृष्ट्वा नि्र्वीर्य्यमानुषम् ।

ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः

॥२०॥

चक्रुर्देवास्ततस्तस्य विष्णोस्साहाय्यमादरात् ।

द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः

॥२१॥

चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः ।

दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः

॥२२॥

कुशमुष्टिमथादाय दधीचस्संस्मरन् शिवम् ।

ससर्ज सर्वदेवेभ्यो वज्रास्थि सर्वतो वशी

॥२३॥

शंकरस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा ।

दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने

॥२४॥

दग्धुं देवान् मतिं चक्रे सायुधं सशिखं च तत् ।

प्रज्वलत्सर्वतश्शैवं युगांताग्र्यधिकप्रभम्

॥२५॥

नारायणेन्दुमुख्यैस्तु देवैः क्षिप्तानि यानि च ।

आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ।

देवाश्च दुद्रुवुस्सर्वे ध्वस्तवीर्या दिवौकसः ।

तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः

॥२७॥

ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ।

आत्मनस्सदृशान् दिव्यान् लक्षलक्षायुतान् गणान्

॥२८॥

ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः ।

मुनिनैकेन देवर्षे दधीचेन शिवात्मना

॥२९॥

ततो विष्णुगणान् तान्वै नियुध्य बहुशो रणे ।

ददाह सहसा सर्वान् दधी चश्शैव सत्तमः

॥३०॥

ततस्तद्विस्मयाथाय दधीचेस्य मुनेर्हरिः ।

विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः

॥३१॥

तस्य देहे हरेः साक्षादपश्यद्द्विजसत्तमः ।

दधीचो देवतादीनां जीवानां च सहस्रकम्

॥३२॥

भूतानां कोटयश्चैव गणानां कोटयस्तथा ।

अंडानां कोटयश्चैव विश्वमूतस्तनौ तदा

॥३३॥

दृष्ट्वैतदखिलं तत्र च्यावनिस्सततं तदा ।

विष्णुमाह जगन्नाथं जगत्स्तु वमजं विभुम्

॥३४॥

दधीच उवाच

मायां त्यज महाबाहो प्रतिभासो विचारतः ।

विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव

॥३५॥

मयि पश्य जगत्सर्वं त्वया युक्तमतंद्रितः ।

ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते

॥३६॥

ब्रह्मोवाच

इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ।

ब्रह्मांडं च्यावनिश्शंभुतेजसा पूर्णदेहकः

॥३७॥

ददाह विष्णुं देवेशं दधीचश्शैवसत्तमः ।

संस्मरञ् शंकरं चित्ते विहसन् विभयस्सुधीः

॥३८॥

दधीच उवाच

मायया त्वनया किं वा मंत्रशक्त्याथ वा हरे ।

सत्कामायामिमां तस्माद्योद्धुमर्हसि यत्नतः

॥३९॥

ब्रह्मोवाच

एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा ।

शंभुतेजोमयं विष्णुश्चुकोपातीव तं मुनिम्

॥४०॥

देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ।

योद्धुकामाश्च मुनिना दधीचेन प्रतापिना

॥४१॥

एतस्मिन्नंतरे तत्रागमन्मत्संगतः क्षुवः ।

अवारयंतं निश्चेष्टं पद्मयोनिं हरिं सुरान्

॥४२॥

निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः ।

जगाम निकटं तस्य प्रणनाम मुनिं हरिः

॥४३॥

क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् ।

दधीचमभिवाद्यैव प्रार्थयामास विक्लवः

॥४४॥

क्षुव उवाच

प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे ।

प्रसीद परमेशान दुर्लक्ष्ये दुर्जनैस्सह

॥४५॥

ब्रह्मोवाच

इत्याकर्ण्य वचस्तस्य राज्ञस्सुरगणस्य हि ।

अनुजग्राह तं विप्रो दधीचस्तपसां निधिः

॥४६॥

अथ दृष्ट्वा रमेशादीन् क्रोधविह्वलितो मुनिः ।

हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि

॥४७॥

दधीच उवाच

रुद्रकोपाग्निना देवास्सदेवेंद्रा मुनीश्वराः ।

ध्वस्ता भवंतु देवेन विष्णुना च समं गणैः

॥४८॥

ब्रह्मोवाच

एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः ।

देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः

॥४९॥

ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ।

इत्युक्त्वा स स्फुट विप्रः प्रविवेश निजाश्रमम्

॥५०॥

दधीचमभिवंद्यैव क्षुवो निजगृहं गतः ।

विष्णुर्जगाम स्वं लोकं सुरैस्सह यथागतम्

॥५१॥

तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् ।

स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात्

॥५२॥

कथितस्तव संक्षेपाद्वादः क्षुवदधीचयोः ।

नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना

॥५३॥

य इदं कीत्तयेन्नित्यं वादं क्षुवदधीचयोः ।

जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः

॥५४॥

रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा ।

मृत्युभीतिभवेन्नैव विजयी च भविष्यति

॥५५॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुदधीचयुद्धवर्णनो नाम नवत्रिंशोऽध्यायः ॥ ३९ ॥