मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय २०

3
रुद्रसंहिता · सृष्टिखण्डः · 20

कैलासगमनम्

ब्रह्मोवाच

नारद त्वं शृणु मुने शिवागमनसत्तमम् ।

कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात्

॥१॥

निधिपत्व वरं दत्त्वा गत्वा स्वस्थानमुत्तमम् ।

विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः

॥२॥

विध्यंगजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत् ।

तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम्

॥३॥

रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्मनिष्फलः ।

हरि ब्रह्मादिभिस्सेव्यो मदभिन्नो निरंजन

॥४॥

तत्स्वरूपेण तत्रैव सुहृद्भूवा विलास्यहम् ।

कुबेरस्य च वत्स्यामि करिष्यामि तपो महत्

॥५॥

इति संचिंत्य रुद्रोऽसौ शिवेच्छां गंतुमुत्सुकः ।

ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम्

॥६॥

त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः ।

आह्वानगतिसंयुक्तो विचित्रः सांद्रशब्दकः

॥७॥

तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा ।

आगमा निगमामूर्तास्सिद्धा जग्मुश्च तत्र वै

॥८॥

सुरासुराद्यास्सकलास्तत्र जग्मुश्च सोत्सवाः ।

सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः

॥९॥

गणपाश्च महाभागास्सर्वलोक नमस्कृताः ।

तेषां संख्यामहं वच्मि सावधानतया शृणु

॥१०॥

अभ्ययाच्छंखकर्णश्च गणकोट्या गणेश्वरः ।

दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च

॥११॥

चतुःषष्ट्या विशाखश्च नवभिः पारियात्रकः ।

षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च

॥१२॥

जालंको हि द्वादशभिः कोटिभिर्गणपुंगवः ।

सप्तभिस्समदः श्रीमाँस्तथैव विकृताननः

॥१३॥

पंचभिश्च कपाली हि षड्भिः सन्दारकश्शुभः ।

कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा

॥१४॥

विष्टंभोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः

॥१५॥

महाकेशस्सहस्रेण कोटीनां गणपो वृतः

॥१६॥

कुण्डी द्वादशभिर्वाहस्तथा पर्वतकश्शुभः ।

कालश्च कालकश्चैव महाकालः शतेन वै

॥१७॥

अग्निकश्शतकोट्या वै कोट्याभिमुख एव च ।

आदित्यमूर्द्धा कोट्या च तथा चैव धनावहः

॥१८॥

सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।

अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः

॥१९॥

काकपादोऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः ।

महाबलश्च नवभिर्मधु पिंगश्च पिंगलः

॥२०॥

नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च ।

कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः

॥२१॥

कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ।

तत्राजगाम सर्वेशः कैलासगमनाय वै

॥२२॥

काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ।

कोटिभिस्सप्तभिश्चैत्रो नकुलीशस्त्वयं प्रभुः

॥२३॥

लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः ।

देवो भृंगी रिटिः श्रीमान्देवदेवप्रियस्तथा

॥२४॥

अशनिर्भानुकश्चैव चतुष्षष्ट्या सनातनः ।

नंदीश्वरो गणाधीशः शतकोट्या महाबलः

॥२५॥

एते चान्ये च गणपा असंख्याता महाबलः ।

सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः

॥२६॥

सर्वे चंद्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः ।

हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः

॥२७॥

ब्रह्मेन्द्रविष्णुसंकाशा अणिमादि गणैर्वृताः ।

सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः

॥२८॥

एते गणाधिपाश्चान्ये महान्मानोऽमलप्रभाः ।

जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः

॥२९॥

गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् ।

सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः

॥३०॥

इति विष्ण्वादिभिस्सार्द्धं महेशः परमेश्वरः ।

कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः

॥३१॥

कुबेरोप्यागतं शंभुं पूजयामास सादरम् ।

भक्त्या नानोपहारैश्च परिवारसमन्वितः

॥३२॥

ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् ।

शिवानुगान्समानर्च शिवतोषणहेतवे

॥३३॥

अथ शम्भुस्तमालिंग्य कुबेरं प्रीतमानसः ।

मूर्ध्निं चाघ्राय संतस्थावलकां निकषाखिलैः

॥३४॥

शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः ।

नानाभक्तैर्निवासाय स्वपरेषां यथोचितम्

॥३५॥

विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने ।

रचनां रचयामास द्रुतं शम्भोरनुज्ञया

॥३६॥

अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा

॥३७॥

कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् ।

सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः

॥३८॥

अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः ।

अथ सर्वे प्रमुदिता विष्णुप्रभृतयस्सुराः ।

मुनयश्चापरे सिद्धा अभ्यषिंचन्मुदा शिवम्

॥३९॥

समानर्चुः क्रमात्सर्वे नानोपायनपाणयः ।

नीराजनं समाकार्षुर्महोत्सवपुरस्सरम्

॥४०॥

तदासीत्सुमनोवृष्टिर्मंगलायतना मुने ।

सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः

॥४१॥

जयशब्दो नमश्शब्दस्तत्रासीत्सर्वसंस्कृतः ।

तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः

॥४२॥

स्थित्वा सिंहासने शंभुर्विराजाधिकं तदा ।

सर्वैस्संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम्

॥४३॥

अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक् ।

अर्थ्याभिर्वाग्भिरिष्टाभिश्शकरं लोकशंकरम्

॥४४॥

प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः ।

मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः

॥४५॥

शिवाज्ञयाथ ते सर्वे स्वंस्वं धाम ययुर्मुने ।

प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह

॥४६॥

उपवेश्यासने विष्णुं माञ्च शम्भुरुवाच ह ।

बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः

॥४७॥

शिव उवाच

हे हरे हे विधे तातौ युवां प्रियतरौ मम ।

सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा

॥४८॥

गच्छतं निर्भयन्नित्यं स्वस्थानश्च मदाज्ञया ।

सुखप्रदाताहं वै वाम्विशेषात्प्रेक्षकस्सदा

॥४९॥

इत्याकर्ण्य वचश्शम्भोस्सुप्रणम्य तदाज्ञया ।

अहं हरिश्च स्वं धामागमाव प्रीतमानसौ

॥५०॥

तदानीमेव सुप्रीतश्शंकरो निधिपम्मुदा ।

उपवेश्य गृहीत्वा तं कर आह शुभं वचः

॥५१॥

शिव उवाच

तव प्रेम्णा वशीभूतो मित्रतागमनं सखे ।

स्वस्थानङ्गच्छ विभयस्सहायोहं सदानघ

॥५२॥

इत्याकर्ण्य वचश्शम्भोः कुबेरः प्रीतमानसः ।

तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः

॥५३॥

स उवाच गिरौ शम्भुः कैलासे पर्वतोत्तमे ।

सगणो योगनिरतस्स्वच्छन्दो ध्यान तत्परः

॥५४॥

क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् ।

इतिहासगणान्प्रीत्यावादीत्स्वच्छन्दमानसः

॥५५॥

क्वचित्कैलास कुधरसुस्थानेषु महेश्वरः ।

विजहार गणैः प्रीत्या विविधेषु विहारवित्

॥५६॥

इत्थं रुद्रस्वरूपोऽसौ शंकरः परमेश्वरः ।

अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः

॥५७॥

नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः ।

पश्चादवाप स्वाम्पत्नीन्दक्षपत्नीसमुद्भवाम्

॥५८॥

विजहार तया सत्या दक्षपुत्र्या महेश्वरः ।

सुखी बभूव देवर्षे लोकाचारपरायणः

॥५९॥

इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर ।

कैलासागमनञ्चास्य सखित्वान्निधिपस्य हि

॥६०॥

तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी ।

इहामुत्र च या नित्यं सर्वकामफलप्रदा

॥६१॥

इमां कथाम्पठेद्यस्तु शृणुयाद्वा समाहितः ।

इह भुक्तिं समासाद्य लभेन्मुक्तिम्परत्र सः

॥६२॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ॥ २० ॥