एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः
ब्रह्मोवाच
एवं तयोर्मुनिश्रेष्ठ दर्शनं कांक्षमाणयोः ।
विगर्वयोश्च सुरयोः सदा नौ स्थितयोर्मुने
॥१॥दयालुरभवच्छंभुर्दीनानां प्रतिपालकः ।
गर्विणां गर्वहर्ता च सवेषां प्रभुरव्ययः
॥२॥तदा समभवत्तत्र नादो वै शब्दलक्षणः ।
ओमोमिति सुरश्रेष्ठात्सुव्यक्तः प्लुतलक्षणः
॥३॥किमिदं त्विति संचिंत्य मया तिष्ठन्महास्वनः ।
विष्णुस्सर्वसुराराध्यो निर्वैरस्तुष्टचेतसा
॥४॥लिंगस्य दक्षिणे भागे तथापश्यत्सनातनम् ।
आद्यं वर्णमकाराख्यमुकारं चोत्तरं ततः
॥५॥मकारं मध्यतश्चैव नादमंतेऽस्य चोमिति ।
सूर्यमंडलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे
॥६॥उत्तरे पावकप्रख्यमुकारमृषि सत्तम ।
शीतांशुमण्डलप्रख्यं मकारं तस्य मध्यतः
॥७॥तस्योपरि तदाऽपश्यच्छुद्धस्फटिकसुप्रभम् ।
तुरीयातीतममलं निष्कलं निरुपद्रवम्
॥८॥निर्द्वंद्वं केवलं शून्यं बाह्याभ्यंतरवर्जितम् ।
स बाह्यभ्यंतरे चैव बाह्याभ्यंतरसंस्थितम्
॥९॥आदिमध्यांतरहितमानंदस्यापिकारणम् ।
सत्यमानन्दममृतं परं ब्रह्मपरायणम्
॥१०॥कुत एवात्र संभूतः परीक्षावोऽग्निसंभवम् ।
अधोगमिष्याम्यनलस्तंभस्यानुपमस्य च
॥११॥वेदशब्दोभयावेशं विश्वात्मानं व्यचिंतयत् ।
तदाऽभवदृषिस्तत्र ऋषेस्सारतमं स्मृतम्
॥१२॥तेनैव ऋषिणा विष्णुर्ज्ञातवान्परमेश्वरम् ।
महादेवं परं ब्रह्म शब्दब्रह्मतनुं परम्
॥१३॥चिंतया रहितो रुद्रो वाचो यन्मनसा सह ।
अप्राप्य तन्निवर्तंते वाच्यस्त्वेकाक्षरेण सः
॥१४॥एकाक्षरेण तद्वाक्यमृतं परमकारणम् ।
सत्यमानन्दममृतं परं ब्रह्म परात्परम्
॥१५॥एकाक्षरादकाराख्याद्भगवान्बीजकोण्डजः ।
एकाक्षरादुकाराख्याद्धरिः परमकारणम्
॥१६॥एकाक्षरान्मकाराख्याद्भगवान्नीललोहितः ।
सर्गकर्ता त्वकाराख्यो ह्युकाराख्यस्तु मोहकः
॥१७॥मकाराख्यस्तु यो नित्यमनुग्रहकरोऽभवत् ।
मकाराख्यो विभुर्बीजी ह्यकारो बीज उच्यते
॥१८॥उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ।
बीजी च बीजं तद्योनिर्नादाख्यश्च महेश्वरः
॥१९॥बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ।
अस्य लिंगादभूद्बीजमकारो बीजिनः प्रभोः
॥२०॥उकारयोनौ निःक्षिप्तमवर्द्धत समंततः ।
सौवर्णमभवच्चांडमावेद्य तदलक्षणम्
॥२१॥अनेकाब्दं तथा चाप्सु दिव्यमंडं व्यवस्थितम् ।
ततो वर्षसहस्रांते द्विधाकृतमजोद्भवम्
॥२२॥अंडमप्सु स्थितं साक्षाद्व्याघातेनेश्वरेण तु ।
तथास्य सुशुभं हैमं कपालं चोर्द्ध्वसंस्थितम्
॥२३॥जज्ञे सा द्यौस्तदपरं पृथिवी पंचलक्षणा ।
तस्मादंडाद्भवो जज्ञे ककाराख्यश्चतुर्मुखः
॥२४॥स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ।
एवमोमोमिति प्रोक्तमित्याहुर्यजुषां वराः
॥२५॥यजुषां वचनं श्रुत्वा ऋचः समानि सादरम् ।
एवमेव हरे ब्रह्मन्नित्याहुश्चावयोस्तदा
॥२६॥ततो विज्ञाय देवेशं यथावच्छक्तिसंभवैः ।
मंत्रं महेश्वरं देवं तुष्टाव सुमहोदयम्
॥२७॥एतस्मिन्नंतरेऽन्यच्च रूपमद्भुतसुन्दरम् ।
ददर्श च मया सार्द्धं भगवान्विश्वपालकः
॥२८॥पंचवक्त्रं दशभुजं गौरकर्पूरवन्मुने ।
नानाकांति समायुक्तं नानाभूषणभूषितम्
॥२९॥महोदारं महावीर्यं महापुरुषलणम् ।
तं दृष्ट्वा परमं रूपं कृतार्थोऽभून्मया हरिः
॥३०॥अथ प्रसन्नो भगवान्महेशः परमेश्वरः ।
दिव्यं शब्दमयं रूपमाख्याय प्रहसन्स्थितः
॥३१॥अकारस्तस्य मूर्द्धा हि ललाटो दीर्घ उच्यते ।
इकारो दक्षिणं नेत्रमीकारो वामलोचनम्
॥३२॥उकारो दक्षिणं श्रोत्रमूकारो वाम उच्यते ।
ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः
॥३३॥वामं कपोलमूकारो लृ लॄ नासापुटे उभे ।
एकारश्चोष्ठ ऊर्द्ध्वश्च ह्यैकारस्त्वधरो विभोः
॥३४॥ओकारश्च तथौकारो दन्तपंक्तिद्वयं क्रमात् ।
अमस्तु तालुनी तस्य देवदेवस्य शूलिनः
॥३५॥कादिपंचाक्षराण्यस्य पञ्च हस्ताश्च दक्षिणे ।
चादिपंचाक्षराण्येवं पंच हस्तास्तु वामतः
॥३६॥टादिपंचाक्षरं पादास्तादिपंचाक्षरं तथा ।
पकार उदरं तस्य फकारः पार्श्व उच्यते
॥३७॥बकारो वामपार्श्वस्तु भकारः स्कंध उच्यते ।
मकारो हृदयं शंभोर्महादेवस्य योगिनः
॥३८॥यकारादिसकारान्ता विभोर्वै सप्तधातवः ।
हकारो नाभिरूपो हि क्षकारो घ्राण उच्यते
॥३९॥एवं शब्दमयं रूपमगुणस्य गुणात्मनः ।
दृष्ट्वा तमुमया सार्द्धं कृतार्थोऽभून्मया हरिः
॥४०॥एवं दृष्ट्वा महेशानं शब्दब्रह्मतनुं शिवम् ।
प्रणम्य च मया विष्णुः पुनश्चापश्यदूर्द्ध्वतः
॥४१॥ॐकारप्रभवं मंत्रं कलापंचकसंयुतम् ।
शुद्धस्फटिकसंकाशं शुभाष्टत्रिंशदक्षरम्
॥४२॥मेधाकारमभूद्भूयस्सर्वधर्मार्थसाधकम् ।
गायत्रीप्रभवं मंत्रं सहितं वश्यकारकम्
॥४३॥चतुर्विंशतिवर्णाढ्यं चतुष्कालमनुत्तमम् ।
अथ पंचसितं मंत्रं कलाष्टक समायुतम्
॥४४॥आभिचारिकमत्यर्थं प्रायस्त्रिंशच्छुभाक्षरम् ।
यजुर्वेदसमायुक्तं पञ्चविंशच्छुभाक्षरम्
॥४५॥कलाष्टकसमा युक्तं सुश्वेतं शांतिकं तथा ।
त्रयोदशकलायुक्तं बालाद्यैस्सह लोहितम्
॥४६॥बभूवुरस्य चोत्पत्तिवृद्धिसंहारकारणम् ।
वर्णा एकाधिकाः षष्टिरस्य मंत्रवरस्य तु
॥४७॥पुनर्मृत्युंजयं मन्त्रं पञ्चाक्षरमतः परम् ।
चिंतामणिं तथा मंत्रं दक्षिणामूर्ति संज्ञकम्
॥४८॥ततस्तत्त्वमसीत्युक्तं महावाक्यं हरस्य च ।
पञ्चमंत्रांस्तथा लब्ध्वा जजाप भगवान्हरिः
॥४९॥अथ दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् ।
ईशानमीशमुकुटं पुरुषाख्यं पुरातनम्
॥५०॥अघोरहृदयं हृद्यं सर्वगुह्यं सदाशिवम् ।
वामपादं महादेवं महाभोगीन्द्रभूषणम्
॥५१॥विश्वतः पादवन्तं तं विश्वतोक्षिकरं शिवम् ।
ब्रह्मणोऽधिपति सर्गस्थितिसंहारकारणम्
॥५२॥तुष्टाव वाग्भिरिष्टाभिस्साम्बं वरदमीश्वरम् ।
मया च सहितो विष्णुर्भगवांस्तुष्टचेतसा
॥५३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शब्दब्रह्मतनुवर्णनो नामाष्टमोऽध्यायः ॥ ८ ॥