सृष्टिवर्णनः
ब्रह्मोवाच
शब्दादीनि च भूतानि पंचीकृत्वाहमात्मना ।
तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम्
॥१॥पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद ।
कलादियुगपर्येतान्कालानन्यानवासृजम्
॥२॥सृष्ट्यंतानपरांश्चापि नाहं तुष्टोऽभव न्मुने ।
ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने
॥३॥मरीचिं च स्वनेत्राभ्यां हृदयाद्भृगुमेव च ।
शिरसोऽगिरसं व्यानात्पुलहं मुनिसत्तमम्
॥४॥उदानाच्च पुलस्त्यं हि वसिष्ठञ्च समानतः ।
क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः
॥५॥असृजं त्वां तदोत्संगाच्छायायाः कर्दमं मुनिम् ।
संकल्पादसृजं धर्मं सर्वसाधनसाधनम्
॥६॥एवमेतानहं सृष्ट्वा कृतार्थस्साधकोत्तमान् ।
अभवं मुनिशार्दूल महादेवप्रसादतः
॥७॥ततो मदाज्ञया तात धर्मः संकल्पसंभवः ।
मानवं रूपमापन्नस्साधकैस्तु प्रवर्तितः
॥८॥ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् ।
सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने
॥९॥ततोऽहं शंकरेणाथ प्रेरितोंऽतर्गतेन ह ।
द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने
॥१०॥अर्द्धेन नारी पुरुषश्चार्द्धेन संततो मुने ।
स तस्यामसृजद्द्वंद्वं सर्वसाधनमुत्तमम्
॥११॥स्वायंभुवो मनुस्तत्र पुरुषः परसाधनम् ।
शतरूपाभिधा नारी योगिनी सा तपस्विनी
॥१२॥सा पुनर्मनुना तेन गृहीतातीव शोभना ।
विवाहविधिना ताताऽसृजत्सर्गं समैथुनम्
॥१३॥तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः ।
तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः
॥१४॥आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ।
आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम्
॥१५॥ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताः ।
तासां प्रसूतिप्रसवैस्सर्वं व्याप्तं चराचरम्
॥१६॥आकूत्यां च रुचेश्चाभूद्वंद्वं यज्ञश्च दक्षिणा ।
यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश
॥१७॥देवहूत्यां कर्दमाच्च बह्व्यो जातास्सुता मुने ।
दशाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः
॥१८॥धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ।
शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर
॥१९॥श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ।
वसुःर्बुद्धि लज्जा शांतिः सिद्धिः कीर्तिस्त्रयोदश
॥२०॥ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः ।
ख्यातिस्सत्पथसंभूतिः स्मृतिः प्रीतिः क्षमा तथा
॥२१॥सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ।
भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः
॥२२॥पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ।
अत्रिर्वासिष्ठो वह्निश्च पितरश्च यथाक्रमम्
॥२३॥ख्यातास्ता जगृहुः कन्या भृग्वाद्यास्साधका वराः ।
ततस्संपूरितं सर्वं त्रैलोक्यं सचराचरम्
॥२४॥एवं कर्मानुरूपेण प्रणिनामंबिकापते ।
आज्ञया बहवो जाता असंख्याता द्विजर्षभाः
॥२५॥कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः ।
तासां दश च धर्माय शशिने सप्तविंशतिम्
॥२६॥विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश ।
चतस्रः पररूपाय ददौ तार्क्ष्याय नारद
॥२७॥भृग्वंगिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् ।
ताभ्यस्तेभ्यस्तु संजाता बह्वी सृष्टिश्चराचरा
॥२८॥त्रयोदशमितास्तस्मै कश्यपाय महात्मने ।
दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम
॥२९॥तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् ।
स्थावरं जंगमं चैव शून्य नैव तु किंचन
॥३०॥देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे ।
वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः
॥३१॥दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् ।
पातालतलमारभ्य सत्यलोकावधि ध्रुवम्
॥३२॥ब्रह्मांडं सकलं व्याप्तं शून्यं नैव कदाचन ।
एवं सृष्टिः कृता सम्यग्ब्रह्मणा शंभुशासनात्
॥३३॥सती नाम त्रिशूलाग्रे सदा रुद्रेण रक्षिता ।
तपोर्थं निर्मिता पूर्वं शंभुना सर्वविष्णुना
॥३४॥सैव दक्षात्समुद्भूता लोककार्यार्थमेव च ।
लीलां चकार बहुशो भक्तोद्धरणहेतवे
॥३५॥वामांगो यस्य वैकुंठो दक्षिणांगोऽहमेव च ।
रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः
॥३६॥अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः ।
स्वयं सदा निर्गुणश्च परब्रह्माव्ययश्शिवः
॥३७॥विष्णुस्सत्त्वं रजोऽहं च तमो रुद्र उदाहृतः ।
लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा
॥३८॥अंतस्तमो बहिस्सत्त्वो विष्णूरुद्रस्तथा मतः ।
अंतस्सत्त्वस्तमोबाह्यो रजोहं सर्वेथा मुने
॥३९॥राजसी च सुरा देवी सत्त्वरूपात्तु सा सती ।
लक्ष्मीस्तमोमयी ज्ञेया विरूपा च शिवा परा
॥४०॥एवं शिवा सती भूत्वा शंकरेण विवाहिता ।
पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ
॥४१॥पुनश्च पार्वती जाता देवप्रार्थनया शिवा ।
तपः कृत्वा सुविपुलं पुनश्शिवमुपागता
॥४२॥तस्या नामान्यनेकानि जातानि च मुनीश्वर ।
कालिका चंडिका भद्रा चामुंडा विजया जया
॥४३॥जयंती भद्रकाली च दुर्गा भगवतीति च ।
कामाख्या कामदा ह्यम्बा मृडानी सर्वमंगला
॥४४॥नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च ।
गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती
॥४५॥गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः ।
मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम्
॥४६॥एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम ।
शिवाज्ञया विरचितो ब्रह्मांडस्य मयाऽखिलः
॥४७॥परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः ।
अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः
॥४८॥शिवया रमते स्वैरं शिवलोके मनोरमे ।
स्वतंत्रः परमात्मा हि निर्गुणस्सगुणोऽपि वै
॥४९॥तस्य पूर्णवतारो हिं रुद्रस्साक्षाच्छिवः स्मृतः ।
कैलासे भवनं रम्यं पंचवक्त्रश्चकार ह ।
ब्रह्मांडस्य तथा नाशे तस्य नाशोस्ति वै न हि
॥५०॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खंडे सृष्ट्युपाख्याने ब्रह्मनारदसंवादे सृष्टिवर्णनो नाम षोडशोऽध्यायः ॥ १६ ॥