मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय ४

3
रुद्रसंहिता · सृष्टिखण्डः · 4

विष्णूपदेशवर्णनः

ऋषय ऊचुः

सूत सूत महाप्राज्ञ वर्णिता ह्यद्भुता कथा ।

धन्या तु शांभवी माया तदधीनं चराचरम्

॥१॥

गतयोर्गणयोश्शंभोस्स्वयमात्मेच्छया विभोः ।

किं चकार मुनिः क्रुद्धो नारदः स्मरविह्वलः

॥२॥

सूत उवाच

विमोहितो मुनिर्दत्त्वा तयोश्शापं यथोचितम् ।

जले मुखं निरीक्ष्याथ स्वरूपं गिरिशेच्छया

॥३॥

शिवेच्छया न प्रबुद्धः स्मृत्वा हरिकृतच्छलम् ।

क्रोधं दुर्विषहं कृत्वा विष्णुलोकं जगाम ह

॥४॥

उवाच वचनं कुद्धस्समिद्ध इव पावकः ।

दुरुक्तिगर्भितं व्यङ्गः नष्टज्ञानश्शिवेच्छया

॥५॥

नारद उवाच

हे हरे त्वं महादुष्टः कपटी विश्वमोहनः ।

परोत्साहं न सहसे मायावी मलिनाशयः

॥६॥

मोहिनीरूपमादाय कपटं कृतवान्पुरा ।

असुरेभ्योऽपाययस्त्वं वारुणीममृतं न हि

॥७॥

चेत्पिबेन्न विषं रुद्रो दयां कृत्वा महेश्वरः ।

भवेन्नष्टाऽखिला माया तव व्याजरते हरे

॥८॥

गतिस्स कपटा तेऽतिप्रिया विष्णो विशेषतः ।

साधुस्वभावो न भवान्स्वतंत्रः प्रभुणा कृतः

॥९॥

कृतं समुचितन्नैव शिवेन परमात्मना ।

तत्प्रभावबलं ध्यात्वा स्वतंत्रकृतिकारकः ।

त्वद्गतिं सुसमाज्ञाय पश्चात्तापमवाप सः ।

विप्रं सर्वोपरि प्राह स्वोक्तवेद प्रमाणकृत्

॥११॥

तज्ज्ञात्वाहं हरे त्वाद्य शिक्षयिष्यामि तद्बलात् ।

यथा न कुर्याः कुत्रापीदृशं कर्म कदाचन

॥१२॥

अद्यापि निर्भयस्त्वं हि संगं नापस्तरस्विना ।

इदानीं लप्स्यसे विष्णो फलं स्वकृतकर्मणः

॥१३॥

इत्थमुक्त्वा हरिं सोथ मुनिर्माया विमोहितः ।

शशाप क्रोधनिर्विण्णो ब्रह्मतेजः प्रदर्शयन्

॥१४॥

स्त्रीकृते व्याकुलं विष्णो मामकार्षीर्विमोहकः ।

अन्वकार्षीस्स्वरूपेण येन कापट्यकार्यकृत्

॥१५॥

तद्रूपेण मनुष्यस्त्वं भव तद्दुःखभुग्घरे ।

यन्मुखं कृतवान्मे त्वं ते भवंतु सहायिनः

॥१६॥

त्वं स्त्रीवियोगजं दुःखं लभस्व परदुःखदः ।

मनुष्यगतिकः प्रायो भवाज्ञानविमोहितः

॥१७॥

इति शप्त्वा हरिं मोहान्नारदोऽज्ञानमोहितः ।

विष्णुर्जग्राह तं शापं प्रशंसञ्शांभवीमजाम्

॥१८॥

अथ शंभुर्महालीलो निश्चकर्ष विमोहिनीम ।

स्वमायां मोहितो ज्ञानी नारदोप्यभवद्यया

॥१९॥

अंतर्हितायां मायायां पूर्ववन्मतिमानभूत् ।

नारदो विस्मितमनाः प्राप्तबोधो निराकुलः

॥२०॥

पश्चात्तापमवाप्याति निनिन्द स्वं मुहुर्मुहुः ।

प्रशशंस तदा मायां शांभवीं ज्ञानिमोहिनीम्

॥२१॥

अथ ज्ञात्वा मुनिस्सर्वं मायाविभ्रममात्मनः ।

अपतत्पादयोर्विष्णोर्नारदो वैष्णवोत्तमः

॥२२॥

हर्य्युपस्थापितः प्राह वचनं नष्ट दुर्मतिः ।

मया दुरक्तयः प्रोक्ता मोहितेन कुबुद्धिना

॥२३॥

दत्तश्शापोऽपि तेनाथ वितथं कुरु तं प्रभो ।

महत्पापमकार्षं हि यास्यामि निरयं धुवम्

॥२४॥

कमुपायं हरे कुर्यां दासोऽहं ते तमादिश ।

येन पापकुलं नश्येन्निरयो न भवेन्मम

॥२५॥

इत्युक्त्वा स पुनर्विष्णोः पादयोर्मुनिसत्तमः ।

पपात सुमतिर्भक्त्या पश्चात्तापमुपागतः

॥२६॥

अथ विष्णुस्तमुत्थाप्य बभाषे सूनृतं वचः ।

विष्णुरुवाच ।

न खेदं कुरु मे भक्त वरस्त्वं नात्र संशयः

॥२७॥

शृणु तात प्रवक्ष्यामि सुहितं तव निश्चयात् ।

निरयस्ते न भविता शिवश्शं ते विधास्यति

॥२८॥

यदकार्षीश्शिववचो वितथं मदमोहितः ।

स दत्तवानीदृशं ते फलं कर्म फलप्रदः

॥२९॥

शिवेच्छाऽखिलं जातं कुर्वित्थं निश्चितां मतिम् ।

गर्वापहर्ता स स्वामी शंकरः परमेश्वरः

॥३०॥

परं ब्रह्म परात्मा स सच्चिदानंदबोधनः ।

निर्गुणो निर्विकारो च रजस्सत्वतमःपर

॥३१॥

स एवमादाय मायां स्वां त्रिधा भवति रूपतः ।

ब्रह्मविष्णुमहेशात्मा निर्गुणोऽनिर्गुणोऽपि सः

॥३२॥

निर्गुणत्वे शिवाह्वो हि परमात्मा महेश्वरः ।

परं ब्रह्माव्ययोऽनंतो महादेवेति गीयते

॥३३॥

तत्सेवया विधिस्स्रष्टा पालको जगतामहम् ।

स्वयं सर्वस्य संहारी रुद्ररूपेण सर्वदा

॥३४॥

साक्षी शिवस्वरूपेण मायाभिन्नस्स निर्गुणः ।

स्वेच्छाचारी संविहारी भक्तानुग्रहकारकः

॥३५॥

शृणु त्वं नारद मुने सदुपायं सुखप्रदम् ।

सर्वपापापहर्त्तारं भुक्तिमुक्तिप्रदं सदा

॥३६॥

इत्युक्त्वास्त्वसंशयं सर्वं शंकरसद्यशः ।

शतनामशिवस्तोत्रं सदानन्यमतिर्जप

॥३७॥

यज्जपित्वा द्रुतं सर्वं तव पापं विनश्यति ।

इत्युक्त्वा नारदं विष्णुः पुनः प्राह दयान्वितः

॥३८॥

मुने न कुरु शोकं त्वं त्वया किंचित्कृतं नहि ।

स्वेच्छया कृतवान्शंभुरिदं सर्वं न संशयः

॥३९॥

अहार्षित्त्वन्मतिं दिव्यां काम क्लेशमदात्स ते ।

त्वन्मुखाद्दापयांचक्रे शापं मे स महेश्वरः

॥४०॥

इत्थं स्वचरितं लोके प्रकटीकृतवान् स्वयम् ।

मृत्युंजयः कालकालो भक्तोद्धारपरायणः

॥४१॥

न मे शिवसमानोस्ति प्रियः स्वामी सुखप्रदः ।

सर्वशक्तिप्रदो मेऽस्ति स एव परमेश्वरः

॥४२॥

तस्योपास्यां कुरु मुने तमेव सततं भज ।

तद्यशः शृणु गाय त्वं कुरु नित्यं तदर्चनम्

॥४३॥

कायेन मनसा वाचा यश्शंकरमुपैति भो ।

स पण्डित इति ज्ञेयस्स जीवन्मुक्त उच्यते

॥४४॥

शिवेति नामदावाग्नेर्महापातकप र्वताः ।

भस्मीभवन्त्यनायासात्सत्यं सत्यं न संशयः

॥४५॥

पापमूलानि दुःखानि विविधान्यपि तान्यतः ।

शिवार्चनैकनश्यानि नान्य नश्यानि सर्वथा

॥४६॥

स वैदिकस्य पुण्यात्मा स धन्यस्स बुधो मुने ।

यस्सदा कायवाक्चित्तैश्शरणं याति शंकरम्

॥४७॥

भवंति विविधा धर्मा येषां सद्यःफलोन्मुखाः ।

तेषां भवति विश्वासस्त्रिपुरांतकपूजने

॥४८॥

पातकानि विनश्यंति यावंति शिवपूजया ।

भुवि तावंति पापानि न संत्येव महामुने

॥४९॥

ब्रह्महत्यादिपापानां राशयोप्यमिता मुने ।

शिवस्मृत्या विनश्यंति सत्यंसत्यं वदाम्यहम्

॥५०॥

शिवनामतरीं प्राप्य संसाराब्धिं तरंति ते ।

संसारमूलपापानि तस्य नश्यंत्यसंशयम्

॥५१॥

संसारमूलभूतानां पातकानां महामुने ।

शिवनामकुठारेण विनाशो जायते ध्रुवम्

॥५२॥

शिवनामामृतं पेयं पापदावानलार्दितैः ।

पापदावाग्नितप्तानां शांतिस्तेन विना न हि

॥५३॥

शिवेति नामपीयूषवर्षधारापरिप्लुतः ।

संसारदवमध्यपि न शोचति न संशयः

॥५४॥

न भक्तिश्शंकरे पुंसां रागद्वेषरतात्मनाम् ।

तद्विधानां हि सहसा मुक्तिर्भवति सर्वथा

॥५५॥

अनंतजन्मभिर्येन तपस्तप्तं भविष्यति ।

तस्यैव भक्तिर्भवति भवानी प्राणवल्लभे

॥५६॥

जातापि शंकरे भक्तिरन्यसाधारणी वृथा ।

परं त्वव्यभिचारेण शिवभक्तिरपेक्षिता

॥५७॥

यस्या साधारणी शंभौ भक्तिरव्यभिचारिणी ।

तस्यैव मोक्षस्सुलभो नास्येतिन्य मतिर्मम

॥५८॥

कृत्वाप्यनंतपापानि यदि भक्तिर्महेश्वरे ।

सर्वपापविनिर्मुक्तो भवत्येव न संशयः

॥५९॥

भवंति भस्मसाद्वृक्षादवदग्धा यथा वने ।

तथा भवंति दग्धानि शांकराणामघान्यपि

॥६०॥

यो नित्यं भस्मपूतांगो शिवपूजोन्मुखो भवेत् ।

स तरत्येव संसारमपारमतिदारुणम्

॥६१॥

ब्रह्मस्वहरणं कृत्वा हत्वापि ब्राह्मणान्बहून् ।

लिप्यते नरः पापैर्विरूपाक्षस्य सेवकः

॥६२॥

विलोक्य वेदानखिलाञ्छिवस्यैवार्चनम्परम् ।

संसारनाशनोपाय इति पूर्वैर्विनिश्चितम्

॥६३॥

अद्यप्रभृति यत्नेन सावधानो यथाविधि ।

साम्बं सदाशिवं भक्त्या भज नित्यं महेश्वरम्

॥६४॥

आपादमस्तकं सम्यक् भस्मनोद्धूल्य सादरम् ।

सर्वश्रुतिश्रुतं शैवम्मंत्रञ्जप षडक्षरम्

॥६५॥

सवार्ङ्गेषु प्रयत्नेन रुद्राक्षाञ्छिववल्लभान् ।

धारयस्वातिसद्भक्त्या समन्त्रम्विधिपूर्वकम्

॥६६॥

शृणु शैवीं कथां नित्यं वद शैवीं कथां सदा ।

पूजयस्वातियत्नेन शिवभक्तान्पुनः पुनः

॥६७॥

अप्रमादेन सततं शिवैकशरणो भव ।

शिवार्चनेन सततमानन्दः प्राप्यते यतः

॥६८॥

उरस्याधाय विशदे शिवस्य चरणाम्बुजौ ।

शिवतीर्थानि विचर प्रथमं मुनिसत्तम

॥६९॥

पश्यन्माहात्म्यमतुलं शंकरस्य परात्मनः ।

गच्छानन्दवनं पश्चाच्छंभुप्रियतमं मुने

॥७०॥

तत्र विश्वेश्वरं दृष्ट्वा पूजनं कुरु भक्तितः ।

नत्वा स्तुत्वा विशेषेण निर्विकल्पो भविष्यसि

॥७१॥

ततश्च भवता नूनं विधेयं गमनं मुने ।

ब्रह्मलोके स्वकामार्थं शासनान्मम भक्तितः

॥७२॥

नत्वा स्तुत्वा विशेषेण विधिं स्वजनकं मुने ।

प्रष्टव्यं शिवमाहात्म्यं बहुशः प्रीतचेतसा

॥७३॥

स शैवप्रवरो ब्रह्मा माहात्म्यं शंकरस्य ते ।

श्रावयिष्यति सुप्रीत्या शतनामस्तवं च हि

॥७४॥

अद्यतस्त्वं भव मुने शैवश्शिवपरायणः ।

मुक्तिभागी विशेषेण शिवस्ते शं विधास्यति

॥७५॥

इत्थं विष्णुर्मुनिं प्रीत्या ह्युपदिश्य प्रसन्नधीः ।

स्मृत्वा नुत्वा शिवं स्तुत्वा ततस्त्वंतरधीयत

॥७६॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदस्य विष्णूपदेशवर्णनो नाम चतुर्थोऽध्यायः ॥ ४ ॥