मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सृष्टिखण्डः, अध्याय ६

3
रुद्रसंहिता · सृष्टिखण्डः · 6

विष्णूत्पत्तिवर्णनः

ब्रह्मोवाच

भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम ।

लोकोपकारिणा नित्यं लोकानां हितकाम्यया

॥१॥

यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् ।

तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम्

॥२॥

शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः ।

ज्ञातश्च परमं रूपमद्भुतं च परेण न

॥३॥

महाप्रलयकाले च नष्टे स्थावरजंगमे ।

आसीत्तमोमयं सर्वमनर्कग्रहतारकम्

॥४॥

अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् ।

अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम्

॥५॥

अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् ।

अव्यक्तगंधरूपं च रसत्यक्तमदिङ्मुखम्

॥६॥

इत्थं सत्यंधतमसे सूचीभेद्यं निरंतरे ।

तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते

॥७॥

इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् ।

योगिनोंतर्हिताकाशे यत्पश्यंति निरंतरम्

॥८॥

अमनोगोचरम्वाचां विषयन्न कदाचन ।

अनामरूपवर्णं च न च स्थूलं न यत्कृशम्

॥९॥

अह्रस्वदीर्घमलघुगुरुत्वपरिवर्जितम् ।

न यत्रोपचयः कश्चित्तथा नापचयोऽपि च

॥१०॥

अभिधत्ते स चकितं यदस्तीति श्रुतिः पुनः ।

सत्यं ज्ञानमनंतं च परानंदम्परम्महः ।

अप्रमेयमनाधारमविकारमनाकृति ।

निर्गुणं योगिगम्यञ्च सर्वव्याप्येककारकम्

॥१२॥

निर्विकल्पं निरारंभं निर्मायं निरुपद्रवम् ।

अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम्

॥१३॥

यस्येत्थं संविकल्पंते संज्ञासंज्ञोक्तितः स्म वै ।

कियता चैव कालेन द्वितीयेच्छाऽभवत्किल

॥१४॥

अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ।

सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा

॥१५॥

सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ।

सर्वेकवंद्या सर्वाद्या सर्वदा सर्वसंस्कृतिः

॥१६॥

परिकल्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् ।

अद्वितीयमनाद्यंतं सर्वाभासं चिदात्मकम् ।

अंतर्दधे पराख्यं यद्ब्रह्म सर्वगमव्ययम्

॥१७॥

अमूर्ते यत्पराख्यं वै तस्य मूर्तिस्सदाशिवः ।

अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः

॥१८॥

शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः ।

स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी

॥१९॥

प्रधानं प्रकृति तां च मायां गुणवतीं पराम् ।

बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम्

॥२०॥

सा शक्तिरम्बिका प्रोक्ता प्रकृतिस्सकलेश्वरी ।

त्रिदेवजननी नित्या मूलकारणमित्युत

॥२१॥

अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा ।

राकाचन्द्रसहस्रस्य वदने भाश्च नित्यशः

॥२२॥

नानाभरणसंयुक्ता नानागतिसमन्विता ।

नानायुधधरा देवी फुल्लपंकजलोचना

॥२३॥

अचिंत्यतेजसा युक्ता सर्वयोनिस्समुद्यता ।

एकाकिनी यदा माया संयोगाच्चाप्यनेकिका

॥२४॥

परः पुमानीश्वरस्स शिवश्शंभुरनीश्वरः ।

शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः

॥२५॥

पंचवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् ।

कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः

॥२६॥

युगपच्च तया शक्त्या साकं कालस्वरूपिणा ।

शिवलोकाभिधं क्षेत्रं निर्मितं तेन ब्रह्मणा

॥२७॥

तदेव काशिकेत्येतत्प्रोच्यते क्षेत्रमुत्तमम् ।

परं निर्वाणसंख्यानं सर्वोपरि विराजितम्

॥२८॥

ताभ्यां च रममाणाभ्यां च तस्मिन्क्षेत्रे मनोरमे ।

परमानंदरूपाभ्यां परमानन्दरूपिणी

॥२९॥

मुने प्रलयकालेपि न तत्क्षेत्रं कदाचन ।

विमुक्तं हि शिवाभ्यां यदविमुक्तं ततो विदुः

॥३०॥

अस्यानन्दवनं नाम पुराकारि पिनाकिना ।

क्षेत्रस्यानंदहेतुत्वादविमुक्तमनंतरम्

॥३१॥

अथानन्दवने तस्मिञ्च्छिवयो रममाणयोः ।

इच्छेत्यभूत्सुरर्षे हि सृज्यः कोप्यपरः किल

॥३२॥

यस्मिन्यस्य महाभारमावां स्वस्वैरचारिणौ ।

निर्वाणधारणं कुर्वः केवलं काशिशायिनौ

॥३३॥

स एव सर्वं कुरुतां स एव परिपातु च ।

स एव संवृणोत्वं ते मदनुग्रहतस्सदा

॥३४॥

चेतस्समुद्रमाकुंच्य चिंताकल्लोललोलितम् ।

सत्त्वरत्नं तमोग्राहं रजोविद्रुमवल्लितम्

॥३५॥

यस्य प्रसादात्तिष्ठावस्सुखमानंदकानने ।

परिक्षिप्तमनोवृत्तौ बहिश्चिंतातुरे सुखम्

॥३६॥

संप्रधार्य्येति स विभुस्तया शक्त्या परेश्वरः ।

सव्ये व्यापारयांचक्रे दशमेंऽगेसुधासवम्

॥३७॥

ततः पुमानाविरासीदेकस्त्रैलोक्यसुंदरः ।

शांतस्सत्त्वगुणोद्रिक्तो गांभीर्य्यामितसागरः

॥३८॥

तथा च क्षमया युक्तो मुनेऽलब्धोपमो ऽभवत् ।

इन्द्रनीलद्युतिः श्रीमान्पुण्डरीकोत्तमेक्षणः

॥३९॥

सुवर्णकृतिभृच्छ्रेष्ठ दुकूलयुगलावृतः ।

लसत्प्रचंडदोर्दण्डयुगलोह्यपराजितः

॥४०॥

ततस्स पुरुषश्शंभुं प्रणम्य परमेश्वरम् ।

नामानि कुरु मे स्वामिन्वद कर्मं जगाविति

॥४१॥

तच्छ्रुत्वा वचनम्प्राह शंकरः प्रहसन्प्रभुः ।

पुरुषं तं महेशानो वाचा मेघगभीरया

॥४२॥

शिव उवाच

विष्ण्वितिव्यापकत्वात्ते नाम ख्यातं भविष्यति ।

बहून्यन्यानि नामानि भक्तसौख्यकराणि ह

॥४३॥

तपः कुरु दृढो भूत्वा परमं कार्यसाधनम् ।

इत्युक्त्वा श्वासमार्गेण ददौ च निगमं ततः

॥४४॥

ततोऽच्युतश्शिवं नत्वा चकार विपुलं तपः ।

अंतर्द्धानं गतश्शक्त्या सलोकः परमेश्वरः

॥४५॥

दिव्यं द्वादश साहस्रं वर्षं तप्त्वापि चाच्युतः ।

न प्राप स्वाभिलषितं सर्वदं शंभुदर्शनम्

॥४६॥

तत्तत्संशयमापन्नश्चिंतितं हृदि सादरम् ।

मयाद्य किं प्रकर्तव्यमिति विष्णुश्शिवं स्मरन्

॥४७॥

एतस्मिन्नंतरे वाणी समुत्पन्ना शिवाच्छुभा ।

तपः पुनः प्रकर्त्तव्यं संशयस्यापनुत्तये

॥४८॥

ततस्तेन च तच्छ्रुत्वा तपस्तप्तं सुदारुणम् ।

बहुकालं तदा ब्रह्मध्यानमार्गपरेण हि

॥४९॥

ततस्स पुरुषो विष्णुः प्रबुद्धो ध्यानमार्गतः ।

सुप्रीतो विस्मयं प्राप्तः किं यत्तव महा इति

॥५०॥

परिश्रमवतस्तस्य विष्णोः स्वाङ्गेभ्य एव च ।

जलधारा हि संयाता विविधाश्शिवमायया

॥५१॥

अभिव्याप्तं च सकलं शून्यं यत्तन्महामुने ।

ब्रह्मरूपं जलमभूत्स्पर्शनात्पापनाशनम्

॥५२॥

तदा श्रांतश्च पुरुषो विष्णुस्तस्मिञ्जले स्वयम् ।

सुष्वाप परम प्रीतो बहुकालं विमोहितः

॥५३॥

नारायणेति नामापि तस्यसीच्छ्रुतिसंमतम् ।

नान्यत्किंचित्तदा ह्यासीत्प्राकृतं पुरुषं विना

॥५४॥

एतस्मिन्नन्तरे काले तत्त्वान्यासन्महात्मनः ।

तत्प्रकारं शृणु प्राज्ञ गदतो मे महामते

॥५५॥

प्रकृतेश्च महानासीन्महतश्च गुणास्त्रयः ।

अहंकारस्ततो जातस्त्रिविधो गुणभेदतः

॥५६॥

तन्मात्राश्च ततो जातः पञ्चभूतानि वै तता ।

तदैव तानीन्द्रियाणि ज्ञानकर्ममयानि च

॥५७॥

तत्त्वानामिति संख्यानमुक्तं ते ऋषिसत्तम ।

जडात्मकञ्च तत्सर्वं प्रकृतेः पुरुषं विना

॥५८॥

तत्तदैकीकृतं तत्त्वं चतुर्विंशतिसंख्यकम् ।

शिवेच्छया गृहीत्वा स सुष्वाप ब्रह्मरूपके

॥५९॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सृष्टिव्याख्यने प्रथमखंडे विष्णूत्पत्तिवर्णनो नाम षष्ठोऽध्यायः ॥ ६ ॥