नारदतपोवर्णनम्
सूत उवाच
एतस्मिन्समये विप्रा नारदो मुनिसत्तमः ।
ब्रह्मपुत्रो विनीतात्मा तपोर्थं मन आदधे
॥१॥हिमशैलगुहा काचिदेका परमशोभना ।
यत्समीपे सुरनदी सदा वहति वेगतः
॥२॥तत्राश्रमो महादिव्यो नानाशोभासमन्वितः ।
तपोर्थं स ययौ तत्र नारदो दिव्यदर्शनः
॥३॥तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः ।
बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः
॥४॥चक्रे मुनिस्समाधिं तमहम्ब्रह्मेति यत्र ह ।
विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः
॥५॥इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे ।
चकंपेऽथ शुनासीरो मनस्संतापविह्वलः
॥६॥मनसीति विचिंत्यासौ मुनिर्मे राज्यमिच्छति ।
तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः
॥७॥सस्मार स्मरं शक्रश्चेतसा देवनायकः ।
आजगाम द्रुतं कामस्समधीर्महिषीसुतः
॥८॥अथागतं स्मरं दृष्ट्वा संबोध्य सुरराट् प्रभुः ।
उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः
॥९॥इन्द्र उवाच
मित्रवर्य्य महावीर सर्वदा हितकारक ।
शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना
॥१०॥त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः ।
मद्राज्यस्थिरता मित्र त्वदनुग्रहतस्सदा
॥११॥हिमशैलगुहायां हि मुनिस्तपति नारदः ।
मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः
॥१२॥याचेन्न विधितो राज्यं स ममेति विशंकितः ।
अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर
॥१३॥इत्याज्ञप्तो महेन्द्रेण स कामस्समधु प्रियः ।
जगाम तत्स्थलं गर्वादुपायं स्वञ्चकार ह
॥१४॥रचयामास तत्राशु स्वकलास्सकला अपि ।
वसंतोपि स्वप्रभावं चकार विविधं मदात्
॥१५॥न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः ।
भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह
॥१६॥शृणुतादरतस्तत्र कारणं शौनकादयः ।
ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि
॥१७॥अत्रैव शम्भुनाऽकारि सुतपश्च स्मरारिणा ।
अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः
॥१८॥कामजीवनहेतोर्हि रत्या संप्रार्थितैस्सुरैः ।
सम्प्रार्थित उवाचेदं शंकरो लोकशंकरः
॥१९॥कंचित्समयमासाद्य जीविष्यति सुराः स्मरः ।
परं त्विह स्मरोपायश्चरिष्यति न कश्चन
॥२०॥इह यावद्दृश्यते भूर्जनैः स्थित्वाऽमरास्सदा ।
कामबाणप्रभावोत्र न चलिष्यत्यसंशयम्
॥२१॥इति शंभूक्तितः कामो मिथ्यात्मगतिकस्तदा ।
नारदे स जगामाशु दिवमिन्द्रसमीपतः
॥२२॥आचख्यौ सर्ववृत्तांतं प्रभावं च मुनेः स्मरः ।
तदाज्ञया ययौ स्थानं स्वकीयं स मधुप्रियः
॥२३॥विस्मितोभूत्सुराधीशः प्रशशंसाथ नारदम् ।
तद्वृत्तांतानभिज्ञो हि मोहितश्शिवमायया
॥२४॥दुर्ज्ञेया शांभवी माया सर्वेषां प्राणिनामिह ।
भक्तं विनार्पितात्मानं तया संमोह्यते जगत्
॥२५॥नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह ।
पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः
॥२६॥कामोप्यजेयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः ।
वृथैव विगतज्ञानश्शिवमायाविमोहितः
॥२७॥धन्या धन्या महामाया शांभवी मुनिसत्तमाः ।
तद्गतिं न हि पश्यंति विष्णुब्रह्मादयोपि हि
॥२८॥तया संमोहितोतीव नारदो मुनिसत्तमः ।
कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी
॥२९॥रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तङ्गर्ववान्मुनिः ।
मत्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम्
॥३०॥तच्छ्रुत्वा शंकरः प्राह नारदं भक्तवत्सलः ।
स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम्
॥३१॥रुद्र उवाच
हे तात नारद प्राज्ञ धन्यस्त्वं शृणु मद्वचः ।
वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः
॥३२॥पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान् ।
गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन
॥३३॥शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् ।
विष्णुभक्तो यतस्त्वं हि तद्भक्तोतीव मेऽनुगः
॥३४॥शास्तिस्मेत्थञ्च बहुशो रुद्रस्सूतिकरः प्रभुः ।
नारदो न हितं मेने शिवमायाविमोहितः
॥३५॥प्रबला भाविनी कर्म गतिर्ज्ञेया विचक्षणैः ।
न निवार्या जनैः कैश्चिदपीच्छा सैव शांकरी
॥३६॥ततस्स मुनिवर्यो हि ब्रह्मलोकं जगाम ह ।
विधिं नत्वाऽब्रवीत्कामजयं स्वस्य तपोबलात्
॥३७॥तदाकर्ण्य विधिस्सोथ स्मृत्वा शम्भुपदाम्बुजम् ।
ज्ञात्वा सर्वं कारणं तन्निषिषेध सुतं तदा
॥३८॥मेने हितन्न विध्युक्तं नारदो ज्ञानिसत्तमः ।
शिवमायामोहितश्च रूढचित्तमदांकुरः
॥३९॥शिवेच्छा यादृशी लोके भवत्येव हि सा तदा ।
तदधीनं जगत्सर्वं वचस्तंत्यांत स्थितं यतः
॥४०॥नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः ।
मदांकुरमना वृत्तं गदितुं स्वं तदग्रतः
॥४१॥आगच्छंतं मुनिन्दृष्ट्वा नारदं विष्णुरादरात् ।
उत्थित्वाग्रे गतोऽरं तं शिश्लेषज्ञातहेतुकः
॥४२॥स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् ।
हरिः प्राह वचस्तथ्यं नारदं मदनाशनम्
॥४३॥विष्णुरुवाच
कुत आगम्यते तात किमर्थमिह चागतः ।
धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात्
॥४४॥विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः ।
स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः
॥४५॥श्रुत्वा मुनिवचो विष्णुस्समदं कारणं ततः ।
ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि
॥४६॥तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड् हरिः ।
सांजलिर्विसुधीर्नम्रमस्तकः परमेश्वरम्
॥४७॥विष्णुरुवाच
देवदेव महादेव प्रसीद परमेश्वर ।
धन्यस्त्वं शिव धन्या ते माया सर्व विमोहिनी
॥४८॥इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः ।
निमील्य नयने ध्यात्वा विरराम पदाम्बुजम्
॥४९॥यत्कर्तव्यं शंकरस्य स ज्ञात्वा विश्वपालकः ।
शिवशासनतः प्राह हृदाथ मुनिसत्तमम्
॥५०॥विष्णुरुवाच
धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः ।
भक्तित्रिकं न यस्यास्ति काममोहादयो मुने
॥५१॥विकारास्तस्य सद्यो वै भवंत्यखिलदुःखदाः ।
नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा
॥५२॥कथं कामविकारी स्या जन्मना विकृतस्सुधीः ।
इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः
॥५३॥विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् ।
नारद उवाच ।
किं प्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि
॥५४॥इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः
॥५५॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥